________________
कर्तृत्वानभिधानविचारः] व्युत्पतिवादः । तृतीयार्थ इति सूत्रार्थः 'चैत्रेण पच्यते' इत्यादौ कर्तृत्वस्य तृतीयामात्रार्थत्वाल्लकारेण तदनभिधानं सुघटमित्युच्यते ? तदा तत्रानभिधानशब्दार्थो भवतैव निवक्तव्यः, न तावदावाचकत्वं तदर्थ:-- लकारसामान्यस्यैव कर्तृत्वशक्तत्वेना. अनुत्त्यसंभवात्, कर्तरि यको साधुत्वादेव 'चैत्रः पच्यते' इत्यादिप्रयोगवारणात, यगाद्यनुत्तरत्वस्य कर्तृत्वशक्ततावच्छेदककोटावनिवेशात, तत्र तनिवेशे 'पच्यन्ते माषाः' 'भिद्यते कुसूलः ' 'लूयते केदारः ' इत्यादौ कर्मकर्तुर्मापकुसूलकेदारादेः कर्तृत्वबोधानुपपत्तिः । न च तत्र 'स्वयमेव ' इत्यस्याऽध्याहारेणाऽव्ययस्वयंपदोत्तरतृतीयया कर्तवं बोध्यते न तु लकारेणेति वाच्यम्, 'स्वयम् ' इत्याद्यऽध्याहारं विनापि तत्र कर्तृत्वबोधाभ्युपगमात् । तत्र लकारेण कर्तृत्वाबोधने कर्मकर्तुः “कर्मवत्कर्मणा तुल्यक्रिया " इत्यतिदेशसूत्रवैयथ्यापातात, लकारस्य कर्मत्वबोधकतयैव यगात्मनेपदीचणचण्वद्भावरूपातिदेशफलनिर्वाहात् ।
न च कर्मकर्तार लकाराधीनकर्मत्वबोधस्याप्यावश्यकता वस्तुगत्या कर्तुः हिते " इत्यस्य — लकारेण कर्तृत्वानभिहिते तृतीया' इत्यर्थे जाते लकारानभिहितं कर्तृत्वमेव तृतीयार्थः स्यादित्यर्थः । फलमाह- चैत्रेणेति, कर्तृत्वस्य लकारार्थत्वामावाल्लकारेणाऽनभिधानं प्राप्तमेव तथा च तृतीयोपपत्तिरित्यर्थः । उक्तपक्षे स्वं चोद्यमाविष्करोति- तदेति । तदर्थ:= अनमिधानपदार्थः । अनुक्त्यऽसंभवात्-अवाचकत्वासंभवात् । ननु लकारस्य कर्तृत्वे शक्तिस्वीकारे कर्तृत्ववाचकत्वेपि कर्तृवाचकत्वाभावात् यक्प्रत्ययेन 'चैत्रः पच्यते' इत्यपि प्रयोगः स्यादित्याशङ्क्याह-- कर्तरीति । ननु यगनुत्तर ( यग्रहित ) लकारस्यैव कर्तृत्वे शक्तिः स्वीक्रियता 'पच्यते । इत्यत्र च यगुत्तरत्वान्न कर्तृत्वबोधकत्वं स्याल्लकारस्येति न — चैत्रः पच्यते' इति प्रयोगापत्तिरित्याशझ्याह- यगाद्यनुत्तरेति । विपक्षे बाधकमाह- तत्रेति, यदि तत्र-कर्तृत्वशक्ततावच्छेदककोटौ तन्निवेशः-यगाद्यनुत्तरत्वनिवेशः स्यात्तदा पच्यन्ते माषाः' इत्यादी यगुत्तरत्वस्यैव सत्त्वेन यगनुत्तरत्वस्याऽसत्त्वात् कर्मकर्तृभूतमाषादेः कर्तृत्वं न प्रतीयेत न चैतदिष्टमित्यर्थः । ननु ' पच्यन्ते माषाः । इत्यत्र लकारण माषादीनां कर्तृत्वाबोधनेप्यध्याहृतस्वयंपदोत्तरप्राप्तलुप्ततृतीयया कर्तृत्वं बोध्यते इत्याशङ्कयाह- न चेति । उत्तरमाह= स्वयमिति । 'पच्यन्ते माषाः' इत्यत्र लकारस्य कर्तृत्वबोधकत्वे सूत्रं प्रमाणयति- तत्रेति, वैयर्थ्यापातादितितत्र लकारस्य कर्तृत्वबोधकत्वेन माषादीनां कर्तृत्वे प्राप्ते तदपवादेन कर्मतुल्यत्वं विधीयते लकारस्य कर्तृत्वाबोधकरवे माषादीनां कर्तृत्वाप्राप्तौ तदपवादं कृत्वा कर्मत्वबोधनं व्यर्थमेव स्यात्-- मप्राप्तस्यापवादासंभवादित्यर्थः । यदा च सूत्रेण भाषादीनां कर्मत्वं प्राप्तं तदा लकारस्यापि कर्मत्वबोधकत्वं प्राप्त कर्मत्वबोधकत्वे च कर्मत्वातिदेशफलभूता यगादिप्राप्तिरुपपद्यते इत्याह- लकारस्येति ।
आशङ्कते- न चेति । वस्तुगत्येति- यदि कर्तुः कर्मत्वे सति यगादिकं स्यात्तदा ' चैत्रः
"Aho Shrutgyanam"