________________
यतश्च निर्धारणमितिसूत्रम् ] व्युत्पत्तिवादः ।
( ५२३ )
व्यापकतैव संबन्धः । विधेयस्य शूरतमादेर्निर्धारण विभक्तिप्रकृत्यर्थतावच्छेदकनरत्वादिविशिष्टतादात्म्यादिव संबन्धतया भासतेऽतो 'नराणां राक्षसः शूरः ' इत्यादेर्नापत्तिः । अन्यत्स्वयमूह्यम् ॥
॥ इति षष्ठ्यर्थनिरूपणं समाप्तम् !
८
सर्व पूर्ववदेव किं तु रसवदन्योन्याभावे द्रव्यस्य भेदद्वयविशिष्टद्रव्यत्वादिव्यापकता मात्र संबन्धेनान्वय इत्येव विशेष इत्यर्थः । भेदद्वयेति-- तेजआदौ क्षितिभेदः पाथोमेदश्व वर्तते तत्र द्रव्यत्वमपि वर्तते इति भेदद्वयविशिष्टं द्रव्यत्वं यत्र यत्र तेजआदौ वर्तते तत्र तत्र रसवदन्योन्याभावोपि वर्तते इत्यभावे व्यापकता प्राप्ता तादृशव्यापकतासंबन्धेनाभावे द्रव्यपदार्थस्याऽन्वय इति विधेये रसवत्त्वे क्षितिजलोमयभिन्नद्रव्यव्यावृत्तत्वलाभ इत्यर्थः । एवं पूर्वत्रापि क्षत्रियत्वावच्छिन्नभेदविशिष्टनरत्वव्यापकतायाः संबन्धस्त्वं संभवत्येवेत्याधेयतापर्यन्तानुधावनं चिन्त्यम् । विधेयस्येतिनराणां क्षत्रियः शूरतमः' इत्यत्र विधेयस्य शूरतमादेर्निधारणविभक्तिप्रकृत्यर्थतावच्छेदकं यनरत्वं तादृशनरत्वादिविशिष्टतादात्म्यसंबन्धेन क्षत्रिये उद्देश्यभूतेऽन्वयो ज्ञेय:- क्षत्रिये च संबन्ध - भूतं नरतादात्म्यमस्त्येव तस्मात् ' नराणां राक्षसः शूरः इति प्रयोगस्यापत्तिर्नास्ति यतोत्राप्युक्तरीत्या निर्धारणविभक्तिप्रकृत्यर्थतावच्छेदकनरत्वविशिष्टतादात्म्येन=नरतादात्म्येनैव राक्षसे शूरान्वयः कर्तव्यो नरतादात्म्यं च राक्षसे नास्त्येव - राक्षसानां नरभिन्नत्वादित्यत्रोद्देश्यभूते राक्षसे विधेयभूतशूरान्वयाऽसंभवात् नैतत्प्रयोगापत्तिः किं तु ' नरेम्यो राक्षसाः शूराः ' इत्येव प्रयोगो भवतीत्यर्थः । ' नरांणां कर्णः प्रचुरं ददाति इत्यत्रापि कर्णे प्रचुरदानकृतेरभेदासमवाद् मेदान्वय एवेत्यनेन वाक्येन कर्णमिन्नक्षत्रिये प्रचुरदानकृतेरत्यन्ताभावो बोध्यते इति तादृशात्यन्ताभावप्रतियोगित्वं यत् प्रचुरदानकृतौ प्राप्तं तदेव कर्णमिन्नक्षत्रियव्यावृत्तत्वमिति बोध्यम् ॥ ॥ इति व्युत्पत्तिवादादर्शे षष्ठयर्थनिरूपणं समाप्तम् ॥
"Aho Shrutgyanam"