________________
(५४४)
सादर्श:
[तद्धितप्रकरणे-- न च “सास्मिन् पौर्णमासी ” इतिसूत्रस्य' अस्मिन् पौष्यादिपूर्णिमायोग्यता ' इत्यर्थविवक्षया धनुरादिराशिस्थरव्यारब्धशुक्लपतिपदादिदर्शान्ते तद्धिवान्तसमुदायरूढिप्राहकतयोपपत्तौ योगरूढिस्वीकारोऽनुचित इतिवाच्यम्, केवलरूढिपक्षे समुदायशक्यतावच्छेदकशरीरे आरब्धान्तविशेषणप्रक्षेपण गौरवात, पौषतैषमाषादिनानापदानां गुरुधर्मावच्छिन्ने शक्तिकल्पनमपेक्ष्य " सास्मिन् " इत्यर्थेऽणः प्रत्ययस्यैकशक्तिकल्पनाधिक्यस्योचितत्वात् ।।
न च योगरूढिपक्षे पौषादिपदानां योगार्थरूढयर्थाभेदान्वयबोधजनकत्वक. ल्पनाधिक्येन गौरवमिति वाच्यम्, भवन्मतेपि तत्तदर्थे यौगिकरूढत्वभ्रमदशायां सति च तत्तदाभेदान्वयपरत्वग्रहे तथान्वयबोधस्य दुरपहवतया तत्र तादृशबोधहेतुताकल्पनस्यावश्यकत्वादिति दिक् ।
त्वम्, यौगिकत्वं तु पुष्ययुक्तायां पूर्णिमाभिन्नायामेव तिथावित्यर्थः । किंचितस्वीकुर्वन्नुत्तरमाहभवत्विति । निरुक्तरूपावच्छिन्नपूर्णिमारूढम्-धनुरादिस्थरव्यारब्धपक्षीयत्वरूपावच्छिन्नपूर्णिमारूढम् । पौषीपदस्य केवलरूढत्वे सिद्धपि.मासादिपरपोषादिपदानां तु योगरूढत्वमेव- निरुक्तरूपावच्छिनपौर्णमासीयोगपुरस्कारेणैव मासादिवाचकवादित्यर्थः । भादिपदेन वर्षों ग्राह्यः । . पुनराशङ्कते-- न चेति । रूढिग्राहकता युक्तसूत्रस्य ज्ञेया । तद्धितान्तसमुदायस्य पौष इत्यादि पदस्य । अनुचित इति- योगरूढिपक्षे यौगिकार्थानुसंधानापत्त्या गौरवादित्यर्थः । परिहारमाह- केवलेति । समुदायशक्यतावच्छेदकशरीरे-पौषेत्यादितद्धितान्तसमुदायशक्यताव-. च्छेदके । त्वया हि धनुरादिस्थरव्यारब्धशुक्लप्रतिपदादिदर्शान्ते काले पौषादिपदस्य रूढिरूपा शक्तिरुक्तेति तत्रारब्धान्तस्य-धनुरादिस्थरव्यारब्धेतिविशेषणस्य प्रक्षेपण गौरवं तव मतेप्यस्त्ये. बेत्यर्थः । अनेकेषां तद्धितान्तसमुदायानां धनुरादिस्थरव्यारब्धशुक्ल प्रतिपदादिदर्शान्तकाले शक्तिकल्पनापेक्षयाऽण्प्रत्ययस्यैव " सास्मिन् " इत्यर्थे शक्तिकल्पना युक्ता-- अणूप्रत्ययस्यैकत्वात् तद्धितान्तसमुदायानां पौषतेषमाघादीनां नानात्वादित्यर्थः । तस्मात् पौषादिपदानां तु योगरूढत्वमेव न तु केवलरूढत्वमिति भावः ।
ननु योगरूढिपक्षे य एव यौगिकार्थः स एव रूढार्थ इति तयोरभेदेनैवान्वयः स्यादिति पौषादिपदानां योगार्थरूढयर्थयोरभेदान्वयबोधजनकत्वेनैव गौरवं स्थादित्याशङ्कयाह-- न चेति । उत्तरमाह- भवन्मतेपीति । तत्तदर्थे-पौषमासादौ । तत्तदर्थाभेदान्वयपरत्वग्रहे-योगा. र्थरूढयर्थाभेदान्वयपरत्वग्रहे । तथान्वयबोधस्य अभेदान्वयबोधस्य । तत्र-पौषादिपदे । तादृशबोधहेतुताकल्पनस्य योगार्थरूढयर्थाभेदान्वयबोधजनकत्वकल्पनस्यावश्यकत्वादुक्तं गौरवं भवन्मतेप्यस्त्येवेति पौषादिपदानां योगरूढत्वमेव युक्तं न तु केवलरूढत्वमित्यर्थः । प्रकृतवादमुपसंहरति-इति दिगिति ।
"Aho Shrutgyanam"