________________
(५५०)
सादर्शः
[आख्यातप्रकरणेतृतीयायाः साधुतानियामक लकारादिना कर्तुरनभिधानमाप कर्तृत्वविशिष्टाऽबोधनमेव न तु विशिष्टशक्त्या विशिष्टाऽबोधनपर्यन्तम् अतो विशिष्टस्य लकारावाच्यत्वेपि · चैत्रः पचति ' इत्यादौ न तृतीयांपत्तिः- अन्वयबलेन विशिष्टबोधात् । 'चैत्रः पक्ता' इत्यादौ कृत्प्रत्ययस्य धर्मिणि शक्तावपि न क्षतिः । शत्यधीनविशिष्टबोधसाधारणबोधस्यैवाऽनभिधानपदार्थप्रतियोगित्वात् " अनभिहिते कर्तरि तृतीया " इत्यनुशासनेपि सप्तम्यर्थों बोधकत्वमेव तथा च ‘चत्रेण पच्यते' इत्यादौ तृतीयार्थकर्तृत्वस्य प्रकृत्यर्थविशेष्यतयैव भानान्न कर्तृत्वविशिष्टधर्मिबोधकत्वमिति सूत्राविरोधः।
यदि च तत्र कादिपदं धर्मपरं तथा च समभिव्याहृतलकाराधनभिहितं कर्तृत्वं ताशप्रथमान्तपदसामानाधिकरण्यमपि लकारबोध्यकर्तृपदार्थमाश्रित्येवोक्तं न तु लकारवाच्यकर्तृपदार्थमाश्रित्य. कर्तृबोधकत्वं तु स्वीकृतमेवेति न प्रथमान्तपदसामानाधिकरण्यप्रवादानुपपत्तिः।
विशेषान्तरमाह- तृतीयाया इति, किं वा ननु लकारस्य कर्बवाचकत्वे " अनभिहिते कर्तरि तृतीया स्यात् " इतिनियमेन ' चैत्रः पचति ' इत्यत्रापि चैत्रपदोत्तरं तृतीया स्यात्अत्रापि शक्त्या लकारेण कत्रभिधानाभावादित्याशझ्याह- तृतीयाया इति । विशिष्टशक्त्याकर्तृत्वविशिष्टनिरूपितशक्त्या । विशिष्टाबोधनपर्यन्तम् = कर्तृत्वविशिष्टाबोधनम् । तृतीयापत्त्यभावे हेतुमाह- अन्वयेति, अत्रान्वयबलेन कर्तृत्वविशिष्टस्य बोधो भवत्येवेति न तृतीयापत्तिःयत्रान्वयबलेनापि कर्तृत्वविशिष्टस्य बोधो न भवति तत्रैव तृतीयापत्तिस्वीकाराद् यथा' चैत्रेण पच्यते । इत्यादावित्यर्थः । चैत्र इति- चैत्रः पक्ता ' इत्यादौ पत्रादिपदानां चैत्र• पदसामानाधिकरण्याद् विवशं कर्तृत्वविशिष्टेपि शक्तिः स्वीक्रियते- कर्तृत्वे शक्तिस्वीकारासंमवात्, कर्तृत्वस्य चैत्रादिनाऽभेदान्वयासंभवादित्यर्थः । “ अनभिहिते " इतिवचनेपि बोधकत्वमेव सप्तम्यर्थो न तु वाचकत्वमित्याह- शक्त्यधीनेति, अनभिधानं हि बोधाभाव एव बोधाभावप्रतियोगी च बोध एव स च बोधः शक्त्यधीनो यः कर्तृत्वविशिष्टबोधस्तत्साधारण एव गृह्यते तथा च कचिच्छक्त्याऽनभिधानं कचिदन्वयबलेन चानभिधानं ग्राह्यमित्यर्थः । फलमाहतथा चेति, “ अनभिहिते कर्तरि " इत्यत्र कर्तपदं कर्तृत्वविशिष्टधर्मिपरमेव · चैत्रेण पच्यते' इत्यत्र च तृतीयार्थभूतकर्तृत्वस्य प्रकृत्यर्थभूतचैत्रविशेष्यतयैव भानं भवति 'चैत्रवृत्तिकृतिजन्यविक्लित्त्यनुकूलव्यापारः । इतिबोधोदयादिति लकारस्यात्र कर्तृत्वविशिष्टधर्मिबोधकत्वाभावाच्चैत्रपदात्तृतीया प्राप्तेति “ अनभिहिते " इतिसूत्रविरोधोपि नास्ति- सूत्रेण लकारस्य कर्तृत्वविशिष्टधर्म्यऽबोधकत्वे एव कर्तृवाचकपदात्तृतीयाविधानादित्यर्थः । कर्तृत्वस्य विशेष्यत्वाद् धर्मिणः कर्तृत्वविशिष्टत्वमेव नास्ति येन तदभिधानमापद्येतेति भावः ।
परिहाराय पक्षान्तरमुत्थापयति- यदि चेति । तत्र-तृतीयाविधायकसूत्रे । धर्मपरम् कर्तस्वपरं न तु कर्तृत्वविशिष्टपरम् । कर्तृपदस्य धर्मपरत्वे सूत्रार्थमाह- तथा चेति, "अनमि
"Aho Shrutgyanam"