________________
( ५२२ )
सादर्श:
[ षष्ठीप्रकरणे
च्छिन्नाभावमादायातिप्रसङ्गः । अभावे च प्रकृत्यर्थस्य नरादेः क्षत्रियत्वादिरूपोहेश्यतावच्छेदकावच्छिन्नभेदविशिष्टप्रकृत्यर्थतावच्छेदकनरत्वादिव्यापकाधिकरणता: निरूपिताssधेयता संबन्धेनान्वय एतावतैव जात्यादिरूपविशेषणशून्यप्रकृत्यर्थनरादिसामान्यव्यावृत्तेर्विधेयधमें लाभः ।
द्रव्याणां क्षितिपाथसी रसवती ' इत्यादौ भेदद्वयादिविशिष्टद्रव्यत्वादि
*
स्वस्याऽत्यन्ताभावप्रतियोगित्वस्य च विधेयतावच्छेदकावच्छेदेनान्वय इति - ' नराणां क्षत्रियः शूरः" इत्यत्र विधेयः शूरो विधेयतावच्छेदकं शूरत्वं तदवच्छेदेन तथा च शूरत्वावच्छेदेन शूरे क्षत्रियभिन्नमरवृत्तिशूरान्योन्याभावप्रतियोगित्वस्यान्त्रयः, ' नराणां क्षत्रिये शौर्यम्' इत्यत्र विधेयतावच्छेदकं शौर्यत्वं तदवच्छेदेन शौर्ये क्षत्रियमिन्ननरवृत्तिशौर्यात्यन्ताभावप्रतियोगित्वस्यान्वय इत्यर्थः । विधेयतावच्छेदकावच्छेदेनोक्तान्त्रयस्य फलमाह- अत इति, यद्युक्तप्रतियोगित्वस्थ विधेयतावच्छेदकावच्छेदेनान्वयो न स्यात्तदा क्षत्रिये शूरभेदस्य शौर्यात्यन्ताभावस्य चासत्त्वेपि शूरराक्षसेतदुभयभेदोस्त्येव तथा शौर्य राक्षससत्त्वैतदुभयात्यन्ताभावो व्यस्त्येवेति एतादृशद्वित्वावच्छिभावमादाय विधेये शौर्यशूरादौ क्षत्रियव्यावृत्तत्वस्याप्यतिप्रसङ्गः स्यात्, यदा चोक्तप्रतियोगि त्वस्य विधेयतावच्छेदकावच्छेदेनान्वयस्तदा शूरत्वावच्छिन्नप्रतियोगिताकान्योन्याभावः शौर्यत्वावच्छिन्नप्रतियोगिताकात्यन्ताभावश्च लभ्यते तथा च क्षत्रिये उक्तद्विश्वावच्छिन्नप्रतियोगिताकाभावस्य सत्त्वेपि शूरत्वावच्छिन्नप्रतियोगिताकान्योन्याभावः शौर्यत्वावच्छिन्नप्रतियोगिताकात्यन्ताभावश्च नास्त्येवेति न विधेये शौर्यशूरादौ क्षत्रियव्यावृत्तत्वस्यातिप्रसङ्ग इत्यर्थः । श्रभावे-क्ष--- त्रियमिन्ननर निष्ठे शूरान्योन्याभावे शौर्यात्यन्ताभावे च प्रकृत्यर्थस्य निर्धारणविभक्तिप्रकृत्यर्थस्य नरादेरुच्यमानाधेयतासंबन्धेनान्वयः - अभावस्य नरादौ वृत्तित्वेनाभावे आधेयता वर्तते एव सैक् संबन्ध इत्याह- अभावे चेति । स्वाभिप्रेतावेयतामाह- क्षत्रियत्वादीति, क्षत्रियत्वादिरूपोद्देश्यतावच्छेदकेनाऽवच्छिन्नो यः क्षत्रियस्तभेदेन विशिष्टम् = समानाधिकरणं यत् प्रकृत्यर्थतावच्छे दकं नरत्वादिकं सद्व्यापकीभूता याधिकरणता उक्ताभावनिष्ठाधेयतानिरूपिताधिकरणता यत्र यत्र क्षत्रियभेद विशिष्टनरत्वं वर्तते क्षत्रियभिन्ननरे तत्र तत्र शूरान्योन्याभावः शौर्यात्यन्ताभावश्च वर्तते एवेति तादृशाभावाधिकरणतापि वर्तते इत्यधिकरणतायामऽस्यां क्षत्रियभेदसमानाधिकरणनरत्वव्यापकत्वं प्राप्तम् । एतादृशनरत्वादिव्यापकीभूताधिकरणतानिरूपिता चाधेयता विवक्षिताभावे प्राप्तेति एतादृशाधेयतासंबन्धेनाऽभावे प्रकृत्यर्थनरादेरन्वयः क्रियते । अत्र व नरे क्षत्रियवैशिष्ट्यस्य निवेशाद् नरपदेन क्षत्रियमिन्ननरो गृह्यते तथा चैतावतैव=आधेयतारूपसंबन्धस्वरूपे एव क्षत्रियभेदनिवेशेनैव क्षत्रियत्वादिजातिरूपविशेषणशून्यनरसामान्यव्यावृत्तत्वं विधेयलक्षणधर्मे लभ्यते एवेति न पूर्वोक्तमतानि युक्तानीत्यर्थः ।
द्रव्याणामिति - ' द्रव्याणां क्षितिपाथसी रसवती' इत्यत्रापि व्यावृत्तत्वं षष्ठयर्थ इत्यादिकं
"Aho Shrutgyanam"