________________
(५५६)
सादर्श:
[ आख्यातप्रकरणेअत्रैवम् 'चैत्रः पवति ' इत्यादावाख्यातेन कर्तृत्वबोधनात् “ उक्तार्थानामप्रयोगः” इतिन्यायात् तृतीयापत्तिविरहात् “प्रातिपदिकार्थान्वयितया कर्तृत्वविवक्षायाम् ' इत्येव सम्यक् किं विशेष्यतयाऽन्वयित्वपर्यन्तनिवेशनेनेति " अनभिहिते " इत्यनुवृत्तिरफला-तावत्पर्यन्तलाभस्यैव तदनुवृत्तिफलत्वादिति नाशङ्कथम्, 'संख्यातिरिक्तसुवर्थस्य प्रकृत्यर्थविशेष्यतयैवान्वयः । इतिव्युत्पत्तिसूचकत्वेन विशेष्यतयान्वयित्वपर्यन्तस्थावश्यं विवक्षणीयत्वात् । यथाश्रुतसू. त्रार्थानुरोधेन कर्तरि लकारतृतीयाविभक्त्योः शक्तिवादिभिर्वयाकरणैरपि 'प्रातिपदिकार्थविशेष्यतया कर्तरि विवक्षिते तृतीया' इत्येव सूत्रार्थो वाच्या, अन्यथा शेष्यत्वं नास्ति किं तु कृतेरेव प्रातिपदिकार्थविशेष्यत्वमस्ति चैत्रस्य कृतौ विशेषणत्वादित्यत्र चैत्रपदात् तृतीया प्राप्तेत्यर्थः । अवधारणतया=" प्रातिपदिकार्थविशेषणतयैव " इत्यत्रत्यैवकारार्थेन नियमेन । कर्तृत्वस्य प्रातिपदिकार्थविशेषणत्वेनाऽविवक्षानियमे उक्ते सति प्रातिपदिकार्थविशेष्यत्वेन विवक्षा प्राप्तवेत्यर्थः । तदुत्तरम्-कर्तृवाचकपदोत्तरम् । _ ननु " प्रातिपदिकार्थविशेष्यतया कर्तृत्वे विवक्षिते कर्तृपदोत्तरं तृतीया " इत्येवं विशेष्यतयाऽन्ययित्वपर्थन्तनिवेशो व्यर्थ एव गौरवग्रस्तो वेति तस्य स्थाने " प्रातिपदिकार्थान्ययितया कर्तृत्वविवक्षायां तृतीया " इत्येव वक्तव्यं तथा च ' चैत्रेण पच्यते । इत्यत्र प्रातिपदिकार्थभूतचैत्रस्य कर्तृत्वे कृतावन्वयस्य सत्त्वेन कृतेः प्रातिपदिकार्थान्वयितया विवक्षितत्यात् चैत्रपदातृतीया प्राप्नोत्येव-चैत्रवृत्तिकृतिजन्यो व्यापार इति बोधोदयात, यद्यपि ' चैत्रः पचति । इत्यत्रापि 'पाकानुकूलकृतिमांश्चैत्रः । इतिबोधोदयात् कृतेः प्रातिपदिकार्थे चैत्रे विशेषणतयान्वयित्वात्ततीयापत्तिरस्ति तथापि “उक्तार्थानामप्रयोगः " इतिनियमोस्ति - चैत्रः पचति । इत्यत्र चाख्यातं . कर्तृत्वबोधकमस्त्येवेति कर्तृत्वबोधिकायास्तृतीयाया आपत्तिर्नास्त्येवेति सर्व सुस्थम्, एवं च " अनभिहिते कर्तरि " इत्यत्र “अनमिहिते " इत्यस्यानुवृत्तिरपि न कर्तव्या- तावत्पर्यन्तलाभस्य विशेष्यतयान्वयित्वपर्यन्तलाभस्यैव तदनुवृत्तिफलत्वात्=" अनभिहिते " इत्यनुवृत्तिफलत्वात, विशेष्यतयान्वयित्वपर्यन्तनिवेशस्य च त्यक्तत्वादित्याशयेनाशङ्कते- अत्रैवमित्यादिना, नाशयमित्यन्तम् । उत्तरमाह- संख्यातिरिक्तेति, “प्रातिपदिकार्थविशेष्यतया कर्तृत्वे विवक्षिते तृतीया " इत्युक्ते 'चैत्रेण पच्यते' इत्यादौ तृतीयार्थकर्तृत्वस्य प्रातिपदिकार्थभूतप्रकृत्यर्थविशेष्यत्वं प्राप्तं तेन च " संख्यातिरिक्तसुबर्थस्य प्रकृत्यर्थविशेध्यतयैवान्वयो भवति " इति व्युत्पत्तेः समर्थनं भवति, त्वदुक्तेन " प्रातिपदिकार्थान्वयितया कर्तृत्वविवक्षायां तृतीया " इत्यनेनोक्तव्युत्पत्तिसमर्थनं न संभवति- प्रातिपदिकविशेषणस्यापि प्रातिपदिकार्थान्वयित्वाऽक्षतरित्यर्थः । यथाश्रुतेति- सूत्रे “ कर्तरि " इतिपदमस्तीति कर्तृत्वविशिष्टे कर्तर्येव लकारस्य तृतीयायाश्च शक्तिर्न तु कर्तृत्वे इतिवैयाकरणमतम् । प्रातिपदिकार्थविशेष्यतयेति- यथा 'नीलो घटः' इत्यत्र नीलपदार्थस्य घटपदार्थस्य चाभेदेपि नीलत्वघटत्व
"Aho Shrutgyanam"