________________
यतश्च निर्धारणमितिसूत्रम् ] व्युत्पत्तिवादः ।
(५२१) पदार्थद्वये विधेयान्वयाऽनुपपादनात्, इन्दे समस्यमानपदार्थानां परस्परमन न्वयादित्यपि चिन्त्यम् ।
यनु ' नराणां शूरः क्षत्रियः' इत्यादौ शूराद्यन्वय्यऽभेदः षष्ठयर्थः, नराभिन्नशूरत्वाद्यवच्छेदेन च क्षत्रियाऽभेदान्वयः, एवं च क्षत्रियान्ये नरेऽर्थतः शौर्यव्यवच्छेदलाभ इति, तदत्यन्तमसत्-नराणां क्षत्रिये शौर्यम् ' इत्यादौ क्षात्रेयाणां कर्णः प्रचुरं ददाति ' इत्यादी चाऽनिर्वाहात् ।
इदं तु तत्त्वम्-निर्धारणावभक्तेावृत्तत्वमेवार्थः, व्यावृत्तत्वं चाऽभेदान्वयिविधेयसमभिव्याहारस्थलेऽन्योन्याभावप्रतियोगित्वं भेदान्वायतत्स्थले चाऽत्यन्ताभावप्रतियोगित्वं तस्य च विधेयतावच्छेदकावच्छेदेनाऽन्वयोऽतो न द्वित्वाधव. नैकभिन्नान्त्रितेऽपरभिन्न एव विधेयान्वयः स्यानत्वऽपरभिन्नविशेषणीभूते एकभिन्नेपि तथा च पूर्वोक्तः “ द्वन्द्वघटकैकपदार्थमात्रे" इतिव्युत्पत्तिविरोधस्तदवस्थ एवेत्याशयेनाह-नापि पदाभ्यामिति । किं चास्मिन् पक्षे एकपदार्थस्यापरपदार्थेनान्वयो जातः सोपि द्वन्द्वे न भवति न हि 'धवखदिरौ छिनत्ति' इत्यत्र धवखदिस्योः परस्परमप्यन्वयो भवतीत्याशयेनाह-द्वन्द्वे इति । अनन्वयादिति-द्वन्द्वघटकपदार्थानां परस्परमन्वयो न भवतीति नियनादित्यर्थः ।
परिहाराय मतान्तरमुपस्थापयति-यत्त्विति, अनेन मतेन ' नराभिन्नशूराभिन्नः क्षत्रियः । इति वाक्यार्थो लब्धस्तथा चार्थादेव क्षत्रियान्यो नरो न शूर इति लब्धमिति भावः । परिहरतितदिति, ' नराणां क्षत्रियः शूरः' इत्यत्र समानविभक्तिकत्वप्रयुक्तसामानाधिकरण्यवशाद् नराभिन्नशूरस्य क्षत्रियस्य चाऽभेदे संभवत्यपि ' नराणां क्षत्रिये शौर्यम् ' इत्यत्र शौर्यस्य क्षत्रियेण वा नरेण वाऽमेदो न संभवति सामानाधिकरण्याभावात् बाधितत्वाच्च, एवम् 'क्षत्रियाणां कर्णः' इत्यत्रापि क्षत्रियाभिन्नकर्णेन सह तिर्थप्रचुरदानकृतेरभेदो न संभवति-कृतिकोरभेदस्य बाधितत्वादित्यर्थः-- अनिर्वाहात् अभेदाऽनिर्वाहात् ।। ___ एवं परमतानि पराकृत्य सिद्धान्तमाह-इदमित्यादिना । निर्धारणविभक्तेः “ यतश्च निर्धारणम् " इति सूत्रविहितषष्ठीसप्तम्योः । उक्तविभक्त्यर्थीभूतव्यावृत्तत्वस्य स्वरूपमाह-व्यावृत्तत्वं चेति । अभेदान्वयिविधयसमभिव्याहारस्थले-' नराणां क्षत्रियः शूरः' इत्यादी. अत्र शूरपदार्थक्षत्रिययोरभेदेनेवान्वयसंभवात् । अन्योन्याभावप्रतियोगित्वमिति-क्षत्रियभिन्ननरे शूरभेदो वर्तते इति शूरे यत्तादृशभेदप्रतियोगित्वं तदेव क्षत्रियभिन्ननरव्यावृत्तत्वं विज्ञेयम् । क्षत्रियमिन्ननरे क्षत्रियभेदोपलब्धेरुपायमनुपदमेव वक्ष्यति । भेदान्वयितरस्थले भेदान्वयिविधेयसमभिव्याहारस्थले* नराणां क्षत्रिये शौर्यम् ' इत्यादी. अत्र क्षत्रियशौर्ययोरमेदासंभवात् क्षत्रिये शौर्य विधीयते इति भेदान्वयिविधेयः । अत्यन्ताभावप्रतियोगित्वमिति-क्षत्रियभिन्ननरे शौर्य नास्तीति शौर्य यत्तादृशारयन्ताभावप्रतियोगित्वं तदेव क्षत्रियभिन्ननरल्यावृत्तस्वम् । तस्य अन्योन्याभावप्रतियोगि
"Aho Shrutgyanam"