________________
अथ सप्तम
आधारसप्तम्या आधेयत्वमर्थस्तस्य क्रियायामन्वयः । आधाराधेयभावश्व न संयोगादिरूप संबन्धात्मकः - कुण्डादिसंयोगिनो बदरादेरपि कुण्डाधारताप्रसङ्गात् अपि तु पदार्थान्तरमेव स च संबन्धविशेषावच्छिन्नः - संयोगेनाधिकरणं समवायेनाधिकरणमित्यादिव्यवहारात् । अथ वोक्तातिप्रसङ्गभिया संयोगेनाधारत्वमेवातिरिक्तं समवायसंबन्धावच्छिन्नं च समवायादिरूपमेव । न च समवायस्यापि संबन्धत्वेन द्विष्ठतया रूपादेरपि पटाद्यधिकरणताप्रसङ्गः, तथा सति तुल्ययुक्वाऽधिकरणत्वस्यापि द्विष्ठतया तादृशातिप्रसङ्गस्य दुर्वारत्वात् । यदि चाधारताया आधारेऽनुयोगित्वं संबन्ध आधेये च प्रतियोगित्वामेति संबन्धवैलक्षण्यानातिप्रसङ्गः- आधारतानुयोगिताया एवाधारव्यवहारप्रयोजकत्वादित्युच्यते ? तदा समवायस्यापि तद्वैलक्षण्येनातिप्रसङ्गवारणादतिरिक्ताधारतायां मानाभावात् ।
क्रमप्राप्तं सप्तम्यर्थनिरूपणमारभते- 'आधारेति । आधारस्यैवाधिकरणत्वादधिकरणे च सूत्रकृता सप्तम्या विहितत्वादुच्यते- आधारसप्तम्या इति । तस्य = आधेयत्वस्य । ' स्थाल्यां पचति इत्यादी पाकादिक्रियायां स्थाल्यायाधेयकत्वं स्पष्टमेव ' भूतले वर्तते घटः' इत्यादी क्रियायां सप्तम्यर्थान्वयव्यवस्थां स्वयमेवाग्रे अथेत्यादिना प्रतिपादयिष्यतीति ध्येयम् । आधेयत्वं च वृत्तित्वमेवेति ' भूतले घटः ' इत्यस्य भूतलवृत्तिर्घट इति शाब्दबोधः संपन्नः । आधाराधेयभावमाह - आधारेति । सः = पदार्थान्तरभूत आधाराधेयभावः । बदरकुण्डयोराधाराधेयभावः संयोगसंबन्धावच्छिन्नः- कुण्डबदरयोः संयोगस्यैव सत्त्वात् । घटतद्रूपयोराधाराधेयभावः समवायसंबन्धावच्छिन्नः - तयोः समवायस्यैव संत्रम्यत्वात् । पक्षान्तरमाह- अथवेति । उक्तातिप्रसङ्ग भिया=बदरस्य कुण्डाधारताप्रसङ्गवारणाय, संयोगसंबन्धावच्छिन्नाधारत्वस्यातिरिक्तत्वेन तत् कुण्डे एव स्वीक्रियते न बदरेपि येन बदरस्य कुण्डाधारत्वं प्रसज्येतेत्यर्थः । ननु यदि समवायसंबन्धावच्छिन्नमाधारत्वं समवायस्त्ररूपमेव तदा पटतद्रूपयोः समवायस्य तुल्यत्वादेव रूपस्यापि पटाधारत्वं स्यादित्याशङ्क्याह- न चेति । उत्तरमाह - तथा सतीति । नन्वाधारताऽऽधारेऽनुयोगित्वरंबधेन वर्तते आधेये च प्रतियोगित्वसंबन्धेनेति संबन्धवैलक्षण्यात् = अनुयोगित्वप्रतियोगित्वरूपसंबन्धयोर्वैलक्षण्यमस्ति तत्राधारतानुयोगिन एकाधारत्वं स्वीक्रियते इति नाधारताप्रतियोगिनो रूपादेः पटायाधारताप्रसक्तिरित्याशयेनाह - यदीति । उत्तरमाह- तदेति, तद्वैलक्षण्येन = अनुयोगिता प्रतियोगित्वयोर्वैलक्षण्येन -- समवायस्यानुयोगित्वमाधारे प्रतियोगित्वं चाधेये तत्र समचायानुयोगिन एवाधारत्वस्वीकारान्न रूपस्य पदाधारताप्रसक्तिः, एत्रमेत्र कुण्डबदरादिसंयोगस्थलेपि न बदरादेः कुण्डाधारताप्रसक्तिरस्तीति संयोगसमवायाद्यतिरिक्ताधारत्वसंबन्वस्वीकारो व्यर्थ एवेत्यर्थः ।
"Aho Shrutgyanam"