________________
उक्तपौषादिपदार्थविचारः ] व्युत्पत्तिवादः ।
(५४३) वनुरादिस्थरव्यारब्धपक्षीयत्वं तद्रूपाक्रान्तपौर्णमासीघटितत्वरूपयोगलभ्यतावच्छेदकं नियतमेव पौषादेरिति नोक्तानुपपत्त्या यौगिकत्वनिराकरणसंभवस्तत्पदानाम् ।
अथैवं निरुक्तरूपस्य पुष्याद्यघटिततया तेन रूपेण पूर्णिमाबोधकपोष्यादिशब्दानां यौगिकत्वप्रसक्तिरेव नास्ति, 'पोषी रात्रिः' इत्यादौ पुष्यादियोग एव प्रतीयते न तु निरुक्तं योग्यत्वम्-मकरादिस्थरव्यारब्धकृष्णपक्षीयराज्यादावाप तथाव्यवहारादिति “ नक्षत्रेणः युक्तः कालः” इत्यत्र योग एव विवक्षणीयो न तु योगयोग्यत्वमिति पौर्णमास्यां पौष्यादिपदस्य न यौगिकत्वसंभव इति चेत् ?, भवतु पौष्यादिपदं निरुक्तरूपावच्छिन्नपूर्णिमारूढमेव । पौषादिपदानां तु तद्योगपुरस्कारेण मासवाचकत्वे बाधकाभावाद् यौगिकत्वं कथं प्रत्याख्येयम?
पूर्णिमायां मघानक्षत्रयोगप्रतिषेधनिर्देशो नोपपद्यतेत्यर्थः । उक्तस्य नक्षत्रयोगयोग्यत्वस्य स्वरूपमाह- पुष्यादियोगेति, धनुस्संक्रान्त्यारब्धमासीयपक्षे प्राप्तत्वमेव पूर्णिमायाः पुष्ययोगयोग्यत्वं ज्ञेयमित्यर्थः । अत्र योगार्थतावच्छेदकमाह- तद्रूपाक्रान्तेति तद्रूपाक्रान्तावनुरादिस्थरव्यारब्धपक्षीयलरूपाक्रान्ता या पौर्णमासी तद्घटितत्वरूपं यद योगलभ्यतावच्छेदकम्-योगलभ्यार्थतावच्छेदकं तत्तु पौषादेर्नियतमेवास्ति- धनुरादिस्वरव्यारब्धपक्षीयत्वरूपाक्रान्तपौर्णमासीघटितत्वस्य पोषादिषु नियमेन संभवात् धनुरादिसंक्रमणानां चान्द्रपौषादिमासपूर्णिमातिक्रमणासंभवात् प्रत्येकमासस्य पूर्णिभायां तत्तत्सौरचान्द्रमासाना सामानाधिकरण्यनियमात् पूर्णिमायां धनुरादिस्थरव्यारेब्धपक्षीयत्वमेव (धनुरादिमासीयपक्षवृत्तित्वमेव) पुष्यादियोगयोग्यत्वम्, पौषादिमासे च तादृशार्गमाघटितत्वमेव यौगिकपोषादिपदार्थतावच्छेदकं विज्ञेयं तच पौषादौ नियतमेवेति उक्तानुग्पत्त्यागौषादिमासीयपौर्णमास्यां पुष्यादियोगनियमानुपपत्त्या ( पुष्यादियोगनियमाभावेन ) तत्पदानाम्= पौषादिपदानां यौगिकत्वस्य निराकरण न संभवति- प्रकारान्तरेण पुष्यादियोगयोग्यत्वस्य प्रतिपादितस्वादेवेत्यर्थः । " तत्पदानाम् " इत्यत्र " तत्तत्पदानाम् " इत्येवं पाठो युक्तः ।
शङ्कते- अथेति । निरुक्तरूपस्य धनुरादिस्थरव्यारब्धपक्षीयत्वरूपस्य । यदि निरुक्तरूपस्य पुष्यादिघटितत्वं स्यात्तदा तेन रूपेण पूर्णिमाबोधकपोष्यादिशब्दानां यौगिकत्वं प्राप्नुयादपि त्वन्मते व चैवमस्तीत्यर्थः। ननु पौष्यादिशब्दानां निरुक्तरूपपुरस्कारेणैव यौगिकत्वमस्ति न तु पुष्यादि. योगेनेत्याशङ्कय परिहरति-पौषीति । निरुक्तयोगार्थप्रतीत्यभावे हेतुमाह- मकरादीति, यदि पौष्यादिपदेन निरुक्तं धनुरादिस्थरव्यारब्धपक्षीयत्वमेव प्रतीयेत तदा पौष्यादिपदाना मकरादिस्थस्ज्यारब्धकृष्णपक्षीयराव्यां तया व्यवहार:-प्रयोगो न स्यात. भवति च मकरस्थरव्यारब्धकृष्णपसोयरात्र्यामपि पुष्यादियोगेन पौष्यादिपदप्रयोग इत्यर्थः, तस्मात् " नक्षत्रेण " इतिसूत्रे युक्तपदस्य योग एवार्थो न तु योगयोग्यत्वमिति पूर्णिमायां पौष्यादिसदस्य रूढिरेव न यौगि
"Aho Shrutgyanam".