________________
अथ संबोधनप्रथमा
"
" चैत्र त्वया भुज्यताम् ' इत्यादी " संबोधने च इति प्रथमा संबोधनमेवाह । तच वक्तुरव्यवहितशब्दजन्यबोधाश्रयत्वेनेच्छा । प्रथमार्थतादृशेच्छाया विषयतासंबन्धेन प्रकृत्यर्थविशेषणतया भानम् ।
अथ संबोध्यत्वज्ञानं विनापि त्वया भुज्यताम्' इत्यादिवाक्याधीनस्य चैत्रदेवक्यार्थबोधस्य भोजनादिप्रवृत्तेश्च निर्वाहात् ' चैत्र ' इत्यादिप्रथमान्तपदप्रयोगोऽनर्थक इति चेत् ?, न- संबोध्यतानुमापकाऽसाधारणाभिमुख्यादिविरहे विशिष्य चैत्रत्वाद्यवच्छिन्ने युष्मत्पदशक्तिग्रहनिर्वाहस्यैव तत्प्रयोजनत्वात्, चैत्रत्वाद्यवच्छिन्ने संबोध्यत्वग्रहं विना संबोध्यतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नवाचकतत्पदस्य विशिष्य चैत्रत्वाद्यवच्छिन्ने शक्तेर्निश्चेतुमशक्यत्वात् ।
न चैवमपि यत्रानन्तरवाक्यं न युष्मच्छब्दघटितम् ' चैत्राऽत्र घटोस्ति इत्यादी तत्र संबोधन पदसार्थक्यं दुरुपपादमेवेति वाच्यम्, तत्रापि तत्तद्वाक्ये
'
?
क्रमप्राप्तं संबोधनप्रथमार्थनिरूपणमारभते- चैत्रेत्यादिना । संबोधनस्वरूपमाह - तच्चेति । तत् = संबोधनम् । अव्यवहितशब्दः == त्वयेतिशब्दः । त्वयेतियुष्मच्छब्दजन्यो बोधश्चैत्रसमवेतो भवत्वित्याकारकेच्छा वक्तुर्वर्तते एतादृशेच्छा विषयतासंबन्धेन चैत्रे वर्तते चैत्रस्य विषयत्वादित्याह-- प्रथमार्थेति, तथा चात्र ' त्वयेतिशब्द जन्यबोधाश्रयत्वप्रकारिका येच्छा तादृशेच्छाविषयी भूत चैत्र कर्तृकभोजनव्यापारो भवतु ' इति शाब्दबोधस्याकारः । अभिमुखीकरणेच्छाविषयत्वं संबोधनप्रथमार्थ इति युक्तमुत्पश्यामि ।
शङ्कते—अथेति । संबोध्यत्वज्ञानमिति चेत्रादेः स्वस्मिन् संबोध्यत्वज्ञानं विनापीत्यर्थः } चैत्रादेरिति कर्तृत्वं षष्ठ्यर्थः । परिहरति- नेति, संबोधनकर्तुः ( वक्तुः ) संबोध्यतानुमापक यदसाधारणं प्रेक्षणादिरूपमाभिमुख्यं तत्सत्त्वे तु तेनैव त्वयेत्यादियुष्मच्छब्दस्य चेत्रादौ शक्तिग्रहः संभवतीति संबोधनान्तं चैत्रेत्यादिपदमनर्थकमेव यद्यपि तथापि तादृशाभिमुख्याभावे तु संबोधनान्तपदं विना त्वयेत्यादियुष्मच्छन्दस्य चेत्रादौ शक्तिग्रहो न संभवतीति युष्मच्छब्दशक्तिग्रह निर्वाह एव तत्प्रयोजनम् = चैत्रेत्यादि संबोधनान्तपदप्रयोगप्रयोजनम् - संबोध्यतावच्छेदकवोपलक्षितधर्मावच्छिन्ने एव युष्मच्छब्दशक्तिस्वीकारादित्यर्थः । उक्तार्थमेव विशदयति-चैत्रत्वाद्यवच्छिन्ने इति । तत्पदस्य – युष्मच्छन्दस्य !
पुनराशङ्कते न चैवमपीति । युष्मच्छन्दशक्तिग्रहार्थमेव संबोधनपदसार्थक्यस्योक्तत्वादत्र च युष्मच्छन्दस्यासत्त्वादिति शेषः । उत्तरमाह - तत्रापीति, तत्रापि = युष्मच्छन्दरहितेपि तद्वाक्ये== ' चैत्रात्र घटोस्ति ' इति वाक्ये । अत्र स्वं वक्ता, खोयो यो घटानयनादिरूपो वाक्यार्थस्त
" Aho Shrutgyanam"