________________
(५४८)
सादर्शो व्युत्पत्तिवादः। 'कापोतम् । 'राजतम् ' 'जनता' इत्यादौ समूहाविहितस्य तद्धितस्य. पर्याप्तसमुदायत्वावच्छिन्नोऽर्थः, पर्याप्तौ प्रकृत्यर्थकपोतत्वाधवच्छिन्नस्यान्वयः ।। कंपोतशुकसारिकादिपर्याप्तसमुदायत्वस्य पयोप्तिश्च न न्यूनवृत्तिकपोतत्वादिनाऽवच्छिद्यते. अतो न ताशसमुदाये कापोतादिव्यवहारः । पर्याप्त्यऽवच्छेदकत्वे चाऽन्यूनवृत्तित्वमेव तन्त्रं न त्वऽनतिरिक्तवृत्तित्वमपि. अन्यथाऽऽकाशत्वादेरिव घटत्वादेराप द्वित्वादिपर्याप्त्यवच्छेदकता न स्यात् ( तथा च) 'आकाशो' इतिवत् ' घटौ ' इत्यपि न स्यात् । इत्थं च कपोतमात्रवृत्तिशतत्वादिपर्याप्तावप्यतिरिक्तवृत्तिकपोतत्वाद्यवच्छिन्नवनिर्वाहात् कपोतशतादावपि कापोतादिव्यवहारोपपत्तिः । पर्याप्त्यतिप्रसक्तधर्मस्य तदनवच्छेदकत्वे गत्यनतरं चिन्तनीयम् ।।
॥ इति तद्धितप्रत्ययार्थविवेचनं समाप्तम् ॥ प्रयोगान्तरमुदाहरति- कापोतमित्यादिना । पर्याप्तसमुदायत्वावच्छिन्नः कपोतादिपर्याप्तसमुदायः । पर्याप्ताविति-कपोतादिपर्याप्तावित्यर्थः कपोतत्वाद्यवच्छिन्नपर्याप्तिकः समुदाय इति यावत् । ननु कपोतशुकसारिकादिसमुदायेपि कपोतानां समूहस्य सत्त्वात्तत्र 'कापोतम् । इति प्रयोगः कथं न भवतीत्याशङ्कयाह- कपोतशुकेति, पर्याप्त्यवच्छेदकत्वं न्यूनवृत्तिधर्मस्य न भवति कपोतशुकसारिकादिसमुदायस्थले च कपोतत्वं न्यूनवृत्त्येवेति कपोतत्वस्य पर्याप्त्यवच्छेदकत्वाभावादेव न तत्र कापोतादिव्यवहारः-पर्याप्तिर्यद्धर्मावच्छिन्ना भवति तद्धर्मावच्छिन्नसमुदा. यस्यैव व्यवहारास्पदत्वात् तद्धर्मावच्छिन्नवाचकादेव समूदार्थकतद्धितप्रत्ययप्राप्तिसंभवादित्यर्थः । प्रसङ्गसंगत्या पर्याप्त्यवच्छेदकस्वरूपमाह- पर्याप्त्यवच्छेदकत्वे इति । अनतिरिक्तवृत्तित्वम्= अतिरिक्तवृत्तित्वाभावः, अनतिप्रसक्तत्वमिति यावत् । विपक्षे बाधकमाह-अन्यथेति । घटत्वादरिति-अतिप्रसक्तधर्मस्य पर्याप्त्यवच्छेदकत्वाभावे हि द्वौ घटौ ' इत्यत्र घटत्वस्य द्वित्वपर्याप्त्यवच्छेदकत्वं यदिष्टं तन्न स्याद् घटत्वस्य तृतीयादिघटेष्यपि सत्त्वात् तथा च 'घटौ' इतिप्रयोगोपि न स्यादिति पर्याप्त्यवच्छेदकत्वे तद्धर्मस्यान्यूनवृत्तित्वमेव प्रयोजकं न त्वनतिप्रसक्तस्वमपीत्यर्थः । प्रकृतमाह- इत्थमिति, एवं हि शतसंख्याककपोतानामपि समुदाये ' कापोतम् । इति व्यवहार उपपद्यते- एकत्रीभूतशतकपोतातिरिक्तकपोतेष्वपि कपोतत्वस्य सत्त्वेपि कपोतमात्रवृत्तिशतत्वादिपर्याप्स्यवच्छेदकत्वसंभवात्-अन्यूनवृत्तित्वादित्यर्थः । तदनवच्छेदकत्वे पर्याप्त्यनवच्छेदकत्वे । गत्यन्तरमिति-तादृशसंख्याकव्यक्तित्वस्यैव पर्याप्त्यवच्छेदकत्वं वक्तव्यम्तस्य तादृशसख्याकपर्याप्त्यपेक्षयाऽतिरिक्तवृत्तित्वाभावादित्यर्थः । किं वातिप्रसक्तधर्मस्य स्वरूप संबन्धलक्षणमवच्छेदकत्वं वक्तव्यं तच्च तस्य संभवत्येवेति ॥
॥ इति व्युत्पत्तिवादादर्श तद्धितप्रत्ययाः ॥
"Aho Shrutgyanam