________________
आधारताविचारः ]
व्युत्पत्तिवादः ।
स्पर्शायाधारवाय्वादे रूपाद्याधारतावारणायाऽऽधेयभेदेनाधारत्वमतिरिक्तम्, इति न सत् - आधेयभेदभिन्नाधिकरणतानामऽतिरिक्तसमवायस्य च कल्पना - मपेक्ष्याऽऽधेयभेदेन समवायभेदस्यैवोपगन्तुमुचितत्वात् ।
( ५२५)
अथ संयोगेनाधिकरणत्वमपि संयोगरूपमस्तु कुण्डबदरादिसंयोगानां कुण्डादिकमनुयोगि नतु बदरादिकमिति नातिप्रसङ्गः । न चैवमपि बदरादेः कुण्डादिनिष्टसंयोगानुयोगितया आधारतापत्तिः- तादृशसंयोगस्य कुण्डादिनिष्ठस्वेपि तत्प्रतियोगिकत्वानुपगमात् तत्प्रतियोगिकसंबन्धानुयोगिताया एव तदाधारव्यवहारप्रयोजकत्वात् । न चासौ संयोगो बदरादौ कुण्डादिविशिष्टबुद्विमयोजकतयोभयानुयोगिक एवमुभयप्रतियोगिकोपीति वाच्यम्, आधेये संयोगेनाधिकरणविशिष्टबुद्धेरप्रामाणिकत्वात्, 'कुण्डे बदरम्' इत्यादिवि
"
नन्वेवं हि वायौ स्पर्शसमवायोस्त्येव समवायश्चैक एवेति वायौ रूपसमत्रायप्रसक्त्या रूपा -- धारतापि प्रसज्येत न चैतदिष्टमिति तद्दारणायाऽधेयभेदेनाधारत्वं समवायाद्यतिरिक्तं स्वीक्रियते तथा च वायौ स्पर्शाधारतासत्त्वेपि रूपाधारताप्रसक्तिर्नास्ति- रूपाधारतायाः स्पर्शाधारतापेक्षयाऽतिरिक्तत्वात्तस्याश्च वायाबस्वीकारादित्याशयेनाह - स्पर्शेति । परिहारमाह- इति न सदिति । एवं ह्याधारमेदेनाधारतानामनन्तानां स्वीकारः प्राप्तः समवायस्यापि प्राप्त इति गौरखं स्यादित्याय भेदेन समत्रायभेद एव स्वीकर्तुमुचितस्तथा च वायौ स्पर्शसमवायसत्त्वेपि रूपसमवायाभावाद्रूपाधारताप्रसक्तिर्नास्तीत्यर्थः ।
शङ्कते - अथेति । संयोगानुयोगिनः कुण्डादेरेवाधारत्वस्वीकारान बदरादेः कुण्डाद्याधारतातिप्रसङ्ग इत्यर्थः । नन्वेषमपि कुण्डबदरयोः संयोगस्यैक्यात् यः स्खलु कुण्डे संयोगः स बदरेप्यस्त्येवेति कुण्डनिष्ठसंयोगानुयोगिता बदरेपि प्राप्तेति कुण्डनिष्टसंयोगानुयोगितया बदरस्य कुण्डाधारत्वं स्यादेव - अनुयोगिन आधारत्वस्वीकारादित्याशङ्क्याह- न चेति । अनुयोगिताया इति पाठे तु पञ्चम्यन्तं तत् । अत्र " बदरादेः" इत्यस्य स्थाने "कुण्डादेः" इति पाठस्त्वऽसङ्गत एव भाति । उत्तरमाह - तादृशेति । तादृशसंयोगस्य = कुण्डबदर संयोगस्य । तत्प्रतियोगिकत्वानुपगमात् कुण्ड प्रतियोगिकत्वानुपगमात् । नियामकमाह- तत्प्रतियोगिकेति, तथा च बदरे कुण्डानुयोगिकसंयोगानुयोगिता वर्त्तते न तु कुण्डप्रतियोगिकसंयोगानुयोगितेति न बदरस्य कुण्डाधारताप्रसक्तिः कुण्डे च बदर प्रतियोगिकसंयोगानुयोगिता वर्तते इति कुण्डस्य बदराधारता प्राप्तेत्यर्थः । ननु कुण्डबदरयोः संयोग एक एव तेन च कुण्डे बदरविशिष्टबुद्धिवद् बदरेपि कुण्डविशिष्टबुद्धिर्जायते एवेति स संयोग एकत्वाद् यथा कुण्डबदरोभयानुयोगिकस्तथोभयप्रतियो गिकोप्यस्त्येव तथा च बदरेपि कुण्डप्रतियोगिकसंयोगानुयोगिता प्राप्तेति बदरस्य कुण्डाधारत्वं किं न स्यादित्याशङ्क्याह- न चेति । परिहारमाह- आधेये इति, आधेये अधिकरणाधार ताज्ञानस्याप्रामाणिकत्वादेव नाधेयस्य बदरादेः कुण्डादिलक्षणत्वाधिकरणाधारतापत्तिरित्यर्थः । नियामकमाह- कुण्डे इति, यद्यपि ' बदरवत् कुण्डम् ' इत्यादौ कुण्डस्य प्रथमा -
"Aho Shrutgyanam"