________________
यतश्च निर्धारणमितिसूत्रम् ] व्युत्पत्तिवादः ।
( ५१९) तन्न शोभनम्-तथा सति ' तस्मै पुरुषोत्तमाय नमः । इत्यत्र तत्पदार्थतदन्ययोरेव पुरुषपदार्थाऽभेदविवक्षणे उत्तमपदेनाऽसामर्थ्यात् समासाप्रसक्तेः “न निर्धारणे" इतिनिषेधाश्रयणेन प्रकाशकृतां निर्धारणषष्ठीसमासखण्डनानौचि. त्यप्रसङ्गात् । एवम् — नरेषु शूरस्य क्षत्रियस्येदं राज्यम्' इत्यादी शूरपदार्थाशूरान्वितक्षत्रियपदार्थक्षत्रियान्यस्य षष्ठ्यर्थसंबन्धादी नान्वयः किं तु शूराबयिक्षत्रियादेरन्वय इत्येतन्नोपपद्यते- 'श्वेतं सैन्धवं भुङ्क्ते ' इत्यादौ (तु) कर्मवादिविशेषणतया लवणादिबुद्धौ मुख्यविशेष्यतयाऽश्वादेरभानाद्. एकपदो. पस्थापितयोईयोस्तत्प्रकृतिकविभक्त्यर्थे एकस्य विशेषणतयाऽपरस्य तदविशेषणतया भानस्थाऽव्युत्पन्नत्वात् ।
परिहरति- तनेति, यदि — नराणां क्षत्रियः शूरः । इत्यत्रोक्तरीत्या षष्ट्यर्थाभेदस्य क्षत्रियतदन्ययोरन्वयः स्यात्तदा तद्दष्टान्तेन ' तस्मै पुरुषोत्तमाय ' इत्यस्य ' पुरुषाणां तस्मै उत्तमाय । इत्येवमपि विग्रहवाक्ये कृते तत्रापि तत्पदस्य तत्पदार्थतदन्यपदार्थेतदुभयबोधकत्वं स्यात पुरुषपदोत्तरषष्ठयर्थस्याभेदस्य च तत्पदार्थतदन्ययोरेवान्वयः- स्यादिवि पुरुषपदार्थतत्पदार्थयोरेवाभेदो लभ्येत न तु पुरुषपदार्थोत्तमपदार्थयोरिति पुरुषपदार्थस्योत्तमंपदार्थेन सह साम
र्थ्याभावादेवात्र ' पुरुषोत्तमाय ' इति समासो न संभवति इत्येवं समासामावे प्राप्तेपि प्रकाशकारेण यदत्र “न निर्धारणे " इति निषेधमाश्रित्य 'पुरुषाणां तस्मै उत्तमाय ' इति निर्धारणषष्ठीसमासखण्डनं कृतं तस्यानौचित्यं प्रसज्येत न चैतदिष्टं तस्मान्नोक्तोपपादनं शोमनमित्यर्थः । सिद्धान्ते तु 'पुरुषोत्तमपदे.' न निर्धारणषष्ठीसमासः किं तु कर्मधारय एवेति विजें. यम् । केचित्तु मते विरोधान्तरमाह- एवमिति, 'नरेषु शूरस्य क्षत्रियस्येदं राज्यम् ' इत्यत्र तव मतेन शूरपदस्य शूरशूरान्यबोधकत्वं क्षत्रियपदस्य च क्षत्रियक्षत्रियान्यबोधकत्वमस्ति तंत्र षष्ठधर्यभूसे स्वत्वसंबन्धे निरूपितत्वसंबन्धेन शूरपदार्थों योऽशूरोऽभेदेन तदन्वितो यःक्षत्रियपदार्थ: क्षत्रियान्यस्तस्य(क्षत्रियभिन्नाारस्य)अन्वयो नास्ति किं तु शूरान्वयि-शूराभिन्नक्षत्रियस्यान्वयोस्ति इति यदुक्तं तन्नोपपद्यते-एकपदोपस्थितयोयोरर्थयोर्मध्ये तत्पदप्रकृतिकविभक्त्यर्थे एकस्य विशेष मतयाऽपरस्य तदऽविशेषणतया विभक्त्यर्थाविशेषणतया भानं व्युत्पत्तिविरुद्धमस्ति तयोर्द्वयोरेवार्थयोस्तुल्यत्वात् तथा चात्र शूरक्षत्रियपदाम्यामुपस्थितस्य शूराभिन्नक्षत्रियस्य षष्ठयर्थसंवन्ये विशेषणतयाऽन्चयोस्ति अशूरामिभक्षत्रियान्यस्य च विशेषणतयान्वयो नास्ति इतिवैषम्यं न संभवति, ययुच्यते ' श्वेतं सैन्धवं मुस्ते ' इत्यत्र लवणबुद्धौ जातायां सन्धषपदार्थयोलवणाव. योर्मध्ये एकस्यैवार्थस्य लवणस्य यया सैन्धवपदोत्तरद्वितीयार्थकर्मतायां विशेषणतयान्वयभानं भवति न त्वश्वस्यापीति तथा प्रकृतेप्येकस्यैवार्थस्य विभक्त्यर्थविशेषणतया मानं न विरुद्धं तदपि न युक्तम्- 'सैन्धवं भुङ्क्ते ' इत्यत्र भुङ्क्तेपदसमभिव्याहारप्रमाचेन लवणबुद्धिरेव जायते लवणो. पस्थितौ जातायां च सैन्धवपदेनाऽश्वस्य मुख्यविशेष्यतया मानम्-उपस्थितिरेव न भवतीत्यऽत्रा.
"Aho Shrutgyanam"