________________
अथ धातुप्रत्ययाः
धातुप्रकृतिकाश्च लकारकृत्सन्यणिच्प्रभृतयः प्रत्ययाः केचिद्धात्वर्थान्वितमधिकमर्थं ब्रुवते. अर्थान्तरमनभिदधानाश्च केचिदाकाङ्क्षानिर्वाहकतया प्रकृतिभिः स्वीयार्थबोधने एवोपकुर्वते । तत्र लडादिदशलकाराणाम् " लः कर्मणि च भावे चाsकर्मकेभ्यः " • इतिसूत्रेण कर्तृकर्मभावेष्वनुशिष्टानां कर्तृत्वसामान्यमर्थः - तावन्मात्राभिधानेनैव प्रथमान्तपदोपस्थाप्ये विशेषणतया तदन्वयेन कृतिविशिष्टस्य कर्तुबोध निर्वाहात् । लकारस्य तद्बोधकतया न लः कर्मणि " इति सूत्रविरोधः - बोधकताया एव तंत्र सप्तम्यर्थत्वात् न तु वाचकतायाः, गौरवेण विशिष्टधर्मिणि शक्तेर्बाधात् । ' मैत्रः पचति ' इत्यादौ लकारे प्रथमान्तपदसामानाधिकरण्यप्रवादस्याऽभेदेन तदर्थान्वितस्वार्थबोधपरत्वाभावेपि कथंचिदुपपादनसंभवात् ।
£6
7
क्रमप्राप्तं धातुप्रकृतिकप्रत्ययार्थ निरूपणमारभते - धातुप्रकृतिका इत्यादिना । केचित् = सना - दयः । अधिकम् = इच्छादिरूपमधिकमर्थम् । केचित् = भावार्थकप्रत्ययाः । आकाङ्क्षानिर्वाहकतयेति-- यथा 'अनुभूयते ' इत्यादौ मात्रार्थविषयकशाब्दबोधं प्रति यगुत्तरतिप्पदज्ञानत्वेन कारणत्वमस्तीति भूधातूत्तरप्राप्तभावार्थ कयक्प्रत्ययस्य केवलमाकाङ्क्षामात्र निर्वाहकत्वमस्ति मावस्य धात्वर्थत्वादेवेत्यर्थः । विशेषनिरूपणमारभते तत्रेति । तत्र = धातुप्रकृतिकप्रत्ययेषु । कर्तृत्वमिति - कर्तरि प्राप्तानां लकाराणां कर्तृत्वे एव शक्तिर्लाघवान्न तु कर्तरि गौरवात् कर्तृव्यक्तीनां नानात्वादित्यर्थः । ननु यदि लकारस्य कर्तृत्वे एव शक्तिस्तदा ' पचति ' इत्यादौ कर्तृबोधानुपपत्तिरित्याशङ्कयाह — तावन्मात्रेति तावन्मात्राभिधानेन = कर्तृत्वमात्राभिधानेन, तदन्वयेन= कर्तृत्वान्त्रयेन, ' चैत्रः पचति ' इत्यादौ लकारेण कर्तृत्वे उपस्थिते तस्य प्रथमान्तपदोपस्थितचैत्रे विशेषणत्वेन रूपेणान्वयो भविष्यत्येवेति कृतिविशिष्टस्य कर्तृत्वविशिष्टस्य कर्तुर्न बोधानुपपत्तिरित्यर्थः । कर्तृत्वं च कृतिरेव । नन्वेवमन्वयबलेन कर्तृबोधे प्राप्ते लः कर्मणि " इति सूत्रविरोधः स्यादित्याशङ्क्याह- लकारस्येति, लकारस्य कर्तृबोधकत्वं त्वस्त्येव लकारस्य शक्तिः कर्तृत्वे एवेत्युच्यते न तु कर्त्रऽबोधकत्वमपीत्यर्थः । उक्तार्थमुपपादयति- बोधकताया इति । तत्र=उक्तसूत्रे । विशिष्टधर्मिणि कर्तृत्वविशिष्टे कर्तरि । ननु तिसमानाधिकरणे प्रथमा " इत्यादिवचनैस्तिङः प्रथमायाश्च सामानाधिकरण्यमुक्तं यत्र कर्तरि तिङ् तत्र प्रथमापि 'कर्तरि यत्र च कर्मणि तिङ् तत्र प्रथनापि कर्मणि यथा ' चैत्रः पचति पच्यते ओदनः इत्यर्थः तिबोध्यकारकबोधिका प्रथमेति यावत् तथा च चैत्रः पचति ' इत्यत्र प्रथमा कर्तरि भवतीति तिङोपि कर्तृवाचकत्वे एव प्रथमासामानाधिकरण्यं स्यादिति लकारस्य कर्तृवाचकत्वमावश्यकमेवेत्याशङ्कयाह - मैत्र इति, तदर्थान्वित = कर्तृपदार्थान्वितं । कथंचिदिति-
最喜
66
&
"Aho Shrutgyanam"