________________
सतिसप्तमी व्युत्पत्तिवादः।
(५३१) ‘गुणान्यत्वे सति सत्त्वात् ' इत्यादौ 'सति ' इत्यनन्तरम् ' सतः ' इत्यध्याहार्यम्, अन्यथा लक्षणीयक्रियाऽभावेनोक्तसूत्राविषयतया सप्तम्यनुपपत्तेः, तत्र चास्धातोरर्थ आधारता, गुणान्यत्वाद्याधारतायाश्च सत्ताधारतायां तद्वन्निछत्वं संबन्धतया भासते इतिचिन्तामणिकारोक्तसामानाधिकरण्यलाभनिर्वाहः। 'शयानेन चैत्रेण भुक्तम् ' इत्यादौ शयनभोजनादिक्रिययोः समानकालीनत्वभानेपि तत्र लट्प्रत्ययेनैव समभिव्याहाराद् भोजनादिसमानकालीनत्वं शयनादिक्रियायां बोध्यतेऽतो न सप्तमी-अन्यतस्तदनभिधाने एव सप्तमीविधानात् ।।
॥ इति सप्तम्यर्थविवेचनं समाप्तम् ॥
प्रयोगान्तरमुदाहरति-गुगान्यत्वे इति । 'सतः । इत्यध्याहाराभावे बाधकमाह अन्यथेति, " यस्य च भावेन भावलक्षणम् " इतिसूत्रेणेकपदार्थक्रियया क्रियान्तरस्य लक्षणे व्यावर्तने सप्तमी विधीयते तत्र क्रियान्तरस्य व्यावर्त्यस्यामावे कस्य व्यावर्तनं स्यादिति व्यावर्त्य क्रियाबोधकस्य 'सतः' इति पदस्याध्याहारः कर्तव्य एव. अन्यथा सप्तम्येव न स्यादित्यर्थः । 'सति सतः । इत्यत्र प्रकृतिभूताऽस्धातोरर्थमाह-तत्रेति । गुणान्यत्वं सत्त्वं चैकस्मिन्नेव वर्तेते इति गुणान्यत्वाधारतायाः सत्त्वाधारतायां तद्वनिष्ठत्वेन-गुमान्यत्वाधारतावन्निष्ठत्वेन संबन्धेन (सामानाधिकरण्येन ) अन्वय इत्युभयोराधारतयोः सामानाधिकरण्यलाभ इत्यर्थः । सत्त्वात् (सत्ताश्रयत्वात् ) इतिपञ्चम्यन्तसमभिव्याहारहेतोः 'सतः ' इति षष्ठयन्तं पक्षस्य बोधकम्, सतो नाम विद्यमानस्य सत्तारूपक्रिया विशिष्टस्येति यावत् । शयानेनेति । समभिव्याहारात स्वसमभिव्याहारात्, स्वं लट् । सप्तम्यभावे हेतुमाह--अन्यत इति । तदनभिधाने समानकालिकत्वानभिधाने । मत्र मोजनक्रिया शयनक्रिया चैकस्मिन्नेव चैत्रेस्ति कालभेदबोधकं च नास्तीति लट्प्रत्ययेन समानकालिकत्वं बोधयितुं शक्यते 'गोषु दुह्यमानासु गतः ' इत्यत्रापि यद्यपि लट्प्रत्ययोस्ति तथापि दोहनगमनक्रिययोरधिकरणभेदात् समानकालिकत्वं लटा न बोधयितुं शक्यते इति तत्र सप्तमी जातेत्यऽमिप्रायः प्रतिभाति । वस्तुतस्त्वत्र कर्तृतृतीयया सप्तम्या बाधो जातः, ' दुह्यमानासु ' इत्यत्र तु कर्तृतृतीयायाः प्राप्तिर्नास्तीति ' गोषु दुह्यमानासु सतीषु गतः ' इत्याकारकार्थस्य विवक्षितत्वात् :" यस्य च भावेन " इत्यनेन सतिसप्तमी जातेत्यर्थः ॥
॥ इति व्युत्पत्तिवादादर्श सप्तमीकारकम् ॥
"Aho Shrutgyanam"