________________
( ५४६ )
46
सादर्श:
तद्धितेन चतुर्थ्यां वा मन्त्रलिङ्गेन वा पुनः । 'दवतासङ्गतिस्तत्र दुर्बलं तु परं परम् ॥ "
[ तद्धितप्रकरणे.
इत्यनेन विरोध इति वाच्यम्, त्यागोद्देश्यतायां वेदमेयत्वस्याधिकस्य निवेशनीयतया चतुर्थ्या तदंशाऽबोधनेन तस्योपायान्तरबोध्यतया चतुर्थ्यधीनदेवबोधस्य विलम्बिततया तद्धितापेक्षया चतुर्थ्या जघन्यतोपपत्तेः । देवताविहिततद्धितेन तु देवतात्वघटकतदेशस्यापि बोधनात् ।
अथ चतुर्थ्या वेदमेयत्वांशस्य साक्षादबोधनेपि त्यागोद्देश्यत्वस्य साक्षाद् बोधनेन पित्रादीनां साहित्यावच्छिन्नानाम् " पितृभ्यो दद्यात् " इति चतुर्थ्यघीनत्यागोद्देश्यताबोधस्य " पितरो देवता " इति तद्धितसमानार्थकदेवतापदाधीनानरपेक्षत्यागोद्देश्यत्वबोधापेक्षयाऽविलम्बितत्वेन साहित्यावच्छिन्नानां निरपेक्षाणां वा श्राद्धोद्देश्यत्वम् ” इत्यत्र चतुर्थ्यपेक्षया देवतापदस्य बलवत्त्वरूपं पेक्षया चतुर्थ्यां दुर्बलत्वमुक्तमित्यभिप्रायेणाशङ्कते न चेति । सङ्गतिः = प्रतीतिः प्राप्तिर्वा । • विरोधप्राप्तो वा शङ्काभिप्रायो विज्ञेयः । परिहारमाह- त्यागोद्देश्यतायामिति । वेदमेयत्वस्य = वेदवोधितत्वस्य । तदंशाबोधनेन = वेदमेयत्वाबोधनेन । तस्य वेदमेयत्वस्य । उपायान्तरबोध्यतयेति- चतुर्थ्यन्तस्मृतिवचनेन श्रुतिकल्पना कर्तव्या तया च कल्पितश्रुत्या वेदमेयत्वबोधः संभवतीत्यर्थः । विलम्बिततया=श्रुतिकल्पनया विलम्बः । चतुर्थ्यन्तपदेन स्मृतिभूतत्वाद् वेदमेयत्वबोधनार्थं श्रुतेः कल्पना कर्तव्येति विलम्बो भवति तद्धितप्रत्ययान्तपदस्य श्रुतिभूतत्वाद् वेदमेयत्वबोधनार्थं श्रुतिकल्पना ने कर्तव्येति शीघ्रकरत्वमस्तीत्येतद् विलम्बापेक्षयैव तद्धितापेक्षया चतुर्द्धा दुर्बलत्वमुक्तंमित्यभिप्रायः । देवतात्वघटकतदंशस्यापीति- उद्देश्यत्वमेव देवतात्वमुक्तमिति देवतात्वघटकस्य नाम उद्देश्यताघटकस्य तदंशस्य = वेदमेयत्वस्यापि तद्धितेन स्वयमेव बोधनादुक्तविलम्बापत्तिर्वाक्यार्थबोधे नास्तीति चतुर्थ्यपेक्षया तद्धितस्य प्रबलत्वं प्राप्तमित्यर्थः ।
66
शूलपाणिप्रन्थानुपपत्तिमुद्दिश्याशङ्कते - अथेति, चतुर्थ्या वेदमेयत्वस्य स्वयमबोधनेपि " पितृभ्यो दद्यात् " इत्यादी त्यागोद्देश्यत्वं तु पित्रादीनां स्वयमेव बोध्यते एव स उद्देश्यत्वबोधश्च पितरो देवता " इत्यत्र तद्धितप्रत्ययसमानार्थकेन देवतापदेन जन्यो यो निरपेक्षस्त्यागोद्देश्यत्वबोधस्तदपेक्षयाऽविलम्बित एवेति देवतापदापेक्षया चतुर्थ्या एवं त्यागोद्देश्यत्वबोधने बलवत्त्वं वस्तुतः प्राप्तमेवं स्थितेपि यच्छूलपाणिना " साहित्यावच्छिन्नानाम् " इतिग्रन्थे देवतापदस्य बलवत्त्वमुक्तं तन्न सङ्गच्छते इत्यर्थः । " पितरो देवता " इत्यत्र देवतापदेन • त्यज्यमानद्रव्ये पितृदेवताकत्वं बोध्यते तदेव तद्धितप्रत्ययेनापि बोधनीयमिति देवतापदस्य तद्धितसमानार्थकता, किं चैतद्वाक्यस्य वेदीयत्वात् श्रुतिकल्पनापेक्षाभावेन सापेक्षत्वाभावात् निरपेक्ष एव. त्यागोद्देश्यत्वबोधो जायते इत्युक्तम्- निरपेक्षत्यागेति । चतुर्थ्याः संप्रदानार्थकवात संप्रदानत्वस्योद्देश्यत्वगर्भत्वाच्चतुर्थ्या स्वयमविलम्बेनोद्देश्यत्वं बोध्यते देवतापदे तु तथा
" Aho Shrutgyanam"