________________
१५२६)
सादर्श:
[ सप्तमीकारकेशिष्टवुद्धौ संयोगप्रतियोगिताया एव संबन्धत्वात् ‘पटे रूपम् ' इत्यादौ समबायप्रतियोगितावद, अन्यथा तादृशविशिष्टबुद्धिबलाद् रूपादावपि पटादिसमवायानुयोगिताप्रसङ्गादिति चेत् ?, मा भूत्तत्संबन्धावच्छिन्नमप्यतिरिक्तम् । ___ यत्तु तत्पतनप्रतिबन्धकसंयोगवत्वं तदाधारत्वं कुण्डादिपतनप्रतिबन्धकसंयोगवत्वं च न बदरादौ- तत्संयोगसत्त्वेपि तस्य पतनादिति, तदसत्- यस्य पतनमप्रसिद्धं तदाधारत्वाऽसंग्रहात्, स्वस्मिन् स्वपतनप्रतिबन्धकसंयोगसत्वेन स्वस्यापि स्वाऽऽधारताप्रसङ्गाच्च । स्वान्यत्वे सति स्वनिष्ठपतनानुत्पादप्रयोजकन्तार्थत्वेन ' बदरप्रतियोगिकसंयोगवत् कुण्डम् । इति शाब्दबोधोदयात् संयोगप्रतियोगिता बदरे एव प्रतिभाति मतुप्प्रत्ययेन च बदराधारता कुण्डे भासते, तथापि 'कुण्डे बदरम् ' इत्यत्र तु बदरस्य प्रथमान्तार्थत्वेन विशेष्यत्वात् 'कुण्डसंयोगवद् बदरम् ' इत्याकारकशाब्दबोधोदयात् कुण्डसंयोगस्प बदरवृत्तित्वेन प्रतीयमानत्वात् संयोगप्रतियोगिता कुण्डे प्राप्ता सा संयोगप्रतियोगितैव चाधारतानियामकसंबन्ध इति कुण्डस्य बदराधारता प्राप्ता न तु बदरस्यापि कुण्डाधारता- बदरस्यैतादृशसंयोगेऽनुयोगित्वेन प्रतियोगित्वाभावादित्यर्थः, उक्ते दृष्टान्तमाह- पटे इति, यथा 'पटे रूपम् ' इत्यत्र ‘पटसमवायवद् रूपम्। इति शाब्दबोधोदयात् पटसमवायस्य रूपवृत्तित्वेन भानात् ताशसमवायप्रतियोगिता पटे. एवेति पटस्यैव रूपाधारतास्ति न तु रूपस्य पटाधारता तथा प्रकृतेपि कुण्डस्यैवोक्तरीत्या बदराधारता प्राप्तेत्यर्थः । विपक्षे बाधकमाह- अन्यथेति, यदि संयोगसमवायादिप्रतियोगिताया आधारतानियामकत्वं न स्यात्तदा तादशविशिष्टबुद्धिश्रलात कुण्डे बदम् । “पटे रूपम् । इत्यादिविशिष्टबुद्धिबलाद् रूपबदरादावपि समवायसंयोगाद्यनुयोगिता प्राप्नोत्येव- रूपबदरादावपि समवायसंयोगादेत्तिस्वेनं भानादिति रूपबदरादीनामपि पटकुण्डाद्याधारस्वं प्रसज्येत. न चैतदिष्टमिति संयोगसमवायादिप्रतियोगितैव संबन्ध इत्युक्तरीत्या पटकुण्डादेरेवाधारत्वं प्राप्नोति न तु रूपबदरादेरपीत्यर्थः । इत्येचमाशङ्कायामाह-मा भूदिति, तथा च तत्संबन्धावच्छिन्नम् संयोगसंबन्धावच्छिन्नमप्यधिकरणत्वं संयोगरूपमेवास्तु न तु संयोगातिरिक्तमिति न संयोगसंबन्धावच्छिन्नातिरिक्ताधारता. स्वीकारप्रयुक्तं गौरवमित्यर्थः । अस्मिन् पक्षे बदरादेराधारत्वातिप्रसङ्गः शङ्कारभ्भेपि “कुण्डादिकमनुयोगि न तु वदरादिकम् " इत्यादिना निवारितः, संयोगप्रतियोगितायाः संबन्धप्रतिपादनेन चात्रापि निवारित एवेत्यनुसंधेयम् । . यत्त्विति । तत्संयोगसत्त्वेपिबदरसंयोगसत्त्वेपि । तस्य-कुण्डस्य । तस्मान्न बदरादौ कुण्डाद्याधारताप्रसक्तिरित्यर्थः । परिहरति- तदसदिति, शब्दस्य पतनमेव न संभवतीत्याकाशे शब्दपतनप्रतिबन्धकत्वासंभवात् 'आकाशे शब्दः । इत्यादावाकाशादीनां शब्दाधारत्वं न स्यादित्यर्थः । अतिप्रसक्तिमाह= स्वस्मिन्निति । ननु स्वभिन्नो य: स्वनिष्ठस्तत्पतनप्रतिबन्धकसंयोगवत्त्वं तत्-तदाधारत्वं तथा च न स्वस्य स्वाधारताप्रसक्ति:- स्वस्य स्वभिन्नत्वाभावादित्याश
"Aho Shrutgyanam