________________
यस्य च भावेन भावलक्षणमिति ] व्युत्पत्तिवादः ।
(५२९)
द्धत्वात्, अपि तु क्रियाजनिका या विनियोज्यत्वेनेच्छा तद्विषयत्वम्, स्वविषयकतादृशेच्छाधीनत्वमेव तत्र क्रियान्वयी सप्तम्यर्थः, तदेकदेशविषयितायां निरूपकत्वन प्रकृत्यर्थान्वयः । चर्मादेर्घात्यव्याघ्रादेः संबन्धश्च न सप्तम्यर्थः आप तु सप्तम्याः साधुत्वे स्वरूपसनऽपेक्षितः ।
'गोषु दुह्यमानासु गतः' इत्यादौ " यस्य च भावेन " इत्यनेन गवादिपदात्सप्तमी । तत्समानाधिकरणदुह्यमानादिपदाच्च ' नीलं घटमानय इत्यादी नीलादिपदाद् द्वितीयावद् विशेषणपदस्य विशेष्य पदसमानविभक्तिकत्वनियमात् सप्तमी । विधायकसूत्रे च भावपदं क्रियापरं तथा च 'यद्विशेषणकृदन्तार्थविशेषणतापन्नक्रियया क्रियान्तरस्य लक्षणम् = व्यावर्तनं तद्वाचकपदात्सप्तमी ' इति तदर्थः, उक्तस्थले गमनादिक्रिया दोहनादिसमानकालीनत्वादिविशेषणपुरस्कारेण बोध्यतयाऽभिप्रेता. अतो व्यावर्तकविशेषणप्रविष्टतादृशक्रियाया अपि व्यावर्तकतया तत्कर्माद्यभेदान्वयिगवादिपदात्सप्तमी । अतस्तादृशसप्तम्याः मापद्येत न चैवमस्तीत्यर्थः । अपि स्त्विति - विनियोज्यत्वे नेच्छा - विनियोज्यत्वप्रकारकचर्मविषयकेच्छा चर्मविनियोगेच्छेति यावत् तद्विषयत्वम् = तादृशेच्छाविषयत्वमेव निमित्तत्वमित्यर्थः । स्त्रविषयकेति - चर्मविषयक विनियोज्यत्वे नेच्छाधीनत्वं हननक्रियायां यदस्ति तदेव सप्तम्यर्थः, तदेकदेशविषयितायाम् == उक्तेच्छानिष्ठविषयितायां निरूपकत्वेन प्रकृत्यर्थचर्मणोन्वयः, एतद्विषयितायाश्वर्मण एव निरूपकत्वात् तथा च चर्मनिरूपितविषयिताश्रयेच्छा जन्यहनन व्यापारवानिति शाब्दबोधः । ननु चर्मादेर्घात्यव्याघ्रादेश्च यः समवायादिसंबन्धः स एव सप्तम्यर्थः किं न स्यात् ? तत्सत्त्वे एव" निमित्तात्कर्मयोगे " इतिवार्तिकेन सप्तमीविधानादित्याशङ्क्याह- चर्मादेरिति । स्वरूपसनिति- यदि चर्मद्विपिनोः संबन्धो न स्यात्तदा यथा वेतनधान्ययोः संबन्धाभावात् L वेतनेन धान्यं लुनाति ' इत्यत्र फलभूत वेतनवाचकवेतनपदात्तृतीयैव हेतौ " इतिसूत्रेण भवति तथात्रापि चमपदोत्तरं तृतीयैव स्यान सप्तमी, चर्मादेर्घात्यव्याघ्रादेश्व परस्परं संबन्धसत्त्वे एव सप्तमीविधानादिति स संबन्धः सप्तम्याः साधुस्वार्थे स्वरूपसन्नपेक्षितोस्ति न तु तस्य शाब्दबोध प्रकारतया मानापेक्षापि येन तस्य सप्तम्यर्थत्वं स्वीक्रियेतेत्यर्थः ।
८८
प्रयोगान्तरमुदाहरति- गोष्विति । सूत्रार्थमाह- तथा चेति, यद्विशेषणम् = गोविशेषणं कृदन्तार्थ :- दुह्यमान पदार्थस्तत्र विशेषणतामापन्ना या दोहनक्रिया तथा क्रियान्तरस्य गमनस्य व्यावर्तनम् =कालिकव्यवच्छेदः क्रियते इति तद्वाचकपदात् = गोपदात्सप्तमी भवतीत्यर्थः । उक्तसूत्रार्थस्योक्तोदाहरणे समन्वयमाह - उक्तस्थले इति । अत इति - व्यावर्तकं यदोहनसमानका लिकत्वं विशेषणं तत्प्रविष्टा = तद्विशेषगभूता या तादृशक्रिया = दोहनक्रिया तस्या अपि व्यावर्तकतया तत्कर्मणाऽभेदान्वयिनी या गौस्तद्वाचकपदात् सप्तमी जातेत्यर्थः । परिहारायात्र मतान्तरं प्रदर्शयति- अतस्तादृशेति तादृशसप्तम्याः अत्रत्यगोपदोत्तरसप्तम्याः । तत्र = समानका -
३४
" Aho Shrutgyanam"
,