________________
( ६५४ )
सादर्श:
[ आख्यातप्रकरणेकर्तृत्वविषयके तादृशका क्यघटकसकलपदानामेव जनकतया तद्धटकलकारस्यापि कर्तृत्वबोधकताया वाङ्मात्रेणाऽप्रत्याख्येयत्वात् ।
नापि तद्विषयत्वाप्रयोजकत्वं लादीनां तदनभिधायकत्वम् ' चैत्रेण पच्यते ' इत्यादौ धात्वर्थविशेषणतया कर्तृत्वविषयता तृतीयाप्रयोज्यैव न त्वाख्यातमयोज्या- आख्यातस्याश्रयता संबन्धावच्छिन्नकर्तुत्वमकारताया एव कार्यतावच्छेदकत्वादित्यपि सम्यक् - ' पचति ' इत्यवान्तरवाक्यार्थबोधासंग्राहकतया प्रकारताया एवाख्यातजन्यतावच्छेदकत्वासंभवात् प्रथमान्तपदसमभिव्याहारज्ञानस्य योग्यताज्ञानादेव जन्यतायामुक्तप्रकारताया अवच्छेदकत्वात् ।
८८
वानभिधानम् । अनभिहिते कर्तरि ” इत्यत्रेति शेषः । बोधे इतिनिरूपितत्वं सप्तम्यर्थस्तथा वोक्तवाक्य घटकसकलपदानामेव कर्तृत्व विषयकबोधनिरूपितजनकतयेत्यर्थः । ' चैत्रेण पच्यते' इतिवाक्यस्य कर्तृत्वबोधकत्वे : वाक्यघटकलकारस्यापि कर्तृत्वबोधकत्वं प्राप्तमेवेति तृतीयानुपपत्तिः - तृतीयाप्रापकस्य कर्तृत्वाबोधकत्वस्याऽसत्त्वादित्यर्थः । ' चेत्रेण
ननु कर्तृत्वविषयत्वाऽप्रयोजकत्वमेव लादीनां कर्तृत्वानभिधायकत्वमिति वक्ष्यामः पच्यते ' इत्यत्र च या धात्वर्थविशेषणतया कर्तृत्वविषयता ( कृतिनिष्ठा प्रकारता ) भासते — चैत्रसमवेतकृतिजन्यः पाकः ' इतिबोधोदयात् सा तृतीयाप्रयोज्यैवास्ति न तु लकारप्रयोज्यालकारस्याऽऽश्रयतासंबन्धावच्छिन्न कर्तृत्वप्रकारतामात्रप्रयोजकत्वात् अर्थादाख्यातेनाश्रयता संवन्धेन कर्तृत्वं कर्तरि विशेषणतया बोध्यते न तु धात्वर्थव्यापारे. तृतीययैव व्यापारे कर्तृत्वं विशे* षणतया बोध्यते इति लकारस्य तद्विषयत्वाप्रयोजकत्वालूलकारेण कर्तृत्वानभिधानं प्राप्तमिति न तृतीयानुपपत्तिरित्याशङ्क्याह- नापीति । परिहारमाह- पचतीति । यद्यपि ' चैत्रः पचति इत्यत्र चैत्रपदसमभिव्याहारात् चैत्रे कृतिः प्रकारतया भासते ' पाकानुकूलकृतिमांश्चैत्रः ' इति - बोधोदयादित्यत्र कर्तृत्वप्रकारताविषयक बोधजनकत्वरूपं कर्तृत्वप्रकारताप्रयोजकत्वमाख्यातस्यास्ति तथापि ' चैत्रः पचति ' इतिवाक्यस्य यदवान्तरवाक्यम् ' पचति ' इति वाक्यं तज्जन्यबोधे तु कृतिः प्रकारतया न भासते कृत्याश्रयीभूत कर्तुरनुपस्थितत्वात् ' पाकानुकूला कृतिः ' इत्येतावन्मात्रबोधोदयादित्येतादृशबोधाऽसंग्रहप्रसङ्गात् : कर्तृत्वप्रकारतैवाख्यातेन बोध्यते इति नः स्वीकर्तुं शक्यते, किं त्वेतादृशी = माश्रयत्व संबन्धावच्छिन्ना कर्तृत्वप्रकारता तु प्रथमान्तपदसमभिव्याहारज्ञानेन वा कर्तृत्वप्रकारताविषयक योग्यताज्ञानेन वा बोध्यते इत्येव युक्तं तथा चोक्तधात्वर्थविशेषणीभूता कर्तृत्वविषयतापि लकारप्रयोज्यैवेति ' चैत्रेण पच्यते ' इत्यत्र कर्तृत्वानभिधानाभावात् तृतीयानुपपत्तिस्तदवस्थैवेत्यर्थः । प्रकारताया इति वाक्यस्य प्रकारताया आख्यातजन्य तावच्छेदकत्वस्यैवासंभवात् ' इत्यन्वयः । जन्यतायामुक्तप्रकारताया अवच्छेदकत्वात् ” इत्यस्य उक्तप्रकारताया योग्यताज्ञानादिजन्यतावच्छेदकत्वात् ' इत्यर्थः ।
८
፡፡
1
"Aho Shrutgyanam"