________________
उक्तपौषादिपदार्थविचारः] व्युत्पत्तिवादः। तत्र लक्षणया सौरमासे पौषव्यवहारस्योपगन्तव्यत्वात् स्थल पद्मादौ पङ्कजव्यवहारवदिति चेत् ?, तर्हि तत्र पोषादिपदमुख्यार्थमासनिमित्तकाऽब्दिकश्राद्धादिविलोपप्रसङ्गः। __ यथाश्रुतशूलपाणिग्रन्थानुसारिणस्तु-धनुरादिस्थरव्यारब्धशुक्ल प्रतिपदादिदर्शान्तेषु धनुरादिस्थरविसमाप्यमकरादिस्थरविसंक्रान्तिमन्मासभिन्नधनुरादिस्थरव्य.. ऽधिकरणशुक्लप्रतिपदादिदर्शान्तेषु वा पौषादिपदस्य रूढत्वमेव स्वीकुर्वन्ति न तु यौगिकत्वम्-" अन्त्योपान्त्यौ त्रिभौ ज्ञेयो ” इतिवचनात्, पौषादिमासीयख्यार्थः पुष्ययुक्तपूर्णिमाघटितत्वलक्षणपोषादिपदमुख्यव्यवहार एतावतापि क्षतिर्नास्ति- तत्र= एतादृशोक्तवर्षे नाम पुष्ययुक्तपूर्णिमारहितवर्षघटके पुष्पयुक्तपूर्णिमारहितसौरपौषमासे लक्षणया पौषव्यवहारो भविष्यति- एतादृशमासस्य पुष्ययुक्तपूर्णिमाघटितमाससदृशत्वात्, यथा स्थलपभादौ पङ्कजनिकर्तृत्वाभावेपि लक्षणया सादृश्यात् पङ्कजपदप्रयोगो भवति तथा, उक्तं सूत्रे योगार्थव्युत्पादनं च न व्यर्यम्- यस्मिन् वर्षे सौरपौषमासे पुष्ययुक्ता पूर्णिमा स्यात् तत्र मुख्यपौषपदव्यवहारलाभेन उक्तयोगार्थव्युत्पादनस्य सार्थक्यादित्याशङ्कते- अथेति । उसरमाह- तीति, एवं हि तत्रयस्मिन् वर्षे सौरपौषमासे पुष्ययुक्ता पूर्णिमा न स्यात्तादृशसौरपौषमासे पौषपदस्य लक्षणाश्रयणात् तादृशसौरपौषमासस्य मुख्यपौषमासत्वाभावात् तत्र प्राप्तस्थाब्दिकश्राद्धादेविलोप एव स्यात्- आब्दिकश्राद्धादेमुख्यपौषादिमासनैमित्तिकत्वात्, लक्ष्यार्थस्य च व्यवहारप्रयोजकत्वाभावात्, तादृशोक्तवर्षे च पौषादिपदमुख्यार्थभूतपौषमासस्य पुष्ययुक्तपूर्णिमायुक्तस्याभावादिति दोषः स्यात्, न चाब्दिकश्राद्धादिविलोप इष्ट इति पौषपदशक्य. तावच्छेदकं शुक्लप्रतिपदादिदर्शान्ततिथिसमुदायत्वमेव न तु धनुस्स्थरविविशिष्टत्वमित्यर्थः । उक्ततिथिसमुदायस्तु पौषादिपदस्य मुख्यार्थ एव तस्य च प्रतिवर्ष लाभान श्राद्धादिविलोपापत्तिरिति ।
मतान्तरमाह- यथाश्रुतेति । धनुरिति- धनुरादिस्थरव्यारब्धेषु शुक्लप्रतिपदमारभ्य दर्शान्तेषु मासेषु किं वा धनुरादिस्थरविसमाप्या ये मकरादिस्थरविसंक्रान्तिमन्माधादिमासमिन्ना धनुरादिस्थरव्यधिकरणीभूताः शुक्ल प्रतिपदमारभ्य दर्शान्ता मासास्तेषु पौषादिपदानां रूढत्वमेव न तु यौगिकत्वमित्यर्थः । धनुरादिस्थरव्यारब्धशुक्लप्रतिपदमारभ्य माघादिमासीयदर्शान्तदिनेषु पौषादिपदानां रूढित्वनिरासाय मकरादिस्थरविसंक्रान्तिमन्मासभिन्नतिविशेषणं द्वितीयपक्षे प्रक्षिप्तम् । उक्त प्रमाणमाह- अन्त्येति, तथा हि
“ अन्त्योपान्त्यौ त्रिभौ ज्ञेयौ फाल्गुनश्च त्रिभो मतः ।
शेषा मासा द्विभा ज्ञेयाः कृत्तिकादिव्यवस्थया ।।" अस्यार्थ:-कार्तिकमासमारभ्य गणनयाऽन्त्यो मास आश्विन उपान्त्यश्च भाद्रपदः फाल्गुनश्चैते त्रयो मासास्त्रिभा: नक्षत्रत्रयप्रयुक्ता विज्ञेयाः शेषा मासा द्विभाः-नक्षयद्वयप्रयुक्ता विज्ञेया यथा चैत्रस्य पूर्णिमा चित्रानक्षत्रेण वा स्वातिनक्षत्रेण वा युक्ता भवतीति. द्विभत्वम्, आश्विनस्य
"Aho Shrutgyanam"