________________
( ५५८ )
सादर्श:
[ आख्यातप्रकरणे
क्रियायां तृतीयार्यकर्तृत्वान्वयो व्युत्पन्न इतिवाच्यम्, 'चैत्रेण पाचयति मैत्रः ' इत्यादौ व्यर्थकर्तृत्वविशेषणतापन्ने पाकादौ चैत्रादिकर्तृकत्वान्वयेन तादृशव्युत्वत्तेरसिद्धेः । न च लकारार्थकर्तृत्वविशेषणतानापन्नक्रियाविशेषणतया कर्तृत्वबोधकत्वं सुपां व्युत्पन्नमिति न कश्चिद्दोष इति वाच्यम् उक्तस्थले 'चैत्रेण पकवान् मैत्रः' इतिप्रयोगापत्तेः ।
,
"
८
विक्तित्तौ विक्लित्तिश्च तण्डुले विशेषणमस्तीत्यत्र कर्तृत्वातिरिक्तभूतायां विक्त्तिौ विशेषणतापन्नायां क्रियायां तृतीयार्थकर्तृत्वस्यान्वयोस्ति किं वात्र क्रियाया विकित्तौ विशेषणत्वेन कर्तृत्वे विशेषणत्वं नास्तीति कर्तृत्वे विशेषणतानापन्नायामेव : क्रियायां तृतीयार्थ कर्तृत्वस्यान्वयोस्तीत्यत्र तृतीया उपपद्यते ' चैत्रेण पचति मैत्रः इत्यत्र च ' चैत्रकर्तृकपाककर्ता मैत्र: ' इत्यन्त्रयतात्पर्ये ' चैत्रकर्तृकपाकानुकूलकृतिमान् मैत्र:' इतिबोधसंभवात् क्रियाया: कर्तृत्वे विशेबगत्वं प्राप्तमिति तादृश्यां कर्तृत्वविशेषणतापन्नक्रियायां तृतीयार्थ कर्तृत्वस्यान्वयो न संभवतीति न ' चैत्रेण पचति मैत्र: ' इति 'चैत्रेण पचति ' इति वा प्रयोगापत्तिरित्यर्थः । उत्तरमाहचैत्रेणेति, ' चैत्रेण पाचयति मैत्र: ' इत्यत्र ' चैत्रवृत्तिकृतिजन्यो यः पाकस्तादृशपाकानुकूलकृतिमान् मैत्रः ' इतिबोधोदयात् मैत्रवृत्ति यद् व्यर्थभूतं कर्तृत्वं तत्र विशेषणतापन्नायामेव पाकक्रियायां चैत्रवृत्तितृतीयार्थभूत कर्तृत्वस्यान्वयोस्त्येवेत्युक्तव्युत्पत्तिर्न स्वीकर्तुं शक्यते तथा 'च' चैत्रेण पचति मैत्र: ' इतिप्रयोगापत्तिस्तदवस्थैवेत्यर्थः । ननु लकारार्थभूतं यत् कर्तृत्वं तादृशकर्तृत्वे विशेषणतानापन्ना या क्रिया तद्विशेषणतया सुपां कर्तृत्वबोधकत्वं स्वीक्रियते लकारार्थकर्तृत्वविशेषणतानापन्न क्रियायां तृतीयार्थ कर्तृत्वान्त्रयो व्युत्पन्न इति यावत् तथा ' चैत्रेण पाचयति मैत्रः ' इत्यत्र हि प्यर्थकर्तृत्व विशेषणतापन्नायां पाकक्रियायां चैत्रवृत्तितृतीयार्थकर्तृत्वस्यान्वयोस्ति न तु लकारार्थ कर्तृत्व विशेषणतापन्नायां पाकक्रियायामित्यत्र युक्तंत्र तृतीया, ' चैत्रेण पचति मैत्र: ' इत्यत्र तु चैत्रवृत्तिकृतिजन्यपाकानुकूलकृतिमान् मैत्रः ' इति बोधोदयात् मैत्रवृत्ति यलकारार्थभूतं कर्तृत्वं तत्र विशेषणतापन्नायामेव पाकक्रियायां चैत्रवृत्तितृतीयार्थकर्तृत्वस्यान्वयो वक्तव्यः स तु न संभवतीति नात्र चैत्रपदात् तृतीयापत्तिः न घा ' चैत्रेण पचति मैत्र: ' इतिप्रयोगापत्तिश्चः, एवम् " चैत्रेण पचति ' इत्यत्रापि ' चैत्रसमवेता पाकानुकूला कृति ' इत्येवं कृतिविशेष्यकबोधस्वीकारेपि तत्र कृतिः = कर्तृत्वं लकारार्थ एव तादृशलकारार्थकृतौ विशेषणतापन्नायामेत्र पाकक्रियायां चैत्रवृत्तितृतीयार्थ कर्तृत्वस्यान्वयो चक्कत्र्यः स तु न संभवतीति न ' चैत्रेण पचति ' इतिप्रयोगापत्तिरपीत्याशङ्क्याह- न चेति । उत्तरमाह - उक्तस्थले इति, एवमप्युक्तस्थले = चैत्रमैत्रोभयकर्तृकपाकस्थले ' चैत्रेण पक्क्वान् मैत्र: ' इति प्रयोगः स्यादेव - अत्र मैत्रवृत्ति यत् कर्तृत्वं तलाकरार्थभूतं नास्ति कृदर्थत्वादिति लकारार्थ कर्तृत्व विशेषणतानापन्नायामेव पाकक्रियायां चैत्रवृत्तितृतीयार्थ कर्तृत्वस्यान्चयसंभवादिव्यर्थः, न चायं प्रयोग इष्ट:- उक्तस्थले ' चैत्रमैत्रौ पक्कवन्तौ ' इति प्रयोगस्येष्टत्वादिति भावः ।
" Aho Shrutgyanam"