________________
अथ तद्धितप्रत्ययाः
तद्धितप्रत्यया अपि नामप्रकृतिकाः क्वचित् प्रकृत्यर्थेन स्वार्थंकदेशस्य क्वचिच तेन स्वार्थस्यान्वयबोधं जनयन्ति । तत्र 'मार्गिः ' इत्यत्रापत्यार्थविहिततद्धितार्थस्याऽपत्यस्यैकदेशे जन्यत्वे निरूपकतया प्रकृत्यर्थगर्गाधन्वयः । 'गाग्यः' इत्यादौ तद्धितार्थगोत्रापत्यैकदेशपुत्रत्ववटकजन्यत्वे तथा तदन्वयः । 'गाायणः ' इत्यादौ तद्धितार्थस्य युवापत्यस्यैकदेशे जन्यत्वे गार्ग्यस्य “ जीवति तु वंश्ये युवा " इतिपरिभाषितयुवार्थघटकजीवने च गर्गादेरन्वयस्तेन 'गर्गादिजीवनकालीनो गर्गगोत्रापत्यस्यापत्यमयम्' इति बोधः ।
'मानिष्ठं वासः ' इत्यत्र " तेन रक्तम् " इत्यर्थ तद्धितो विहितः, तत्संबन्धाधीनतदीयरूपारोपविषयत्वं तेन रक्तत्वम् । 'शखः पीतः' इत्यारोपमादाय शवादेरारोप्यपीतिमाद्याश्रयहरितालादिरक्तत्वस्य वारणायाधीनान्तमारोपे विशेषणम् । पटादेश्चक्षुरादिना रक्तत्वस्य वारणाय तदीयत्वं रूप
क्रमप्राप्तं तद्धितप्रत्ययार्थनिरूपणमारभते-तद्धितेत्यादिना । अपीति-यथा स्त्रीप्रत्यया नामप्रकृतिकास्तथा तद्धितप्रत्यया अपि नामप्रकृतिका इत्यर्थः । तेन प्रकृत्यर्थेन सह । उक्तान्वयबोधमुदाहरति-तत्रेति । तजन्यत्वमेव तदपत्यत्वमस्तीति जन्यत्वमपत्यैकदेश एव तञ्च जन्यत्वमत्र गर्गनिरूपितमेवेति तत्र निरूपकत्वेन रूपेण गर्गस्यान्वयः, गर्गनिरूपितजन्यताश्रयो गार्गिरिति शाब्दबोधः । गार्य इति गर्गस्य पौत्रपरस्तत्र तद्धितप्रत्ययार्थभूतं यद् गोत्रापत्यम् (पौत्रः ) तदेकदेशभूतं यत् पुत्रत्वं तद्घटकजन्यत्वे तथा निरूपकतया तदन्वयः-गर्गान्वयस्तथा च गर्गनिरूपितजन्यताश्रयपुत्रापत्यमिति शाब्दबोधः । गर्गप्रपौत्रो गाायणस्तत्र गर्गपौत्रभूतगार्यनिरूपितजन्यता वर्तते, जीवनं च तत्र गर्गस्यापेक्षितमिति जीवने गर्गान्वय इत्यर्थः । ___ प्रत्ययान्तरमुदाहरति-माजिष्टमित्यादिना । तेन रक्तत्वपदार्थमाह- तत्संबन्धेति, तत्संबन्धाधीनः मञ्जिष्ठासंबन्धाधीनो यस्तदीयरूपारूप: मञ्जिष्ठारागारोपस्तद्विषयत्वमित्यर्थः । मलि. ष्ठया रक्ते बस्ने मञ्जिष्ठासंबन्धोपि वर्तते वस्त्रोपरिस्थितमञ्जिष्ठावयवानामेव रूपस्य वस्त्रगततया भानं भवतीति मजिष्टारूपारोपविषयत्वमपि वर्तते इत्यर्थः । 'पीतः शङ्खः ' इत्यत्र यद्यपि शङ्ख पीतरूपारोपोस्त्येव तच्च पीतरूपं हरिताले वास्तवमप्यस्त्येव तथापि स पीतरूपारोपो हरितालसंबन्धप्रयुक्तो नास्तीति तद्वारणाय " तत्संबन्धाधीन " इत्युक्तम्. अन्यथा ' हारितालः शङ्खः' इत्यपि स्यादित्यर्थः । चक्षुषि विकारे सत्यपि वस्त्रस्य रक्तत्वं प्रतीयते तद्वारणाय तदीयत्वं रूपविशेषणमुक्तमित्याह-पटादेरिति, तत्र पटे प्रतीयमानं रूपं चाक्षुषं न भवतीति न ' चाक्षुषं वासः । इति प्रयोगापचिरित्यर्थः । किं वा तदीयेति विशेषणं त्यक्त्वा
"Aho Shrutgyanam"