________________
अथ स्त्रीप्रत्ययाः
प्रातिपदिकप्रकृतिकाः स्त्रियाम् इत्यनेन विहिताष्टाबादयः क्वचित् स्त्रीत्वं प्रकृत्यर्थविशेषणतया बोधयन्ति- 'अजाऽश्वा शूद्रा श्यामा चपला ब्राह्मणी गोरी सुकेशी गर्भिणी' इत्यादौ । स्त्रीत्वं च योनिमत्त्वम् । न च स्त्रीपरपदात् साधुत्वार्थष्टाबादिप्रत्ययो न तु स्त्रीत्वं तस्यार्थः, क्वचित् स्त्रीत्वबोधश्च स्त्रीप्रत्ययप्रकृतितात्पर्यविषयत्वरूपलिङ्गज एवेति वाच्यम्, खट्वादौ व्यभिचारेण ताशहेतोः स्त्रीत्वासाधकत्वात् । प्राणित्वेन विशेषणेपि देवतादौ व्यभिचाराव | वस्तुतस्तु ' अजवत्यप्याजा नास्ति ' इत्यादिप्रयोगात् स्त्रीत्वस्य नञर्थान्वयितावच्छेदकतया भानमावश्यकम् अन्यथा पुंसाधारणजातिविशेषाद्यवच्छिन्नाभावस्य बाधेन तादृशप्रयोगस्य प्रामाण्यानुपपत्तेः ।
८८
77
८
क्रमप्राप्तं स्त्रीप्रत्ययार्थनिरूपणमारभते- : प्रातिपदिकेत्यादिना । कचिदिति - अजा इत्यादावेव स्त्रीप्रत्यया योनिमत्त्वरूपं स्त्रीत्वं बोधयन्ति न तु ' खट्वा ' इत्यादौ तत्र योनिमवरूपस्त्रीत्वस्यैव बाधेन तद्बोधनासंभवादिति ' खट्वा ' इत्यादौ साधुत्वार्थमेव टाबादयो मत्रन्तीत्यर्थः । उदाहरति- अजेति । स्त्रीत्वस्वरूपमाह - स्त्रीत्वमिति । योनिमत्त्वम् = भगवत्त्वम् । प्रत्ययानां द्योतकत्ववादी शङ्कते - न चेति, स्त्रीपरपदात्= स्त्रीवाचकादऽजादिपदात् । तस्य= स्त्रीप्रत्ययस्य । कचित् = ' अजा ' इत्यादी स्त्रीत्वबोधो हि स्त्रीप्रत्ययप्रकृतिभूतपदस्य यत् स्त्रीत्वबोधानुकूलं तात्पर्य तादृशतात्पर्यविषयत्वरूपा लिङ्गात् = हेतोरेव भवति तस्याजादौ सत्त्वात् न तु स्त्रीप्रत्ययेनेत्यर्थः । अत्र च पूर्वपक्षे " कचित् " इतिपदमसंगतत्वात् प्रक्षिप्तमेवेति प्रतिभाति । परिहारमाह- खट्वादाविति, योनिमत्त्वरूपस्त्रीत्वरहितपदार्थेपि खट्वादौ स्त्रीप्रत्ययप्रकृतिभूतखट्वादिपदतात्पर्यविषयत्वरूपो हेतुरस्त्येव न चास्ति तत्र खट्वादी स्त्रीत्वमिति हेतोर्व्यभिचारित्वं प्राप्तं व्यभिचारिणश्च नैव साधकत्वं भवतीत्यर्थः । ननु प्राणित्वसमानाधिकरणं यत् स्त्रीप्रत्ययप्रकृतिभूतपदतात्पर्यविषयत्वं तत् स्त्रीत्वानुमापकं लिङ्गमिति वक्ष्यामः खट्वादौ च प्राणित्वस्याभावात् प्राणित्वसमानाधिकरणं स्त्रीप्रत्ययप्रकृतितात्पर्यविषयत्वं नास्तीति न व्यभिचारित्वमित्याशङ्कयाहप्राणित्वेनेति, एवमपीन्द्रादिदेवतायां प्राणित्वसत्त्वात्प्राणित्वसमानाधिकरणं स्त्रीप्रत्ययप्रकृतिभूतदेवतापदतात्पर्यविषयत्वं लिङ्गं त्वस्ति नास्ति चानुमेयं स्त्रीत्वम् - इन्द्रादिदेवतानां पुंस्त्वविशिष्टत्वाद् देवतापदस्य पुंस्त्वविशिष्टव्यक्तिवाचकत्वाच्च देवतादौ व्यभिचारित्वं प्राप्तमित्यर्थः । स्त्रीप्रत्ययस्य स्त्रीत्ववाचकत्वे युक्तयन्तरमाह - वस्तुतस्त्विति । नञर्थेति - 'अजा नास्ति इत्यत्र स्त्रीत्वविशिष्टाजात्वावच्छिन्नप्रतियोगिताकाभावस्य प्रतीयमानस्य प्रतियोगित्वसंबन्धेनाजायामन्वयेन स्त्रीत्वमप्यस्वयितावच्छेदकतया भासते तद्मानं च स्त्रीप्रत्ययादेव वक्तव्यमिति स्त्रीप्रत्ययानां स्त्रीत्ववाचकत्वं प्राप्तमेवेत्यर्थः । स्त्रीत्वमानाभावे : बाधकमाह- अन्यथेति, अजवति देशेऽजत्वावच्छिन्नप्रति
"Aho Shrutgyanam"