________________
सप्तम्यर्थ विश्वारः ]
व्युत्पत्तिवादः ।
( ५२७ )
,
संयोगवत्त्वं तादेति चेत्, न- एतदनुपस्थितावप्यधिकरणव्यवहारादित्यलम् । ressure सप्तम्या आधेयतार्थकत्वे ' भूतले वर्तते घटः इत्यादौ धात्वर्थस्य वृत्तेराधेयतारूपत्वेन तत्र भूतलाद्याधेयत्वाभावेनाऽयोग्यताप्रसङ्ग इतिचैत्र, न- तत्र निरूपकत्वस्यैवाधारतारूपत्वेन निरूप्यत्वस्यैव सप्तम्यर्थत्वात् भूतलादिनिरूप्यत्वस्य च घटादिनिष्ठवृत्तावबाधात, अत एव ' इति हेतुस्तदुद्भवे' इत्यादी देती हेतुतायां चोद्भवपदार्थोत्पत्तिवृत्तित्वाभावेपि हेतुतायामुत्पत्तिनिरूपितत्त्वसत्त्वेन सप्तम्युपपत्तिः । अथ वा वृद्धातोरप्याधारत्वमेवार्थस्तानरूपकत्वमेव घटादेस्तत्कर्तुत्वम् एवं च तादृशधात्वर्थे भूतलाद्यधिकरणकत्वमेव सप्तम्यन्तेन बोध्यते तत्र तदबाधात् ।
17
1
crissurrearer क्रियायां प्रकृत्यर्थाविकरणकत्वं यदि बोध्यते तदा चैत्रे चैत्रो गच्छति' इत्यादिप्रयोगापत्तिः- तत्र धात्वर्थस्य स्पन्दादेः कर्त्रा - वृत्तित्वात्,' भुवि गच्छति' इत्यादिश्च न स्यात्- चैत्रनिष्ठक्रियाया भुवि
ङ्कते - स्वान्यत्वे इति । परिहारमाह- नेति । एतदनुपस्थितौ = उक्ताधारतालक्षणानुपस्थितौ । तथा चैतलक्षणमपि न युक्तमित्यर्थः ।
,
शङ्कते - अथेति, ' भूतले वर्तते घटः ' इत्यत्र सप्तम्यर्थस्याधेयत्वस्य धात्वर्थाधेयत्वेऽन्वयो न संभवति समानरूपत्वादित्यर्थः । परिहरति- नेति, तत्र = ' भूतले वर्तते घटः इत्यत्र निरूयत्वं सप्तम्यर्थः घटादिनिष्ठा धात्वर्थभूता वृत्तिः- आधेयता च भूतल निरूपितैवास्तीति घटादिनिष्ठवृत्तौ भूतल निरूप्यत्वस्यान्वयः क्रियते इति नोक्ताऽयोग्यताप्रसक्तिः । अत एव = उक्तस्थलादौ निरूप्यत्वस्यैव सप्तम्यर्थत्वादेव " इति हेतुस्तदुद्भवे " इत्यत्र हेतौ हेतुतायां चोद्भवपदार्थभूता योत्पत्तिस्तद्द्वृत्तित्वाभावेपि हेतुतायामुत्पत्तिनिरूपितत्वमस्त्येवेति तादृशनिरूपितत्वरूपार्थ• माश्रित्यात्रोद्वत्रपदात् सप्तम्युपपद्यते, न हि काव्योत्पत्तौ काव्यहेतुभूतशक्त्यादिर्वा तन्निष्ठहेतुता वा तिष्ठति येनात्रवृत्तित्वं सप्तम्यर्थ उपपद्येतेत्यर्थः । अत्र काव्योत्पत्तिनिरूपितहेतुताश्रयः शक्त्यादित्रयमिति शाब्दबोधः । पूर्वत्र च भूतल निरूपितवृत्तित्वाश्रयो घट इति शाब्दबोधः । पक्षान्तरमाह - अथ वेति । तन्निरूपकत्वम् = वृद्धात्वर्थभूताधारत्व निरूपकत्वमेव वृद्धात्वर्थकर्तृत्वं घटेस्ति-- घटस्यैव तन्निरूपकत्वात् । तादृशधात्वर्थे = आधारत्वरूपे । तत्र = धात्वर्थभूताधारतायाम् । तदबाधात्=भूतलाधिकरण कस्त्रस्याऽबाधात् भूतलस्यैवाधारताधारत्वादितिभावः । तथा च भूतलाधिकरणका ( भूतलनिष्ठा ) धारतानिरूपको घट इति शाब्दबोधः ।
शङ्कते– भथेति । प्रकृत्यर्थाधिकरणकत्वम् = सप्तमी प्रकृत्यर्थाधिकरणकत्वम् । कर्त्रादिवृत्तिह्वात्=चैत्रवृत्तित्वादित्यर्थः । चैत्रकर्तृकगमनादिक्रियायां चैत्राधिकरणकत्वस्य सत्त्वात् चैत्रपदादपि सप्तमी स्यादिति भावः । बाधात् =भवृत्तित्वात् । चैत्रनिष्टक्रियाया भूवृत्तित्वे एव स्वधिकरणकत्वं
"Aho Shrutgyanam"