________________
सादर्शः
[ तद्वितप्रकरणे पौर्णमास्यां पुष्यादियोगस्यानियमात् । न च योगानादरे लायवात तत्तद्राशिस्थरविविशिष्टकालरूपसौरादिमासे एव पौषादिपदशक्तिरुचितेति वाच्यम्, “सा वैशाखस्याऽमावास्या या रोहिण्या संबध्यते " इत्यादिश्रुतिबलाच्चान्द्रे एव वैशाखादिपदशक्तिसिद्धेः । __वस्तुतः " नक्षत्रेण युक्तः कालः' इत्यत्र नक्षत्रयोगयोग्यत्वमेव विवक्षितम्- पुष्याद्ययुक्तायामाप पौषादिपूर्णिमायां पौष्यादिव्यवहारात्, अन्यथा
"माध्यां यदि मवा नास्ति " इत्यादेरसंगत्यापत्तेः । पुष्यादियोगयोग्यता च पूर्णिमा रेवत्या वाऽश्चिन्या वा भरण्या वा संयुक्ता भवतीति त्रिभत्यं प्राप्तम्, एषमन्यत्रापि शेयम्कालमाधवेप्युक्तम्-- " दर्शान्तानां वा पूर्णिमान्तानां वा मासविशेषाणां चैत्रादिसंज्ञा नक्षत्रप्रयुक्ता यस्मिन्मासे पूर्णिमा चित्रानक्षत्रेग युज्यते स चैत्रः, एवं वैशाखादिषूनेयम्, चित्राविशाखादियोगस्योपलक्षणत्वात् कचित् चित्रादिप्रत्यासन्नत्वात्यनुराधादियोगेपि चैत्रवैशाखादिसंज्ञा न विरुध्यते । चैत्रादिश्रावणान्तानां चित्रादिनक्षत्रद्वन्द्वं प्रयोजकं भाद्रपदाश्वयुजोस्तु शतभिषारेवत्यादिकम् ( यथासंख्यम् ) त्रिकं कार्तिकादिमाघान्तानां कृत्तिकादिद्वन्द्वं फाल्गुनस्य पूर्वाफल्गुच्यादित्रयमिति विवेकः '' इति संकर्षणकाण्डेप्युक्तम्--
"द्वे वे चित्रादिताराणां परिपूर्णेन्दुसंगमे ।
___ मासाश्चैत्रादयो ज्ञेयाः, त्रिकैः षष्ठान्त्यसप्तमाः " इति । षष्ठः भाद्रपदः । सप्तमः आश्विनः । अन्त्यः काल्गुनः । चैत्रादत्र गणना कर्तव्येत्यलम् । रूढस्वस्वीकारे हेतुमाह- पौषादीति, पुष्यादियोगसत्त्वे एव पौषादिपदस्य यौगिकत्वं संभवति न च पौषादिपौर्णिमायां पुष्यादियोगो नियत इति रूढत्वमेव युक्तमित्यर्थः । केवलरूढित्वस्वीकारपक्षे शङ्कते- न चेति, योगानादरे यौगिकत्वास्वीकारे । उक्तधनुरादिस्थरव्यारब्धशुक्लप्रतिपदादिदर्शान्तेषु पोषादिपदशक्तिस्वीकारे गौरवमस्ति- शक्यतावच्छेदकस्य गुरुत्वात् तत्त. द्राशिस्थरविविशिष्टकालरूपसौरादिमासे पौषादिपदशक्तिस्वीकारे च लाघवमस्ति- शक्यतावच्छेदकस्य लघुत्वादित्यर्थः। परिहारहेतुमाह- सेति, “सा वैशाखस्य " इत्यादिश्रुत्या चान्द्रमासे एव वैशाखादिपदशक्तिः सिध्यतीति न सौरमासे पौषादिपदानामपि शक्तिरित्यर्थः । अमावास्याया रोहिण्या संबन्धश्चान्द्रवैशाखे एव संभवति न तु नियमेन सौरवैशाखेपि- सौरवैशाखस्य ज्येष्ठचैत्रयोरप्युत्कर्षापकर्षसंभवात, किं वाऽमावास्यापूर्णिमादिव्यवहारश्चान्द्रमासप्रयोजक एव न तु सौरमासप्रयोजक इत्यमावास्याग्रहणादनया श्रुत्या चान्द्रवेशाखादौ वैशाखादिपदशक्तिसिद्धिरिति भावः प्रतीयते ।
स्वाभिप्रायमाह- वस्तुत इति, पुष्यनक्षत्रयोगयोग्यत्वं तु प्रत्येकपोषस्य पूर्णिमायामस्त्येवे - त्यर्थः । उक्ते हेतुमाह- पुष्यादीति । योगयोग्यत्वग्रहणाभावे बाधकमाह- अन्यथेति, यदि नियमेन तत्तत्पूर्णिमायां तत्तन्नक्षत्रयोगः स्यात्तदा “ माध्यां यदि मघा नास्ति " इति माघी
"Aho Shrutgyanam