________________
(५४०)
सादर्श:
[तद्धितप्रकरणेच मासनिष्ठशुक्लप्रतिपदादिदर्शान्ततिथिसमुदायत्वं न तु विंशत्तिाथरूपमासत्वमात्रम्-'यत्किचित्तिथ्यवधिकत्रिंशत्तिथिसमुदाये मासव्यवहारेपि चान्द्रसौरपौ'पादिबहिर्भूतपौष्यादिघटितत्रिंशत्तिथ्यन्तर्गततिथिषु पौषादिव्यवहारविरहात् । ___ अथैवमपि सौरे पौषादिव्यवहारस्य निर्विवादतया धनुःस्थरविविशिष्टत्वमेव न कथं पोषादिपदशक्यतावच्छेदकमुपेयते इतिचत् ?, : न- सौरे पौषादौ पौष्यादिपूर्णिमाया अलाभे योगरूढिलभ्यपौषपदार्थविलोपापत्तेः । न च तत्र रूढिमात्रमवलम्ब्यैव पौषादिव्यवहारः सौरपौषादौ मुख्य इति वाच्यम्, तथा सति योगार्थव्युत्पादनवैयर्थ्यात् ।
अथ विलुप्यतां वर्षविशेषे पौषादिपदमुख्यार्थः (व्यवहारः) का क्षतिः ? " सास्मिन् " इति सूत्रे तु संज्ञाग्रहणं नास्ति किं तु " संज्ञायां श्रवणाश्वत्थाभ्याम् " इतिसूत्रात् संज्ञापदमनुवर्त्यते । ननु मासपरपौषपदस्य कुत्र रूढिरस्तीति जिज्ञासायामाह- रूढिनिरूपकतेति, व्यवच्छेद्यमाह- न विति, यद्यपि कृष्णचतुर्थ्यादितिथिमारभ्य तदग्रिमकृष्णतृतीयादितिथिपर्यन्तं त्रिंशत्तिथिषु मासत्वव्यवहारो भवति तथापि चान्द्रसौरमासत्वव्यवहारस्तु नैव भवति चान्द्रमासव्यवहारस्य प्रतिपदमारभ्येव प्रवृत्तत्वात् सौरमासव्यवहारस्य च संक्रान्तिमारभ्यैव प्रवृत्तत्वादिति चान्द्रसौरमासभूतपोषादिबहिर्भूतासु पौष्यादि-पुष्ययुक्तपूर्णिमावटितत्रिंशत्तिथ्यन्तर्गततिथिषु पौषादिव्यवहाराभावात् पौषादिपदरूढिनिरूपकतावच्छेदकं मासनिष्ठशुक्लप्रतिपदादिदर्शान्ततिथिसमुदायत्वमेव न तु त्रिंशत्तिथिरूपमासत्वमात्रमित्यर्थः । अत्र “तिथ्यन्तर्गत" इति पाठस्त्वधिक एवं प्रतिभाति ।
ननु सौरमासेपि पौषव्यवहारो मवत्येव तादृशसौरे पौषमासे कालिकसंबन्धेन धनुस्स्थरविधिक शिष्टत्वस्य सत्त्वाद् धनुस्स्थरविविशिष्टत्वमेव पौषपदशक्यतावच्छेदकमस्तु न तूक्तं मासनिष्ठशुक्लप्रतिपदादिदर्शान्ततिथिसमुदायत्वमित्याशङ्कते- अथैवमिति । परिहरति- नेति, धनुस्स्थरविविशिष्टत्वस्य पौषपदशक्यतावच्छेदकत्वे यदा सौरे पौषमासे पुष्ययुक्ता पूर्णिमा स्यात्तदैव तत्र पौषव्यवहारः स्यान्न तु पुष्ययुक्तपूर्णिमाया अलामेपि. यस्मिंश्च मासे पुष्ययुक्ता पूर्णिमा तस्मिन् धनुस्थरविविशिष्टत्वस्याभावादिति पौषपदार्थस्याऽभाव एव प्रसज्येत, योगरूढिपक्षे तु मासनिष्ठ. शुक्लप्रतिपदादिदीन्ततिथिसमुदायत्वस्य पौषपदशक्यतावच्छेदकत्वेन पौषपदार्थविलोपापत्तिर्नास्तीत्यर्थः । पुनराशङ्कते- न चेति, तत्र चोष्यादिपूर्णिमाया अलाभस्थले । रूढीति- पौषपदनिष्टरूढिमात्रमवलम्व्येत्यर्थः । परिहारहेतुमाह- तथा सतीति, “ सास्मिन् ' इतिसूत्रेण योगार्थव्युत्पादनस्य यस्मिन् मासे पुष्ययुक्ता पूर्णिमा स मासः पौष इति योगार्थव्युत्पादनस्य रूढिमात्रपक्षे वैयर्थं स्यादित्यर्थः ।
ननु वर्षविशेषे=कस्मिंश्चिद्वर्षे नाम यस्मिन् वर्षे सौरपौषमासे ( धनुस्स्थरविविशिष्टकाले ) पुष्ययुक्तपूर्णिमा नोपलभ्येत तादृशवर्षे-ताशवर्षवटकसौरपौषमासे विलुप्यतां पौषादिपदमु
"Aho Shrutgyanam"