________________
(५२८)
सादर्श:
। सप्तमीकारकेबाधादादितिचेत् ?, न - तंत्र कर्तृघटितपरम्परासंबन्धावच्छिन्नाधारताया एवं सप्तम्यर्थत्वेन सर्वसामञ्जस्यात, परम्परासंबन्धस्यापि प्रतीतिबलेन कचिदाधारतानियामकत्वोपगमात् ।। __ अवच्छेद्यतांविशेषोप्याधारसप्तम्यर्थो यथा वीणायां शब्द:: "कर्णे शब्दः ' 'वृक्षाग्रे कपिसंयोगः' इत्यादौ, एषु कारकतानिहाय भवति' इत्यध्याहारः । अथ, वा “ सप्तम्यविकरणे च" इति चकारेणाऽकारकाऽऽधारवाचिनोपि सप्तमी, अत एव " साध्यवद्भिन्नसाध्याभाववदवृत्तित्वम् " इत्यत्र “साध्यवद्भिन्ने यः साध्याभावः " इतिसप्तमीतत्पुरुषेण व्याख्यानं संगच्छते: तत्र क्रियाध्याहारे सापेक्षतया सामर्थ्येन समासानुपपत्तेः।
'चमणि दीपिनम् ' इत्यादौ “निमित्ताकर्मयोगे" इत्यनेन सप्तमी प्रकृत्यर्थचर्मादेहननादिक्रियानिमित्तत्वं बोधयति । निमित्तत्वं च न कारणत्वम्-- चोदेहेनैनादिक्रियाकारणवे मानाभावात् पूर्ववर्तित्वेपीच्छाकृत्यादिनाऽन्यथासिस्यादित्याक्षेपः । पारहरति- नेति । कर्तृवटितेति- कर्तृघटितपरम्परासंबन्धावच्छिन्ना-स्वाश्रयाश्रयत्वसंबन्धावच्छिन्नाऽऽधारता सप्तम्यर्थः- स्वं क्रिया तथा: च ' भुवि गच्छति चैत्रः' इत्यत्र स्वंगमनक्रिया तदाश्रयः चैत्रस्तदाश्रयत्वं भव्यऽस्तीति स्वाश्रयाश्रयत्वसबन्धावच्छिन्नाऽऽधारता भुवि वर्तते सैव सप्तम्यर्थस्तादृशस्वाश्रयाश्रयत्वसंबन्धावच्छिन्नाधास्तासंबन्धन चैत्रनिष्टापि गमनक्रिया भुवि संभवतीति 'भुवि गच्छति । इतिप्रयोगानुपपत्तिर्नास्ति, 'चैत्रे चैत्रो गच्छति' इति प्रयोगापत्तिरपि नास्ति- अत्र स्वक्रिया तदाश्रयश्चैत्रस्तदाश्रयत्वस्य चैत्रे बाधादित्यर्थः । ननु ‘भूतले घटः ' इत्यादौ साक्षात्संबन्धस्यैव संयोगस्याधारतानियामकत्वमस्तीत्युक्तस्थले स्वाश्रयाश्रयत्वरूपपरम्परासंबन्धस्य कथमाधारतानियामकत्वं स्यादित्याशङ्क्याह- परम्परासंबन्धस्यापीति ।
सप्तम्याः सोदाहरणमर्थान्तरमाह- अवच्छेद्यतेति । तथा च वीणायाम् वीणावच्छेदेन. कर्णे कर्णावच्छेदन. वृक्षानेवृक्षापावच्छेदेनेत्यर्थः । एषुउक्तोदाहरणेषु । अकारकाधारवाचिन:अकारकरूपो य आधारस्तद्वाचिनः पदात्, तथा चोक्तोदाहरणेषु क्रियाध्याहारापेक्षा नास्तीत्यर्थः । उक्ते विनिगमकमाह- भत एवेति । अत एव=भकारकरूपाधारवाचकपदादपि सूत्रस्थचकारेण सप्तमीसंभवादेव. तत्रेति- “ साध्यवद्भिन्ने वर्तते यः साध्यामावः" इत्येवं क्रियाध्याहारेण व्याख्याने हि साध्यवभिन्नपदस्य क्रियापदसापेक्षतया " सापेक्षमसमर्थवद् भवति" इतिनियमेनाऽसामर्थ्य प्राप्ते साध्यामावपदेन समासो न स्यादित्यर्थः । न चैव कचिदपि समासो. न स्यादिति शक्यम्, समासानन्तरं क्रियाध्याहारेण समासे बाधकामावात् ।
प्रयोगान्तरमुदाहरति- चर्मणीति । हन्तीति शेषः । निमित्तत्वस्वरूपमाह-निमित्तत्वमिति । ननु चर्मणो हननक्रियातः पूर्ववर्तित्वात् कथं न कारणत्वं स्यादित्याशङ्क्याह- पूर्वेति, इच्छाकृत्यादिना हननसंपत्तिः संभवत्येवेति चर्मणोऽन्यथासिद्धत्वम्, अन्यथेच्छादिकं विनापि हनन
"Aho Shrutgyanam"