________________
कर्तृत्वानभिधानपदार्थविचारः ]
व्युत्पत्तिवादः ।
( ५५३ )
6
रेव स्वकर्मक क्रियायां लक्षणा, कर्तृत्वसंबन्धमध्ये एव वा स्वनिरूपक क्रियाकर्मत्वस्याप्यन्तर्भावः । स्तुनमोरकर्मकत्वेपि ' प्रस्तुते गौः ' प्रास्नोष्ट गौः नमते दण्डः अनंस्त दण्डः' इत्यादौ व्यर्थान्तर्भावेनैव कर्मकर्तृतानिर्वा हे "न दुहस्नुनमां यचिणौ" इति यक्चिणनिषेधोपपत्तिः । एवं ' चैत्रेण पक्ष्यते ' इत्यादौ कर्तृत्ववाचकताया दुरपह्नवत्वात् तृतीयानुपपत्तिः - ' चैत्रः पक्ष्यते ' इत्यादौ लकारेण कर्तृत्वबोधनात् स्याद्युत्तरलकारसाधारणरूपस्य तद्वाचकतावच्छेदकताघ्रौव्याच्च ।
नापि तदबोधकत्वं तदनभिधानम् - ' चैत्रेण पच्यते ' इतिवाक्यजबोधे शक्तावपि माषादिकर्मकक्रियायां लक्षणा तथा च लक्षणया भाषादिकर्मकव्यापारस्य बोध उपपन्न इत्यर्थः । पक्षान्तरमाह- कर्तृत्वेति, स्वं कर्तृत्वं कर्तृत्वनिरूपिका या क्रिया तत्कर्मत्वस्य कर्तृत्वसंबन्धे एवाऽन्तर्भावः कर्तव्यस्तथा च स्वनिरूपकक्रियाकर्मत्वसंबन्धेनात्र माषादिलक्षणकर्तरि कर्तृत्वस्यान्त्रयः कर्तभ्य इति कर्तृत्वमात्रस्य विधेयत्वेन विधेयभेदाभावान्न वाक्यभेदप्रसङ्गः कर्मत्वस्य माषादौ संसर्गविधयापि मानसंभवादित्यर्थः, अत्र स्त्रं माषादिनिष्ठं कर्तृत्वं तन्निरूपिका या पाकादिक्रिया तत्कर्मत्वं माषादावस्त्येवेति तेन कर्मस्वरूपसंबन्धेन माषादौ कर्तृत्वान्वय इत्यन्वयः । ननु स्तुनमोर्धात्वोर्यदि सकर्मकत्वं स्यात्तदा कर्मकर्तृविवक्षायां यगादिप्राप्तौ सत्याम् न दुहस्नुनमाम् " इत्यनेन यगादिनिषेध उपपद्येतापि न च यगादिप्राप्तिरस्ति - स्तुतमोरकर्मकत्वादित्याङ्क्याह - स्तुनमोरिति, स्नुनमोरकर्मकत्वेपि तदर्थे ण्यर्थान्तर्भावेन कर्मकर्तृत्वमुपपद्यते व्यर्थभावनायाः सकर्मकत्वादिति सकर्मकत्वे प्राप्ते कर्मकर्तृत्वविवक्षायां यगादिप्राप्तौ सत्याम् न दुहस्नुनमाम् " इत्यनेन यगादिनिषेध उपपन्न एवेत्यर्थः । नम् धातोः सामा-' न्यतः सकर्मकत्वेपि दण्डादीनां स्वयमेव नमने 'नमते दण्डः ' इत्यादावकर्मकत्वमेव विज्ञेयं कर्माभावात् ।
26
CA
८
,"
LL न च कर्मकर्तरि " इत्यनेनाऽऽरब्धाम प्रकृतचिन्तां परिसमाप्य प्रकृतमाह - एवमिति, यथा " कर्मवत्कर्मणा " इति सूत्रवैयर्थ्यापत्तिरेवमिति पूर्वेण संगतिः । तृतीयानुपपत्तिरिति - "अनभिहिते कर्तरि ” इत्यत्रेदानीं कर्तृपदं कर्तृत्वपरमेवेत्यनभिहिते कर्तृत्वे तृतीया संभवति न चात्रकारस्य कर्तृत्ववाचकत्वेन कर्तृत्वाभिधानस्यैव सत्त्वादित्यर्थः । चैत्रेण पक्ष्यते ' इत्यत्र लकारस्य कर्तृत्ववाचकत्वे हेतुमाह - चैत्र इति, 'चैत्रः पक्ष्यते ' इति लट्प्रयोगे लकारस्य कर्तृत्व. वाचकत्वमस्त्येव ' पक्ष्यते इत्येव च प्रयोगः ' चैत्रेण पक्ष्यते ' इत्यत्राप्यस्त्येवेत्यत्र कथं न कर्तृत्ववाचकत्वं स्यात् उक्ते हेतुमाह- स्पायुत्तरेति, स्याद्युत्तरलकारसाधारणमेव ' पक्ष्यते ' इति रूपं तद्वाचकतायाः = कर्तृत्ववाचकताया अवच्छेदकमस्ति तादृशरूपाक्रान्तिश्वोभयत्र तुल्यैवेति कथमेकत्र लकारस्य कर्तृत्ववाचकत्वमेकत्र च कर्तृत्वावाचकत्वमिति वैषम्यं स्यादित्यर्थः । पक्षान्तरं परिहरति-- नापीति । तदबोधकत्वम् = कर्तृत्वाबोधकत्वम् । तदनभिधानम् = कर्तृ
" Aho Shrutgyanam"
"
6