________________
सास्मिन्पौर्णमासीतिसूत्रम् ]
व्युत्पत्तिवादः ।
( ५३९ )
विशेषणम् । अत्र च रागकरणस्य मञ्जिष्ठादेः प्रकृत्यर्थस्य तद्धिताथैकदेशसंबन्धे प्रतियोगितया रूपे चाश्रयतयाऽन्वयः ।
> ८
शूल्यम् उख्यम् ' इत्यादौ तद्धितार्थ संस्कृतैकदेशे. पाकादिरूपसंस्कारे शूलोखादेः प्रकृत्यर्थस्याधिकरणत्वेनान्वयः ।
८
"
पौषी रात्रिः' इत्यादौ नक्षत्रयुक्तकालार्थे तद्धितः कालस्य नक्षत्रयुक्तत्व च तन्नक्षत्रशशिभोगाश्रयत्वं तदेकदेशे शशिभोगे कर्मतया तन्नक्षत्रान्वयः ।
C
८
,
'पौषो मासः ' ' पौषो वर्ष : ' इत्यादौ " साऽस्मिन् " इत्यनेन विहितस्य तद्धितस्य पौर्णमासीघटितत्वावच्छिन्नोऽर्थः पौर्णमास्यां प्रकृत्यर्थपौष्यादेरभेदेनान्वयः । पौषादिपदं च न केवलं यौगिकम्- ' पौषः पक्षः ' इत्यादिव्यवहारविरहात्, अतो रूढमपि, अत एव सूत्रे संज्ञाग्रहणम् । रूढिनिरूपकतावच्छेदकं
" तत्संबन्धाधीनरूपारोपविषयत्वं तेन रक्तत्वम् ” इत्युक्ते पटादौ यः खलु रूपारोपः स चक्षुस्संबन्धाधीन एव भवतीति चक्षुस्संबन्धाधीनरूपारोपविषयत्वं पटे प्राप्तं तदेव च तेन रक्तत्वमिति पटादेश्चक्षुरादिनापि रक्तत्वं प्राप्नुयात् तेन च ' चाक्षुषं वासः ' इति प्रयोगः स्याद् न चैतदिष्टमिति तदीयत्वं रूपविशेषणं दत्तं तथा चारोप्यमाणं रूपं न चक्षुषः किं तु मजिवादेवेति न पटादेश्चक्षुरादिना रक्तत्वापत्तिरित्यर्थः । ' माजिष्टम् ' इत्यत्र तद्धितप्रत्ययार्थस्तेन रक्तत्वं तच्च तत्संबन्धाधीनतदीयरूपारोपविषयत्वं तदेकदेशभूते तद्घटके संबन्धपदार्थे प्रकृत्यर्थमञ्जिष्ठायाः प्रतियोगितयाऽन्वयस्तद्घटकरूपे चाश्रयतयान्वय इत्याह-अन्नेति । तथा च मञ्जिष्ठाप्रतियोगिकसंबन्धाधीनो यो मञ्जिष्ठाश्रितरूपस्यारोपस्तद्विषय:पटः इति शाब्दबोधः ।
,
८
प्रत्ययान्तरमुदाहरति-- शूल्यमिति । शूले संस्कृतं शूल्यमित्यर्थः । शूलाधिकरणक संस्कारवदिति बोधः ।
प्रत्ययान्तरमुदाहरति--पौषीति, “नक्षत्रेण युक्तः कालः" इति सूत्रविहितोऽण्प्रत्ययः । सूत्रोक्तं कालस्य नक्षत्रयुक्तत्वं निर्वक्ति-कालस्येति, नक्षत्राणि हि राश्यवान्तरस्थानानि तथा च यदा पुष्यनक्षत्रे शशी भवति तदा पुष्यनक्षत्रमित्युच्यते तथा च तनक्षत्रकर्मकः शशिकर्तृको यो भोगस्तदाश्रयत्वं कालेप्यस्त्येव कालस्य सकलाश्रयत्वादिति तदेव कालस्य तन्नक्षत्रयुक्तत्वं तदेकदेशभूतभोगकर्मत्वं तन्नक्षत्रे एवेत्यर्थः । पुष्ययुक्ता हि रात्रिः पौषीत्युच्यते ।
प्रयोगान्तरमुदाहरति- पौष इति, पुष्येण युक्ता पौर्णमासी पौषी सा यस्मिन् मासे वर्षे वा समासो वर्षो वा पौष इत्युच्यते । पौर्णमासीघटितत्वावच्छिन्नः = पौर्णमासीघटितः । अभेदान्वय इति - पौवी चासौ पौर्णमासीत्यभेदान्वयः । तथा च पौष इत्यस्य पुष्यनक्षत्रयुक्तपौर्णमासीघटित इत्यर्थः । अत्र पौषादिपदं योगरूढमेवेत्याह- पौषादीति । अत एव = पौषादिपदस्य योगरूढत्वादेव । रूढं वा योगरूढं वा पदं संज्ञेत्युच्यते न तु यौगिक मपीत्यर्थः
"Aho Shrutgyanam"