________________
-संबोधनप्रथमा] व्युत्पत्तिवादः।
(५३३) स्वीयवाक्यार्थबोधार्थोचरितत्वरूपतात्पर्यनिश्चयार्थमेव तत्पदप्रयोगात् । तादृशतात्पर्यनिश्चयं विना श्रुतादपि तत्तद्वाक्याच्चैत्रादेः शाब्दबोधासंभवात् । चैत्रस्याऽश्वानयनादिबोधाय मैत्रस्य च लवणानयनादिबोधायोच्चरितात् सैन्धवमानय , इतिवाक्याद् वैपरीत्येन चैत्रमैत्रयोस्तत्तद्वाक्यार्थबोधवारणाय तदीयतदर्थबोधे तदीयतदोधार्थोचरितत्वरूपतात्पर्यनिश्चयस्य हेतुताया आवश्यकत्वात् ।
" संख्यातिरिक्तसुबर्थः प्रकृत्यर्थविशेष्यतयैव भासते” इतिनियमे संख्याभेदवत् संबोधनभेदोपि निवेशनीयः. अत: संबोधनस्य प्रकृत्यर्थविशेषणतया भानेपि न क्षतिः। संबोधनस्य (अपि) प्रकृत्यर्थविशेष्यतयैव वा भानमुपेयम् । वस्तुतो नामार्थस्य प्रत्ययार्थमन्तरा कृत्वैव क्रियान्वय इत्यनुरोधात् सुबर्थकर्मत्वादेः प्रकृत्यर्थविशेष्यतयैव भानमुपेयते न तूक्तनियमानुरोधेन- उक्तनियमे
दोधार्थ यदुचरितत्वं तादृशोच्चरितत्वरूपतात्पर्यस्य निश्चयश्चैत्रस्य भवत्वित्येतदर्थमेव तत्र चैत्रेत्यादिसंबोधनपदं प्रयुज्यते- अन्यथा 'अत्र घटोस्ति तमानय' इत्यादिवाक्यजन्यार्थबोधः कस्यापि न मवेदित्यर्थः । चैत्रादेः स्वसमवेतबोधोत्पत्यर्थोच्चरितत्वरूपतात्पर्यनिश्वयाभावेऽनिष्टापत्तिमाहतादृशतात्पर्येति । मा भवतु तात्पर्य निश्चय इत्याशङ्कय वाक्यार्थबोधं प्रति तात्पर्यनिश्चयस्यावश्यकतामाह-चैत्रस्येत्यादिना । अत्र वैपरीत्येन नाम चैत्रस्य लवणानयनबोधस्य मैत्रस्य चाश्वानयनबोधस्य वारणायेत्यर्थः । तदीयतदर्थबोधे-श्रोतुरुक्तवाक्यार्थबोधं प्रतीत्यर्थः । तदीयतद्वोधार्थम् श्रोतुरुक्तवाक्यार्थबोधार्थमुच्चरितत्वरूपतात्पर्यनिश्चयस्य हेतुताऽवश्यमस्त्येवेति तात्पर्यनिश्चयस्य वाक्यार्थबोधं प्रति हेतुत्वे सिद्धे 'चैत्रात्र घटोस्ति '. इत्यादिवाक्येपि युष्मच्छन्दर. हिते एतद्वाक्यार्थबोधाय तात्पर्यनिश्चयार्थ चैत्रेतिसंबोधनपदस्यावश्यकतास्त्येवेत्यर्थः ।।
ननु " प्रथमार्थतादृशेच्छाया विषयतासंबन्धेन प्रकृत्यर्थविशेषणतया भानम् " इत्यादिना संबोधनरूपप्रधमार्थस्य प्रकृत्यर्थविशेषणतया भानं यदुक्त तन्न संभवति- संख्यातिरिक्तसुबर्थस्य प्रकृत्यर्थविशेष्यतयैव भानस्वीकारादित्याशक्याह- संख्यातिरिक्तेति, तथा च संख्यासंबोधनाभ्यामतिरिक्त एव सुबर्थः प्रकृत्यर्थविशेष्यतया भासते इति नियमो जात इति संबोधनस्य प्रकृत्यर्थविशेषणतयापि माने क्षति: नियमविरोधो नास्तीत्यर्थः । पक्षान्तरमाह- संबोधनस्येति । स्वमतमाह- वस्तुत इति, संख्यातिरिक्तसुबर्थस्य कर्मत्वादेः प्रकृत्यर्थविशेष्यतयेव भानं भवतीत्यत्र “ नामार्थस्य प्रत्ययार्थमन्तरा कृत्वैव क्रियायामन्वयः ॥ इत्ययमेव नियमो बीजमस्ति न तूक्तनियमः="संख्यातिरिक्तसुबर्थः प्रकृत्यर्थविशेष्यतयैव भासते " इति नियमः स्वातन्त्र्येण बीजमस्ति- अस्मिन्नियमे मानाभावात् , “ नामार्थस्य प्रत्ययार्थमन्तरा कृत्वैव क्रियान्वयः" इतिनियमे स्वीकृते तु सुवर्थकर्मत्वादेः क्रियायामन्वयः कर्मत्वादौ च प्रकृत्यर्थ
"Aho Shrutgyanam"