________________
तृतीयार्थकर्तृत्वान्वयविचारः] व्युत्पत्तिबादः ।
मैवम्- आश्रयातिरिक्ताविशेषणतापनकर्तृत्वविशेषणतानापन्नक्रियायामेव विशेषणतया कर्तत्वं ततीयया बोध्यते इति नियमः चैत्रेण पाचयति' इत्यादौ कर्तृत्वनिर्वाहकव्यापारो णिजर्थस्तत्राश्रयातिरिक्त व्यापारे विशेषणं कर्तृत्वमिति तद्विशेषणतापन्न क्रियायां तृतीयार्थकर्तृत्वविशेषणत्वे न किंचिद् बाधकम् । 'चैत्रेण पचति मैत्रः' इत्यादयश्च न प्रयोगा:- तत्राश्रये एव कृतेर्विशेषणतया तद्विशेषणतापन्नक्रियायां तृतीयया कर्तृत्वबोधनाऽसंभवात् । कृतिविशेष्यकबोधाभिप्रायेण 'चैत्रेण पचति ' इतिवारणायाऽऽश्रयविशेषणत्वमुपेक्ष्याऽऽश्रयातिरिक्ताविशेषणत्वं निवेशितम् । “अनभिहिते कर्तरि तृतीया " इत्यस्यापि
निरुक्तक्रियाविशेषणतया प्रातिपदिकार्थान्वयिकर्तृत्वविवक्षायां तदुत्तरं तृतीया भवति' इत्येवार्थ इतिदिक ।
अथेत्यादिना शङ्कितं परिहरन् समाधत्ते- मैवमित्यादिना, आश्रयातिरिक्ताऽविशेषणतापन्नं यत् कर्तृत्वं तादृशकर्तृत्वविशेषणतानापन्न क्रियायां तृतीयार्थकर्तृत्वस्यान्वयो भवतीति नियमः, 'चैत्रेग पाचयति मैत्रः । इत्यत्राश्रयातिरिक्त व्यापारे विशेषणं कर्तृत्वं न त्वाश्रयातिरिक्ताऽधिशेषणतापन्नमिति चैत्रवृत्तिकृतिजन्यो यः पाक इत्येवं व्यापारविशेषणतापन्नं यत्कर्तृत्वं तादृशकर्तृत्वविशेषगतापनपाकक्रियायां चैत्रवृत्तितृतीयार्थकर्तृत्वस्य विशेषणतयान्वयेपि नोक्तनियमव्यभिचार इत्यर्थः । ' चैत्रेण पचति मैत्रः । इतिप्रयोगापत्त्य संभवमाह- चैत्रेणेति, अत्र मैत्रबृत्तिकर्तृत्वं तिबेर्थाश्रये विशेषणमेव- आश्रयविशेषणतापनकर्तृत्वे विशेषणतापन्नक्रियायां च तृतीयार्थकर्तृत्वस्यान्वयो न व्युत्पन्न इति ' चैत्रेण पचति मैत्रः । इतिप्रयोगापत्तिर्नास्तीत्यर्थः । अत्र चैत्रवृत्तिकृतिजन्यव्यापारानुकूलकृतिमान् मैत्रः' इत्यन्वयबोधविवक्षया पाकस्याश्रयविशेषणतापन्नकर्तृत्वे विशेषणत्वमस्ति । विशेषणतापन्नतादृशपाके एव तृतीयार्थकर्तृवस्यान्वयो वक्तव्यः स च न संभवति- उक्तनियमविरोधादिति भावः । कृतिविशेष्यकबोधाभिप्रायेणापि ' चैत्रेण पचति ' इतिप्रयोगापत्त्य संभवमाह- कृतिविशेष्यकेति, 'आश्रयविशेषणतापन्नकर्तृत्वे विशेषगतानापन्नक्रियायामेव तृतीयार्थकर्तृत्वस्यान्वयो भवति । इत्येवं नियमस्वीकारे 'चैत्रेण पचति । इत्यत्र ' कृतिमचैत्रवृत्तिकृतिजन्यपाकानुकूला कृतिः' इत्येवं कृतिविशेष्यकबोधस्वीकारे आश्रयविशेषणतापन्नं यत्कर्तृत्वं तादृशकतृत्वेऽत्र विशेषणताऽनापन्नैव पाकक्रियास्तीति तादृशपाकक्रियायां चैत्रवृत्तितृतीयार्थकर्तृत्वस्यान्वयः कर्तव्योस्तीत्युक्तनियमेनात्र तृतीयापत्त्या ' चैत्रेण पचति ' इति :प्रयोगः स्यादेव यदाः च 'आश्रयातिरिक्ताऽविशेषणतापन्नकर्तृत्वे विशेषणतानापन्नक्रियायां तृतीयार्थकर्तृत्वस्यान्त्रयो भवति' इत्युच्यते तदा तूक्तकृतिविशेष्यकबोधस्वीकारेपि कर्तृत्वस्याश्रयातिरिक्ते पाकव्यापारे विशेषणत्वादेवात्राऽऽश्रयातिरिक्ताऽविशेषणतापन्नत्वं नास्तीति व्यापारविशेषणतापनकर्तृत्वे विशेषणतानापन्नक्रियायामपि तृतीयार्थकर्तृत्वान्वयस्य नियमविरुद्धत्वात् तृतीयापत्तिस्तथा ' चैत्रेण पचति । इतिप्रयोगापत्तिश्च नास्त्ये
"Aho Shrutgyanam"