________________
स्त्रीप्रत्ययाः ]
व्युत्पत्तिवादः ।
( ५३७ )
*
"
">
" आचार्याणी ' ' मनावी ' शूद्री' इत्यादी । भार्यात्वं संबन्धविशेषः, तत्रैव च निरूपकत्वेन प्रकृत्यर्थान्वयः । खट्वाऽटवीदेवतादिपदे च स्त्रीप्रत्यया नार्थबोधकाः- तत्र प्रकृत्यर्थे योनिमत्त्वरूपस्त्रीत्वस्याऽयोग्य तयाऽनन्वयात् । न च शब्दगतं स्त्रीत्वादिरूपधर्मान्तरमेव तत्र परम्परासंबन्धेनाऽर्थगततया भासते इतिश्रीपतिदत्तोक्तं युक्तम्-तद्भाने मानाभावात् । • यूरुयाख्यौ इत्यत्र रूपाख्यपदं स्त्रीलिङ्गशब्दपरं न तु स्त्रीत्वविशिष्टार्थकशब्दपरं तेनाइटव्यादिशब्दानां स्त्रीत्वविशिष्टाऽबोधकत्वेपि न नदीसंज्ञानुपपत्तिः, अत एव श्रीभूप्रभृतीनां स्त्रीप्रत्ययान्तत्वाभावेन स्त्रीत्वविशिष्टाऽबोधकत्वेपि नदीसंज्ञाप्रसक्त्या " नेयडुस्थानी इतिनिषेधसंगतिः । न चैवम् ' सेनान्ये स्त्रियै ' इत्यादावपि नदीसंज्ञा स्यात् सेनान्यादिशब्दस्य तत्र विशेष्यनिघ्नतया स्त्रीलिङ्गत्वादिति वाच्यम्, प्रयोगानुसारेण विशेष्यसमभिव्याहारानधीनायाः स्त्रीलिङ्गताया विवक्षणीयत्वादिति संक्षेपः ॥
॥ इति स्त्रीप्रत्ययविवेचनं समाप्तम् ॥
८८
८८
""
कत्वस्यैवोक्तत्वात् । भार्यात्वेन विशेषरूपेण न तु स्त्रीत्वेन सामान्यरूपेणेति भावः । भार्यात्वमाहभार्यात्वमिति । तत्र = भार्यात्वे प्रकृत्यर्थस्य आचार्यादेर्निरूपकत्वेन रूपेणान्वयः प्रकृत्यर्थाचार्यादेरेव तत्र भार्यात्वनिरूपकत्वात् निरूपितत्वं च तत्र संबन्धः । आचार्याणीत्यस्य आचामार्या आचार्यनिरूपितभार्यात्ववती वेत्यर्थः । विशेषान्तरमाह - खट्वेति । अर्थबोधकाः स्त्रीत्वबोधकाः । प्रकृत्यर्थे खट्वादिपदार्थे । शङ्कते - न चेति । धर्मान्तरम् = योनिमत्त्वाभिन्नम् । - तत्र = खट्वादौ । परम्परासंबन्धेन = स्वाश्रयशब्दवाच्यत्व संबन्धेन स्वं स्त्रीत्वरूपधर्मान्तरं तदाश्रयो यः खट्वादिशब्दस्तद्वाच्यत्वं खादिपदार्थेऽस्त्येवेति तेन संबन्धेनेत्यर्थः । अर्थगततया = खट्वादिपदार्थे । परिहरति- तद्भाने इति । तद्भाने शब्दगतधर्मस्य तद्वाच्यार्थगततया माने । विषयान्तरमाह - यूरुपाख्याविति । फलमाह - तेनेति । अत एव = " यूख्याख्यो नदी " इतिसूत्रे स्त्र्याख्यपदस्य स्त्रीलिङ्गशब्दपरत्वादेव श्रीभूप्रभृतिशब्दानां स्त्रीलिङ्गत्वान्नदीसंज्ञा प्राप्ता तस्याः नेयवस्थानी इत्यनेन निषेधः क्रियते, यदि ख्याख्यपदं स्त्रीत्वविशिष्टार्थकशब्दपरं स्यात्तदा श्रयादिशब्दानां स्त्रीत्वविशिष्टार्थकत्वाभावेन नदीसंज्ञाप्राप्तेरभावान्नदी संज्ञा निषेधो ऽसंगत एव स्यादित्यर्थः । ननु यदि रूपाख्यपदं स्त्रीलिङ्गशब्दपरमेव तदा ' सेनान्ये स्त्रियै सेनानीशब्दस्यापि नदीसंज्ञा स्यात्तया च नदीकार्य स्यादित्याशङ्क्याह- न चेति । परिहारमाह-- प्रयोगेति : तेषां स्त्रीलिङ्गशब्दानां नदीसंज्ञा भवति येषां विशेष्यसमभिव्याहारं विनापि स्त्रीलिङ्गत्वं भवति यथा गौर्यादिशब्दानां सेनानीशंब्दस्य त्वत्र स्त्रीशब्दसमभिव्याहारादेव स्त्रीलिङ्गत्वमस्ति न तु स्वातन्त्र्येणेति न सेनानीशब्दस्य नदीसंज्ञाप्राप्तिसंभवो येन नदीकार्येणाऽऽडागमेन 'सेनान्यै ' इति प्रयोगः स्यादित्यर्थः ॥
" इत्यत्र
॥ इति व्युत्पत्तिवादादशैं स्त्रीप्रत्ययाः ॥
""
32
" Aho Shrutgyanam"