________________
(५३४)
सादर्शी व्युत्पत्तिवादः। मानाभावात् । संबोधनविभक्त्यन्तप्रकृत्यर्थस्यान्यत्र विशेषणतयाऽन्वयात् संबो धनस्य विशेष्यतया भानं नियुक्तिकमिति कृतं विस्तरेण ॥
॥ इति संबोधनप्रथमार्थविवेचनं समाप्तम् ॥
स्यान्वय इत्यर्थादेव सुबर्थकर्मत्वादेः प्रकृत्यर्थविशेष्यत्वं प्राप्तमित्यर्थः । संबोधनस्य प्रकृत्यर्थविशेष्यतया भाने “ एकत्र विशेषणतयान्वितस्य नाऽन्यत्र विशेषणत्वम्" इतिव्युत्पत्तिविरोध. मप्याह- संबोधनविभक्तयन्तेति, प्रकृत्यर्थस्य चैत्रादेः संबोधने विशेषणत्वे एव संबोधनस्य प्रकृत्यर्थविशेष्यत्वं स्यात् तच न संभवति- प्रकृत्यर्थस्य चैत्रादेरन्यत्र भोजनव्यापारादौ कर्तृत्वादिद्वारा विशेषणत्वेनान्वयो भवतीति तस्य चैत्रस्य संबोधने विशेषणतयाऽन्वयो नैव संभवतीति न संबोधनस्य प्रकृत्यर्थविशेष्यत्वं किं तु प्रकृत्यर्थविशेषणत्वमेवेत्यर्थः ।
टीका व्युत्पत्तिवादस्य ह्याऽऽदशैंतिसमाहृया । कारकान्ता गता पूर्ति सुदर्शनविनिर्मिता ।।
॥ इति संबोधनप्रथमा ॥
"Aho Shrutgyanam"