________________
कर्तृत्वानभिधानविचारः ] व्युत्पत्तिवादः।
(५५७) 'चैत्रेण पच्यते । इत्यादौ कर्तुरनभिधानस्योक्तक्रमेण कर्तृत्वानभिधानवद् दुर्वचत्वापत्तरित्यलमधिकेन । ___ अथ " अनभिहिते कर्तरि तृतीया " इत्यस्योक्तार्थकत्वे चैत्रादिकर्तृकत्वविशेषितपाकादिविवक्षया ' चैत्रेण पचति' इत्यादिप्रयोगापत्तिः, न च परस्मैपदार्थकर्तृत्वान्वयिविशेष्यविरहान तथाप्रयोगः-विशेष्यतयापि कर्तृत्वबोधसंभवात् । चैत्रमैत्रोभयकर्तृकपाकस्थले चैत्रकर्तृकपाककर्ता मैत्र इत्यन्वयतात्पर्येण 'चैत्रेण पचति मैत्रः' इतिप्रयोगस्य दुर्वारत्वाच्च ।।
न च कर्तृत्वातिरिक्त विशेषणतापनायां कर्तृत्वे वा विशेषणातानापन्नायामेव योर्धमयोर्भेदात् नीलत्वावच्छिन्ना प्रकारता भवति घटत्वावच्छिन्ना च विशेष्यता भवति तथा ' चैत्रेण पच्यते ' इत्यादावपि प्रातिपदिकार्थस्य कर्तुश्चाभेदेपि चैत्रत्वकर्तृत्वयोधर्मयोभेदात् चैत्रत्वावच्छिन्नाप्रकारता कर्तृत्वावच्छिन्ना च विशेष्यता ज्ञेया तथा च ' चैत्रत्वाद्यवच्छिन्नप्रकारतानिरूपितकर्तृत्वावच्छिन्नविशेष्यतायां विवक्षितायां तृतीया' इत्येवं वैयाकरणः " अनमिहिते कर्तरि ". इतिसूत्रस्यार्थो वक्तव्य इत्यर्थः । विपक्ष बाधकमाह- अन्यथेति, अन्यथा यथोक्तरीत्या कर्तृत्वानभिधानं दुर्वचमेवेति प्रदर्शितं तथा कऽनभिधानमपि ताभिरेव. शङ्काभिर्दुर्वचमेव स्यादित्यर्थः ।
ननु " अनभिहिते कतार " इत्यस्योक्तार्थकत्वे= " प्रातिपदिकार्थविशेष्यत्वेन कर्तृत्वविवक्षायां तृतीया " इत्यर्थस्वीकारेपि विवक्षायाः स्वाधीनत्वेन 'चैत्रः पचति' इत्यत्रापि कर्तृत्वस्य चैत्रविशेष्यतया विवक्षासंभवात् प्रातिपदिकार्थचैत्रविशेष्यभूतकर्तृत्वस्य पाके विशेषणत्वविवक्षासंभ. वाच्च चैत्रेण पचति' इतिप्रयोगापत्तिः स्यादित्याशङ्कते-अथेति । ननु पचते' इतिपरस्मैपदस्यार्थभूतं यत्कर्तृत्वं तादृशकर्तृत्वस्य विशेष्यतयान्वयी प्रथमान्तपदार्थ एव भवति 'चैत्रेण पचति' इत्यत्र च परस्मैपदार्थकर्तृत्वस्य विशेष्यभूतश्चैत्रादिः प्रथमान्तपदार्थो नास्त्येवेति तदभावादेव · चैत्रेण पचति । इतिप्रयोगापत्तिर्नास्तीत्याशङ्क्याह- न चेति । उत्तरमाह- विशेष्यतयेति, परस्मैपदार्थकर्तृत्वस्य विशेषणतयैव बोधो भवतीत्यत्र श्रुत्यभावात् 'पाकानुकूला चैत्रसमवेता कृतिः' इत्येवं विशेष्यतयापि बोधसंभवात् 'चैत्रेण पचति' इतिप्रयोगापत्तिस्तदवस्थैवेत्यर्थः । “ प्रातिपदिकार्थविशेष्यतया कर्तृत्वे विवक्षिते तृतीया " इत्युक्तसूत्रार्थस्वीकारे दोषान्तरमाह- चैत्रमैत्रेति, यत्र चैत्रमैत्राभ्यां पाकः क्रियते तत्र तादृशपाके उभयकर्तृकत्वमस्त्येवेति चैत्रसमवेतकर्तृत्वस्य पाके विशेषणतयाऽन्वयविवक्षासंभवात् तादृशपाककर्तृत्वेन च मैत्रविवक्षासंभवात् 'चैत्रकर्तृकपाककर्ता मैत्रः =चैत्रकर्तृकपाकानुकूलकृतिमान्मैत्रः इत्यन्वयतात्पर्येण ‘चत्रेण पचति मैत्रः ' इतिप्रयोगापतिः स्यादेव न चैतदिष्टमित्यर्थः । ___ आशङ्कते- न चेति, तथा च ' चैत्रेण पच्यते तण्डुलः ' इत्यत्र “ चैत्रवृत्तिकृतिजन्यव्यापारजन्यविक्लित्त्याश्रयस्तण्डुलः । इतिबोधोदयात् चैत्रः कृतौ कृतिश्च व्यापारे व्यापारश्च.
"Aho Shrutgyanam"