________________
( ५३० )
सादर्श:
[ सप्तमीकारके:
समानकालीनत्वादिकमात्रमर्थस्तत्र दुह्याद्युपस्थापित दोहनादेर्निरूपकत्वेनाऽन्वयाद् दोहनसमानकालीनत्वादिकं गमनादौ लभ्यते इति न युक्तम्- दुह्याद्युपस्थापितक्रियायाः कृदन्तार्थविशेषणतयोपस्थितायाः समानकालीनत्वादिविशेषणत्वासंभवात्. प्रकृत्यर्थ गवादिनाऽनन्वितार्थस्य सप्तम्या बोधनासंभवाच्च । किं तु समभिव्याहत दोहनादिक्रियैव सप्तम्यर्थस्तस्याश्च समानकालीनत्वादिकं क्रियान्तरे संबन्धः, तत्र वर्तमानार्थ कक्कृत्समभिव्याहारस्थले समानकालीनत्वम्. 'दोग्धव्यासु गतः' इत्यादिभविष्यदर्थकृत्स्यले प्राक्कालीनत्वम्. दुग्धासु गतः " इत्यादावतीतार्थकृत्स्थले उत्तरकालीनत्वं संबन्धतया भासते । पाथासे पीते तृषा शाम्यति इत्यादावऽतीतार्थककृत्समभिव्याहारात् कार्यकारणभावोपि संबन्धतया भासते इत्यादिकमूहनीयम् ।
6
6
"
66
लोनले । समानकालीनत्वस्य निरूपकं दोहनमेवात्रेति समानकालीनत्वे निरूपकत्वेन रूपेण दोहनस्यान्वयस्तस्मादित्यर्थः । परिहरति- इति न युक्तमिति । अयुक्तत्वे हेतुमाह- दुह्यादीति कृदन्तार्थो यो दुधमानपदार्थों गोपदार्थस्तद्विशेषणतयोपस्थिताया दोहनक्रियायाः समानकालीनत्वे विशेषणत्वं न संभवतीत्यर्थः एकत्र विशेषणत्वेनोपस्थितस्यान्यत्र विशेषणत्वस्याव्युत्पन्नत्वात् " इतिव्युत्पत्तिविरोधादिति शेषः । किं च समानकालीनत्वं दोहने गमने च वर्तते न तु गवति कथं तस्य गोपदोत्तरसप्तम्या बोधनं स्यात् प्रकृत्यर्थ संबद्धपदार्थस्यैव तदुत्तरविभक्त्या बोधनस्य व्युत्पन्नत्वादित्याशयेनाह - प्रकृत्यर्थेति । स्वयं सप्तम्यर्थमाह-किं विति, तस्याः सप्तम्पर्थभूतसमभिव्याहृतदोहनादिक्रियायाः समानकालिकत्वसंबन्धेन क्रियान्तरे= गमनादावन्वयस्तथा च दुह्यमानगो वृत्तिदोहन क्रियासमानकालिकं गमनमिति शाब्दबोधः । दुह्यमानपदोत्तरविशेषणसप्तमी तु साधुत्वार्थकत्वाद् निरर्थकैवेत्युक्तमेव । सप्तम्यर्थदोहन क्रियाया गमनादौ समानकालिकत्व संबन्धेनान्त्रयो हि वर्तमानार्थककृत्समभिव्याहारस्थले एव भवति यथात्र गोषु दुह्यमानासु गतः इत्यत्र - अत्र वर्तमानार्थक शानच्प्रत्ययस्य सत्त्वात्, 'दोग्धव्यासु गोषु गतः इत्यादिभविष्यदर्थककृत्समभिव्याहारस्थले तु सप्तम्यर्थ दोहनक्रियाया गमनादौ प्राक्कालिकत्व संबन्धेनान्वयः - दोहनात् प्रागेव गतत्वात् तथा च दोग्धव्यगोवृत्तिदोहन क्रियाप्राक्कालिकं गमनमिति शाब्दबोधः । ' गोषु दुग्धासु गतः' इत्यायऽतीतार्थककृसमभिव्याहारस्थले तु सप्तम्यर्यदोहनक्रियाया गमनादावुत्तरकालिकत्व संबन्धेनान्वयस्तथा च दुग्धगोवृत्तिदोहनक्रियो तरकालिकं गमनमिति शाब्दबोच इत्याशयेनाह तत्रेति । प्रयोगान्तरमुदाहरति- पाथसीति, तृषाशमनरूप कार्यस्य जलपानं कारणमित्यर्थः । जलपानजन्यं तदुत्तरकालिकं च तृषाशमनमिति शाब्दबोधः ।
"
"
"
८
" Aho Shrutgyanam"