________________
(५२०)
सादर्शः
[ षष्ठीप्रकरणे
एवम्-'द्रव्येषु क्षितिपाथसी रसवती' इत्यादौ क्षितिजलाभयत्वाद्यवच्छिनभिन्न रसवदाद्यन्यत्वबोधो न संभवति-रसादिमत्यपि. प्रत्येकमुभयत्वावच्छिन्नभेदसत्त्वात्, नापि प्रत्येकभेदावच्छिन्ने-तथैव बाधात्, नाप्येकभेदविशिष्टापरभेदावच्छिन्ने- एकपदस्य तादृशभेदावच्छिन्नलक्षकत्वेऽपरपदार्थे रसवदाद्यन्यत्वरूपविधेयानन्वयात्, इन्दघटकैकपदार्थमात्रे विधेयान्वयस्याऽव्युत्पन्नत्वात् । नापि
पदाभ्यां लक्षणया तत्तद्भिन्नोपस्थितावऽभेदेनकभिन्नान्वितेऽपरभिन्ने. तथापि श्वस्य सैन्धवपदार्थस्यापि सैन्धवपदोत्तरद्वितीयार्थकर्मतायामविशेषणत्वं युक्तं प्रकृते तु द्वयोरेवार्थयोरुपस्थितयोस्तुल्यत्वादेकस्य विभक्त्यर्थं विशेषणतयाऽपरस्याऽविशेषणतया भानमिति वैषम्यं न संभवतीत्यर्थः प्रतिभाति । - केचित्तुमतेऽनुपपत्त्यन्तरमुद्घाटयति-एवमिति, 'द्रव्येषु क्षितिपाथसी रसवती' इत्यत्रापि त्वदुक्तरीत्या क्षितिपाथःपादाभ्यां क्षितिजलयोस्तदन्ययोश्च बोधो रसवतीपदेन रसवतीतदन्ययोश्च बोधः प्राप्तस्तत्र क्षितिजलोभयत्वावच्छिन्नभिन्ने रसवदन्यत्वस्यान्वयः कर्तव्यः सोपि न संभवति-प्रत्येकमुभयत्वावच्छिन्नभेदस्वीकाराद् रसवत्यामपि क्षितौ :क्षितिजलोभयत्वावच्छिन्नभेदोस्त्येव तथा जलेप्यस्त्येव न च तत्र रसवदन्यत्वान्वयः संभवति रसवत्त्वस्यैव सत्त्वादित्यर्थः । यदि प्रत्येकभेदावच्छिन्ने जलभेदावच्छिन्ने क्षितिभेदावच्छिन्ने च रसवदन्यत्वान्वय उच्यते तदपि न संभवति- तथैव बाधात् नाम जलभेदः क्षितावप्यस्ति क्षितिभेदश्च जलेप्यस्ति न च तत्र स्सवदन्यत्वान्त्रयः संभवति-रसवत्त्वस्यैव सत्त्वादित्याशयेनाह-नापि प्रत्येकेति । यदि चैकमेकविशिष्टापरभेदावच्छिन्ने रसवदन्यत्वान्वय उच्यते यथा तेजसि क्षितिभेदोप्यस्ति जलभेदोप्यसीति एकेन क्षितिपदार्थस्य भेदेन विशिष्टो यो जलभेदस्तदवच्छिन्नत्वं क्षितिजलातिरिक्तेष्वेक तेजादिष्वस्ति तत्र च रसवत्त्वमपि नास्ति तदाप्यत्रैकपदस्य-क्षितिपदस्य जलपदस्य वा साहशभेदावच्छिन्नलक्षकत्वे एकभेदविशिष्टापरभेदावच्छिन्नलक्षकत्वे तादृशभेदावच्छिन्नस्यैकपदस्यैवार्थत्वे प्राप्ते एकपदस्यार्थे एव रसवदन्यत्वान्वयः प्राप्तो न त्वऽपरपदस्यार्थे इत्यपरपदार्थे रसवदन्यत्वरूपविधेयस्याऽनन्वय एव प्राप्त इत्याशयेनाह-नाप्येकभेदेति । अस्त्वेकपदार्थे एव विधेयान्वय इत्याशङ्कय तत्र व्युत्पत्तिविरोधमाह-द्वन्द्वति, यथा ' धवखदिरौ छिनत्ति । इति. द्वन्द्वे छेदनस्य द्वन्द्वघटकधवखदिरयोरुभयोरेवान्वयस्तथा 'क्षितिपाथसी ' इतिद्वन्द्वघटकोभयपदवोध्ययोरुभयोरेवार्थयोर्विधेयस्य रसवदन्यत्वस्यान्वयो युक्तो न त्वेकमात्रपदार्थे इत्यर्थः । यदि च क्षितिपदेन क्षितिभिन्नं पाथस्पदेन च पाथोभिन्नमुपस्थितं तत्राभेदसंबन्धेनकमिन्नन= क्षितिमिन्ननान्वितं यदऽपरभिन्नम=पाथोभिन्नं तेजआदिकं तत्र रसवदन्यत्वान्वयः क्रियते क्षितिभिन्नं पाथोभिन्नं चैकमेवाभेदेन भवति तथाच द्वन्द्वघटकोभयपदार्थे एव विधेयान्वयो जात इति न पूर्वोक्तदोषोपीत्युच्यते? तदापि पदार्थद्वये विधेयान्वयो न प्राप्नोति “ पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन " इति भ्यायेन किं वा विशेष्ये एव विशेषणान्त्रयो भवतीतिन्याये
"Aho Shrutgyanam"