________________
सास्यदेवतेतिसूत्रोदाहरणम् ] व्युत्पत्तिवादः ।
(५४५) 'वैष्णवी ऋक्' 'ऐन्द्रं हविः'इत्यादौ देवतार्थविहिततद्धितस्प तद्देवताकत्वमर्थः। मन्त्रस्य तद्देवताकत्वं तदुद्देश्यकत्यागकरणत्वेन वेदबोधितत्वम् । __ अथ मन्त्रस्य त्यागकरणत्वं बाधितमेव- विनापि मन्त्रमिच्छाविशेषरूपस्य तस्योत्पत्त्या व्यभिचारात्, इष्टसाधनताज्ञानघंटितक्लप्तसामय्या अन्यथासिद्धत्वाचेति मन्त्रस्य करणतां कथं वेदो बोधयेद् ? बोधयन् वा प्रमाणं भवेत् ?, सत्यम्- मन्त्रस्य त्यागकरणत्वं त्यागाङ्गोच्चारणकत्वं न तु तज्जनकत्वमतो न दोषः । हविषस्तद्देवताकत्वं च तदुद्देश्यकत्यागकर्मत्वम्- तत्त्यागोद्देश्यताया एव तद्देवतात्वपदार्थत्वात् । न चैवं घृतादिसंप्रदानब्राह्मणस्य घृतादिदेवतात्वापत्तिः, उद्देश्यपदेन वेदबोधितद्रव्यस्वामित्वप्रकारेणेच्छाविषयताया एवं विवक्षितत्वात् संप्रदाने च स्वामित्वस्याऽबोधितत्वात् ।
न च त्यागोद्देश्यतायाश्चतुथ्यापि बोधनात् तद्धितचतुर्योर्दैवतात्वबोधकतायामविशेषात
प्रयोगान्तरमुदाहरति- धैष्णवीति, विष्णुर्देवताऽस्या इति वैष्णवी । तद्धितस्य="सास्य देवता " इतिसूत्रविहिततद्धितस्य । मन्त्रनिष्ठं तद्देवताकत्वपदार्थमाह- मन्त्रस्येति । मन्त्रेणेक हविरादित्यागः क्रियते इति मन्त्रस्य करणत्वम् ।
मन्त्रस्य त्यागकरणत्वं न संभवतीत्यभिप्रायेणाशङ्कते- अथेति । तस्य त्यागस्य । त्यागस्येच्छाविशेषरूपत्वं पूर्वमेवोक्तम् । इष्टेति- कारणीभूतेष्टसाधनताज्ञानादिनैव त्यागसंभवे मन्त्रस्याऽन्यथासिद्धत्वं तेन च करणत्वाभाव इत्यर्थः । करणताम्=त्यागकरणताम् । उत्तरमाह- सत्य. मित्यादिना । त्यागाङ्गेति-त्यागाङ्गभूतं यदुच्चारणं तादृशोच्चारणकत्वम् तादृशोच्चारणकर्मत्वमेव त्यागकरणत्वं तच्च मन्त्रेऽस्त्येव । तज्जनकत्वम्त्यागजनकत्वम् । न दोष इति- उक्तान्यथासिद्धत्वेपि मन्त्रस्य त्यागकरणत्वे एतद्रीत्या न दोष इत्यर्थः । हविर्निष्ठं तदेवताकत्वपदार्थमाहहविष इति, इन्द्रादिदेवतोद्देश्यकत्यागकर्मत्वं चास्त्येव हविषः । नन्वेवं हविष उद्देश्यतयैव संबन्धः स्थान तु देवतयेति कयमुक्तसूत्रेण तद्देवताकत्वे प्रत्ययः स्यादित्याशक्य त्यागोद्देश्यत्वस्यैव देवतात्वमाह- तत्त्यागेति, देवतायां त्यागोद्देश्यतायाः सत्त्वात् त्यागोद्देश्यत्वमेव देवतास्वमि. त्यर्थः। नन्वेवं ब्राह्मणाय धृते दत्ते तादृशवृतदेवतात्वं ब्राह्मणस्य स्यात- ब्राह्मणस्यैव तत्र घृतत्यागोद्देश्यत्वादित्याशङ्क्याह- न चैवमिति । परिहारहेतुमाह- उद्देश्यपदेनेति, वेदबोधितं यद् द्रव्यस्वामित्वं तत्प्रकारेण तत्कारिका येच्छाविषयंता-इच्छीयविषयता सैवोद्देश्यतात्र ग्राह्या सा चेन्द्रादिदेवतास्वेवास्ति- इन्द्रादीनामेव वेदेन हविरादिस्वामित्वस्य बोधितत्वात, संप्रदानभूतब्राह्मणादीनां च घृतादिस्वामित्वं तु वेदेन न बोधितमिति न ब्राह्मणादीनां घृतादिदेवतात्वापत्तिरित्यर्थः ।
ननु त्यागोद्देश्यत्वं यथा तद्धितप्रत्ययेन बोध्यते तथा चतुर्थ्यापि बोध्यते एव " इन्द्राय स्वाहा ।" इत्यादौ तथा च मीमांसकैः "तद्धितेन चतुर्थ्या वा " इत्यादिना कथं तद्धिता
"Aho Shrutgyanam"