________________
तद्धितचतुर्योबेलाबलविचारः] व्युत्पत्तिवादः ।
(५४७) शूलपाणिपर्यालोचितं विनिगमकन संगच्छते इति चेत् ?, न- “ पितृभ्यो दद्यात्" इतिचतुर्थ्या साहित्यावच्छिन्नस्य त्यागोद्देश्यताबोधे तत्र वेदसमा. नार्थकस्मृतिवाक्यजन्यत्वग्रहे सत्येवाप्रामाण्यशङ्कानुदया. तादृशग्रहश्च विलम्बितः । देवतापदात् त्यागोद्देश्यताबोधश्च तदुद्देश्यतांशे वेदबोधितत्वावगाही स्वस्मिन्न प्रामाण्यशङ्काव्युदासाय न ज्ञानान्तरमपेक्षते-स्वस्यैव स्वात्मकोद्देश्यताबोधांशेऽप्रामाण्यव्यावर्तकवेदजन्यत्वावगाहनात्, अप्रामाण्यशङ्काकलङ्कितश्च बोधो जातोप्यऽकिंचित्कर इति देवतापदस्य झटिति निश्चीयमानप्रामाण्यबोधजनकतया बलवत्वेन विनिगमनाया उपपत्तेः।
एवं श्राद्धार्थावाहनप्रकाशकात् " पितरः " इत्यादिमन्त्रादू बहुवचनोपस्थापितसाहित्यावच्छिन्नाऽऽवाहनबोधेन साहित्यावच्छिन्नानां श्राद्धदेवतात्वलाभेपि मन्त्रलिङ्गस्य विपक्षबाधकतर्कादिसापेक्षव्याप्तिनिश्चयाधीनतया :सुतराम् " पितरो देवता " इत्यतो दुर्बलतेति बोध्यम् ।
सामर्थ्य नास्तीत्युद्देश्यत्वबोधने देवतापदापेक्षया चतुर्थ्या एव बलवत्त्वमिति शङ्काभिप्रायः । परिहरति- नेति, “ पितृभ्यो दद्यात् ' इत्यत्र चतुर्थ्या स्वयं शीघ्रमेव पित्रादीनां त्यागोद्देश्यत्वबोधनेप्येतद्वाक्यजन्योद्देश्यताबोधे प्रामाण्यग्रहार्थ वेदसमानार्थकस्मृतिवाक्यजन्यत्वग्रहस्यापेक्षास्ति तादृशग्रहश्च वेदसमानार्थकस्मृतिवाक्यजन्यत्वग्रहश्चैतद्वाक्ये स्मृतिवाक्यत्वग्रहसापेक्षतया विलम्बेन भवति, देवतापदाच जायमानस्त्यागोद्देश्यताबोधस्तदुद्देश्यतांशे त्यागोद्देश्यतांशे ( विषयत्वं सप्तम्यर्थः ) स्वस्मिन्नप्रामाण्यशङ्काव्युदासाय ज्ञानान्तरं नापेक्षते स्वस्मिन् वेदबोधितत्वावगाहित्वादित्येवंरीत्या त्यागोद्देश्यताबोधनेपि चतुर्थ्यपेक्षया देवतापदस्य बलवत्त्वमस्त्येवेति शूलपाण्युक्तं देवतापदस्य बलवत्त्वं युक्तमेवेत्यर्थः । किं च चतुर्थ्याऽप्रामाण्यशङ्काकलङ्कितो जातोपि बोधो न कार्यकारी संभवतीत्याह-अप्रामाण्यशङ्केति ।
उक्तरीत्या तद्धितापेक्षया तद्धितसमानार्थकदेवतापदापेक्षया च चतुर्थ्या दुर्बलत्वं प्रतिपाद्य मन्त्रलिङ्गस्य दुर्बलत्वं प्रतिपादयति- एवमित्यादिना । "पितरः " इत्यादिमन्त्रात्=" आयन्तु नः पितरः " इत्यादिमन्त्रात् । विपक्षेति-विपक्षबाधको यस्तर्कस्तत्सापेक्षा या व्याप्तिस्तादृशव्याप्तिनिश्चयाधीनमेव लिङ्गं भवतीति मन्त्रलिङ्गस्योक्ततर्कव्याप्त्यादिबहुसापेक्षतया दुबर्लत्वमित्यर्थः। वस्तुतस्तु “ सामर्थ्य सर्वशब्दानां लिङ्गमित्यभिधीयते " इतिपारिभाषिकलिङ्गपदार्थमज्ञात्वैव तर्कशास्त्रसंस्कारवशाल्लिङ्गपदेनानुमापकलिङ्गं विज्ञाय व्याप्त्यादिसापेक्षतया दुर्बलत्वप्रतिपादनं गदाधरभट्टाचार्यस्येति ध्येयम् । मीमांसकैस्त्यत्र " चतुर्थीतः संप्रदानकदेशतया देवतात्वप्रतीतिरस्त्येव मन्त्रवर्णात्तु न देवतात्वं प्रतीयते किं त्वधिष्ठानमात्रमतश्च मन्त्रवर्णश्चतुर्थीतो दुर्बलः " इत्याधुक्तं विस्तरस्तु मीमांसाग्रन्थेष्वेव द्रष्टव्यः ।
"Aho Shrutgyanam"