________________
(५१८ )
सादर्श:
[ षष्ठीप्रकरणे
अत्र केचित् - ' नराणां क्षत्रियः शूरः ' इत्यादौ क्षात्रय इव लक्षणया क्षात्रे ? यान्यपि क्षत्रियपदार्थः शूरपदस्यापि शूर इव तदन्योप्यर्थः षष्ठयर्थोऽभेदः क्षत्रिये चदन्यस्मिंश्चान्वेति तथा च नराभिन्नः क्षत्रियः शूरो नराभिन्नक्षत्रियान्यो न शूर इत्यर्थः । ' नराणां क्षत्रियेषु शौर्यम्' इत्यत्रापि क्षत्रियपदं प्राग्वदुभयार्थकं शौर्यपदं च तत्तदत्यन्ताभावार्थकं तथा च नराभिन्नक्षत्रिये शौर्यं तदन्यस्मिंस्तदभाव इति बोधः । उद्देश्यविधेययोर्यादृशसंबन्धो, भावान्वयबोधे भासते तत्संबन्धावच्छिन्नविधेयाभाव उद्देश्यवाचकविधेयवाचकपदयोर्वैयधिकरण्यस्थले विधेयपदलक्ष्यार्थः, तयोः सामानाधिकरण्यस्थले तु विधेयधर्मिभिन्न इति सामान्यतो व्युत्पत्तिरित्याहुः ।
“
परिहर्तुं मतान्तरमनुवदति - अत्र केचिदिति 1 अत्र क्षत्रियपदं क्षत्रियक्षत्रियान्यो भयपर शूरपदमपि शूरशून्योमयपरमित्यर्थः । तदन्यस्मिन् क्षत्रियान्यस्मिन् । नराणां क्षत्रियः शूरः : इतिवाक्यस्यार्थमाह- तथा चेति, ' नराभिन्नः क्षत्रियः शूरः ' इत्यत्र नराभेदस्य क्षत्रियेऽन्वयः, 1 नराभिन्नक्षत्रियान्यो न शूरः ' इत्यत्र च नराभेदस्य क्षत्रियान्यस्मिन्नऽन्वय इति विवेकः । उदाहरणान्तरपदार्थानाह - नराणामिति, पूर्वत्रोद्देश्य विधेयवाचकपदयोः सामानाधिकरण्यमस्ति - समानविभक्तिकत्वादत्र तु वैयधिकरण्यमिति विशेषः । उभयार्थकम् = क्षत्रियक्षत्रियासौमयार्थकम् । तत्तदत्यन्ताभावार्थकम् = शौर्यशौर्यात्यन्ताभावैतदुभयार्थकम् । वाक्यार्थमाहतथा चैति । तदन्यस्मिन् क्षत्रियान्यस्मिन् । तदमा वः =शौर्यात्यन्ताभावः । उक्तशाब्दबोधोप्रपादकव्युत्पत्तिमाह- उद्देश्येति, यथा ' नराणां क्षत्रियेषु शौर्यम् ' इत्यत्रोद्देश्यविधेययोः क्षत्रि• शौर्ययोर्यादृशसंबन्धः = आश्रयत्व संबन्धः ( शौर्यस्य क्षत्रियाश्रितत्वात् ) भावान्वयबोधे- 'क्षत्रिये शौर्यम्' इत्यत्र भासते तत्संबन्धावच्छिन्नविधेयाभावः = आश्रयत्वसंबन्धावच्छिन्नप्रतियोगिताक सौर्यामाव उद्देश्यवाचकविधेयवाचकपदयोर्वैयधिकरण्यस्थले = ' नराणां क्षत्रियेषु शौर्यम् ' इत्यत्र विधेयपदलक्ष्यार्थो भवति तथा चात्र क्षत्रियान्यस्मिन् शौर्यपदलक्ष्यार्थस्योक्तरूपसौर्याभावस्थान्ययो भवति तदेवोक्तम् " तदन्यस्मिंस्तदभावः " इति । सामानाधिकरण्यस्थलीयव्युत्पत्तिमाह - तयोरिति, तयोः उद्देशवाचकविधेयवाचकपदयोः सामानाधिकरण्यस्थले 'नराणां क्षत्रियः शूरः' इत्यादौ विधेयधर्मिभिन्नः = विधेयधर्मिभ्यां शूरत्वक्षत्रियाभ्यां भिन्नो विधेयवाचकधर्मिवाचकपदयोर्लक्ष्यार्थः, अत्र ' विधेयधर्मभिन्नः' इति पाठे तु विधेयरूपो यो धर्मः शूरत्वं तद्मिन्न:- अशूरत्वमेव विधेयपदस्य शूरपदस्य लक्ष्यार्थ इत्यर्थस्तथा च लक्ष्यार्थभूते क्षत्रियान्यस्मिन्न लक्ष्यार्थभूतस्याऽशूरत्वस्यात्रान्वयो जातस्तदेवोक्तम्- “ नराभिन्नक्षत्रियान्यो न शूरः" इति, शूरमिन्नाऽशूरस्य क्षत्रियान्येन सह सामानाधिकरण्यं संभवतीति भावः । पूर्वत्रायन्तामा उत्तरत्र च भेदविशिष्टे लक्षणेति सारः ।
"Aho Shrutgyanam"