________________
( ५५२ )
सादर्श:
[ आख्यातप्रकरणे
'कर्मत्वातिदेशे ' चैत्रः स्वं पश्यति स्वं हन्ति ' इत्यादावपि यगात्मनेपदादिप्रसङ्गाकारेण कर्मत्वविवक्षायामेव कर्मत्वातिदेशस्य : स्वीकरणीयत्वात् तथा चत्वमपि कर्मत्वातिदेशाऽसंगतिरिति वाच्यम्, कर्मत्वविवक्षायामपि कर्तृत्वविवक्षणे कर्तृकर्मादिसंज्ञासमावेशविरोधेन परत्वात् कर्तृसंज्ञया कर्मसंज्ञाया बाधेनात्मनेपदचिण्वद्भावाद्यनुपपत्तेः । "कर्तरि शपू" इत्याद्यपवादविषयतया यकोप्यनिर्वाहादतिदेश सार्थकत्वात् ।
न च कर्मत्वकर्तृत्वयोरुभयोस्तत्र बोधस्वीकारे तदेकतरस्याख्यातार्थतयोद्देश्यतावच्छेदकतया भानासंभवात् समूहालम्बनबोध एव स्वीकरणीय इति वाक्यभेदापत्तिरिति वाच्यम्, एकत्र द्वयमितिरीत्या तदुभयबोधस्य समूहालम्बनविलक्षणस्य स्वीकारात् । यदि च विधेयद्वयज्ञानं समूहालम्बनात्मकमेव अत एव विधेयभेदे वाक्यभेदः इति मीमांसकसिद्धान्तोपीत्युच्यते ? तदाऽस्तु धातो
"
स्वं पश्यति' इत्यादावपि यगादिकं स्यात् कर्तृभूतचेत्रादेरेव कर्मत्वात् न चैतदिष्टमिति लकाtha कर्मत्वाभिधाने कर्तुः कर्मत्वातिदेशो वक्तव्यस्तथा च त्वन्मतेपि कर्मत्वातिदेशासंगतिरेव - लकारस्य तत्र यन्मते कर्तृत्वबोधकत्वेन कर्मत्वाभिधायकत्वाभावादिति कर्मकर्तृस्थले लकारस्य कर्मत्वबोधकत्वमप्यावश्यकमेवेत्यर्थः । उत्तरमाह-- कर्मत्वेति, यदि लकारेण कर्मत्वविवक्षायामेव कर्मवातिदेशः स्यात्तदापि कर्मकर्तृस्थलत्वात् कर्तृत्वविवक्षापि प्राप्तैव तत्रैकस्यैव कर्तृसंज्ञा कर्मसंज्ञा च न संभवतीति परत्वात् कर्तृसंज्ञया कर्मसंज्ञाया बाधे जाते कर्मस्वप्रयुक्तात्मनेपदचिण्वद्भावादिकं नोपपद्यते तथा यगपि नोपपद्यते "कर्तरि शपु " इत्यनेन बाध्यमानत्वादित्यतिदेशस्य = " कर्मवत्कर्मणा " इति सूत्रस्य ' पच्यन्ते माषाः ' इत्यादौ माषादीनां कर्तृत्वसत्त्वेपि यगादिविधायकत्वेन सार्थकत्वमित्यर्थः ।
LL
ननु ' पच्यन्ते माषाः इत्यत्र यदि माषाणां कर्मत्वेन च कर्तृत्वेन च बोधः स्यात्तदोमयोरेव कर्मत्वकर्तृत्वयोराख्यातार्थत्वेन विशेषाभावादेकतरस्योद्देश्यतावच्छेदकतया भानं न संभवति येन कर्तृत्वविशिष्टमाषव्यक्तिमुद्दिश्य कर्मत्वविधानम् - कर्मत्वातिदेश उपपद्येत, तथा चात्र ८ माषकको व्यापारो माषकर्मकश्च व्यापारः ' इत्येवं समूहालम्बनबोधः स्वीकर्तव्यस्तेन च वाक्यमेदः प्राप्त इत्याश क्याह- न चति । परिहारमाह- एकत्रेति, यथा एकत्र द्वयम् " इतिरीत्या ' नीलः सुन्दरो घटः ' इत्यत्रैकस्मिन्नेव घटे नीलत्वं सुन्दरत्वं चास्तीति नीलत्वावच्छिन प्रकारता निरूपिताया: सुन्दरत्वावच्छिन्नप्रकारतानिरूपितायाश्च घटनिष्ठविशेष्यताया एकत्वान्न वाक्यभेदो न वा समूहालम्बनात्मक बोधस्तथा प्रकृतेपि कर्मत्वनिष्ठप्रकारता निरूपितायाः कर्तृत्वनिष्ठप्रकारता निरूपितायाश्च माषनिष्ठविशेष्यताया एकत्वान्न वाक्यभेदो न वा समूहालम्वनबोध इत्यर्थः । ननु विधेयद्वयज्ञानं समूहालम्बनात्मकमेव भवतीति कर्मत्वकर्तृत्वयोर्विधाने वाक्यभेदः स्यादेवेत्याशङ्कते - यदीति । उत्तरमाह - तदेति, धातोः सामान्यतः क्रियायां
" Aho Shrutgyanam"