________________
( ५३६ )
सादर्श:
[ स्त्रीप्रत्ययाः ।
न च प्रातिपदिकार्थ एव स्त्रीत्वं तस्य च तदर्थे एव जात्यादिमति विशेषणत्वेनान्वयः स्त्रीप्रत्ययास्तु द्योतका एव. अत एव -
स्वार्थी द्रव्यं च लिङ्गं च संख्या कर्मादिरेव च । अमी पञ्चैव नामार्थास्त्रयः केषां चिदग्रिमाः ॥" इतिशाब्दिकानां कारिकापि संगच्छते, तत्र- स्वार्थः जात्यादिरूपो गवादिपदमुख्यार्थः, द्रव्यम् = गवादिरूपस्तद्धर्मी तन्मते औपचारिको गवादिपदार्थः, लिङ्गस्य प्रातिपदिकार्थत्वमावश्यकमेव - ' नात्र ब्राह्मणोऽपि तु ब्राह्मणी' इत्यादी पुंस्त्वबोधक पदान्तराभावेन तद्बोधानुपपत्तेः । ब्राह्मणादिपदाच्च जात्यादेर्द्रव्यस्य च भानं नियतमेव लिङ्गमानं तात्पर्ययोग्यताधीनं काचित्कम्- ब्राह्मणी इत्यादी पुंस्त्वाद्यबोधादिति वाच्यम्, उक्तयुक्त्या पुंस्त्वस्य प्रातिपदिकार्थत्वेऽप्यनन्तानां प्रातिपदिकपदानां स्त्रीत्वार्थकत्वे गौरवात् लाघवेनाल्पीयसां स्त्रीप्रत्ययानां तदर्थकत्वकल्पनौचित्यात् : अत एव स्त्रीत्वसंग्रहाय " प्रातिपदिकार्थ इत्यादिसूत्रे लिङ्गग्रहणम्, अन्यथा प्रातिपदिकार्थे एव तदन्तर्भावेन पृथक्. तदुपादानानुपपत्तेः ।
??
कचित् स्त्रीप्रत्ययः स्त्रीत्वं भार्यात्वेन प्रकृत्यर्थविशेष्यतया बोधयतियोगिताका भावस्य बाधितत्वेन तद्बोधने अजा नास्ति ' इति वाक्यस्य प्रामाण्यं न स्यादेव. अस्ति च प्रामाण्यमित्युक्तस्थले स्त्रीत्वमानमावश्यकमित्यर्थः ।
वैयाकरणमतेनाशङ्कते - न चेति । तस्य= स्त्रीत्वस्य । तदर्थे = प्रातिपदिकार्थे । अत एव = स्त्रीस्वस्य प्रातिपदिकार्थत्वादेव । कर्मादिकर्मत्वादिकमपि प्रातिपदिकार्थ एव द्वितीयादिविभक्तीनामपि द्योतकत्व स्वीकारात् । केषांचित् केषांचिन्मते । अग्रिमा: स्वार्थद्रव्यलिङ्गानि । उक्तकारिकां व्याचष्टे-तत्रेत्यादिना । जात्यादिरूपः = गोत्वादिरूपः । तद्धर्मी = गोत्वाद्याश्रयभूता व्यक्तिः । तन्मते = वैयाकरणमते । मीमांसकमतवदिति शेषः । लिङ्गस्य प्रातिपदिकार्थत्वमाह - लिङ्गस्येति । तद्बो'धानुपपत्तेः लिङ्गबोधानुपपत्तेर्लिङ्गमपि प्रातिपदिकार्थो भवत्येवेत्यर्थः । स्वार्थद्रव्यलिङ्गानां मानस्य विशेषमाह-ब्राह्मणादिपदादिति । लिङ्गमानम् = लिङ्गविशेषभानम् । 'ब्राह्मण:' इत्यत्र तात्पर्य योग्यताभ्यां पुंस्त्वभानं भवति 'ब्राह्मणी' इत्यत्र च स्त्रीत्वभानमित्यर्थः । उक्ते हेतुमाह- ब्राह्मणीति । परिहरति- उक्तयुक्तयेति, उक्तयुक्तया " नात्र ब्राह्मणः " इत्यादियुक्त्या | तदर्थकत्व = स्त्रीत्वार्थकत्व । पुंप्रत्ययास्तु न सन्ति येषां पुंस्त्वबोधकत्वं स्यादिति पुंस्त्वं प्रातिपदिकार्थ: एव स्त्रीप्रत्ययास्तु पृथक् सन्तीति तेषामेव स्त्रीत्वबोधकत्वं युक्तमुक्तलाघवादिति भावः । स्त्रीप्रत्ययानां 'स्त्रीत्वबोधकत्वे मानमाह- अत एवेति । अत एव = स्त्रीप्रत्ययानां स्त्रीत्वबोधकत्वादेव । विपक्षे बाधकमाह - अन्यथेति, यदि स्त्रीत्वं प्रातिपदिकार्थ एव स्यात्तदा प्रातिपदिकार्थग्रहणेनैव स्त्रीत्वस्य प्राप्तत्वात् लिङ्गप्रहणमनर्थकं स्यादित्यर्थः । तदन्तर्भावेन = तस्य स्त्रीत्वस्यान्तर्भावेन । विशेषान्तरमाह-- कचिदिति । कचित् = " पुंयोगादाख्यायाम् " इत्यादिसूत्रविहितप्रत्ययस्थले । स्त्रीत्वम् " इत्यत्र स्त्रियम् " इति पाठस्तु न युक्तः - स्त्रीप्रत्ययानां स्त्रीत्वबोध
66
66
46
6
"Aho Shrutgyanam"
,