________________
कर्तृत्वानभिधानपदार्थविचारः 1 व्युत्पत्तिवादः ।
( ५५५ )
यदि च प्रथमान्तपदसमभिव्याहृताख्यातपदजन्यतावच्छेदकतयैव धर्मिवेिषयतानिरूपितकर्तृत्वविषयताया आख्यातप्रयोज्यत्वं कर्तृत्वविषयतासामान्यं च नाख्यात पदज्ञान सामान्यजन्यतावच्छेदकं तादृशसामान्यकार्यकारणभावे मानाभावादित्युच्यते ?, तदापि ' चैत्रेण पच्यते तण्डुलः ' इत्यादिवाक्यार्थबोधस्य परस्परसमभिव्याहृतपदसमूहरूपवाक्यज्ञानहेतुकतया तद्वाक्यार्थविषयतान्तःपातिकर्तृत्वविषयताया वाक्यघटकाख्यातप्रयोज्यत्वं दुर्वारमेवेति ।
मैवम् - " अनभिहिते कर्तरि तृतीया " इत्यस्य ' कर्तृत्वविशेष्यतया प्रातिपदिकार्थेऽविवक्षिते सति तृतीया ' इत्यर्थः ' प्रातिपदिकार्थविशेषणतयैव कर्तृत्वेऽविवक्षिते इतियावत्, अवधारणतया च ' प्रातिपदिकार्थविशेष्यतया कर्तृत्वे विवक्षिते तदुत्तरं तृतीया ' इतिपर्यवसितम् ।
ननु न कर्तृत्वविषयतामात्रमाख्यातमात्रप्रयोज्यं भवति येन ' चैत्रेण पच्यते इत्यत्र धात्व. र्थविशेषणीभूताया अपि कर्तृत्वविषयताया: आख्यातप्रयोज्यत्वापत्त्या तृतीयाऽनुपपत्तिः स्यात् किंतु कर्तृभूतो यश्चेत्रादिरूपो धर्मी तन्निष्ठविषयता ( विशेष्यता ) निरूपिता या कर्तृत्ववि - यता ( कृतिनिष्ठा प्रकारता ) तस्या एव प्रथमान्तपदसमभिव्याहृताख्यातप्रयोज्यत्वमस्तीत्येतादृशविशेषरूप एक कार्यकारणभाव: स्वीक्रियते, कर्तृत्वविषयतासामान्यमाख्यातपदज्ञानसामान्यप्रयोज्यमिति सामान्यकार्यकारणभावे मानाभावात् तथा च प्रयोजकीभूताख्याते प्रथमान्तपदसमभिव्याहृतत्वमपेक्ष्यते प्रयोज्यभूतकर्तृत्वविषयतायां च प्रथमान्तपदसमभिव्याहृताख्यातपदजन्यतावच्छेदकत्वम् ( बोध्यत्वम् ) धर्मिविषयतानिरूपितत्वं चापेक्ष्यते ' चैत्रेण पच्यते ' इत्यत्र च प्रथमान्तपदाभावेन प्रथमान्तपदसमभिव्याहृतमाख्यातमेव नास्ति यस्य कर्तृत्वविषयताप्रयोजकत्वं स्यात्तेन च कर्तृत्वाभिधानप्राप्त्या : तृतीयानुपपत्तिः स्यादित्याशङ्कयाह- यदीति । उत्तरमाह— तदापीति, ' चैत्रेण पच्यते तण्डुलः ' इत्येतद्वाक्यजन्यो बोध एतद्वाक्येनैव जन्यते एतद्वाक्यं चैतद्वाक्यघटकपद समूहरूपमेवेति वाक्ये आख्यातपदमपि वर्तते एतद्वाक्यजन्यबोधे च कर्तृत्वविषयतापि भासते एवेति एतद्वाक्यस्यैतद्वाक्यार्थ प्रयोजकत्वे एतद्वाक्यघटकाख्यातस्यैतद्वाक्यार्थघटक कर्तृत्वविषयताप्रयोजकत्वं प्राप्तमेवेति तृतीयानुपपत्तिस्तदवस्थैव- तृतीयाप्रयोजकस्य कर्तृत्वविषयत्वाप्रयोजकत्वरूपस्य कर्तृत्वानभिधायकत्वस्य लकारे प्राप्त्यभावादित्यर्थः ।
८
" अनभिहिते कर्तरि तृतीया " इत्यत्राऽनभिहितपदस्य उक्ताऽवाचकत्वाद्यर्थकत्वे उक्तानु-पपत्तीनां सत्त्वान्न तथा व्याख्या कर्तव्या किं तु प्रदर्श्यमानरीत्यत्रोक्तवचनव्याख्या कर्तव्येत्य-. भिप्रायेणाह - मैवमिति, ' चैत्रेण पच्यते ' इत्यत्र ' चैत्रवृत्तिकृतिजन्यो व्यापारः ' इति वा चैत्रवृत्तिकृतिजन्यपाकजन्य विक्लित्त्याश्रयस्तण्डुलः ' इति वा बोधोदयात् कृतेः = कर्तृत्वस्य प्रातिपदिकार्थे चैत्रे विशेषणत्वं नास्ति - व्यापारे विशेषणत्वात् प्रातिपदिकार्थस्य च कृतिवि
7
"Aho Shrutgyanam"