________________
१६६०
आख्यातप्रकारणे
कर्तृत्वं व ' चैत्रः पचति ' इत्यादी क्रियानुकूला कृतिरेव तस्याश्चानुकूलकृतित्वेन कृतित्वमात्रेण वाऽऽख्यातवाच्यता । 'रथो गच्छति । 'काष्ठं पचति' इत्यादौ च क्रियानुकूलव्यापाररूपे कर्तृत्वे निरूढलक्षणा । कृतित्वजातेः प्रवृतिनिमित्तत्वे लाघवात् ।
मीमांसकास्तु- व्यापारत्वेनैव शक्तिः- “पचति' इत्यादावपि तेनैव रूपेण बोधोपगमात् ।. एवं चाऽचेतनेपि प्रयोगो मुख्य एव । कृतित्वस्य लाघवं चाकिंचित्करम् । यत्र लघुगुरुरूपाभ्यां बोधो निर्विवादस्तत्रैव लघुरूपावच्छिन्ने शतयुपगमात् , प्रकृते च कृतित्वेन बोधस्य सविवादत्वात् । तथापि तदवच्छिन्ने वेत्यर्थः । उक्तनियमानुकूल्येनोक्तसूत्रस्याप्यर्थमाह-अनभिहिते इति । निरुक्तक्रियाविशेषणतयेति'आश्रयातिरिक्ताविशेषणतापन्नकर्तृत्वे विशेषणतानापन्नक्रियायो विशेषणतया प्रातिपदिकार्थान्वयि (वृत्ति ) कर्तृत्वस्य विवक्षायां चैत्रादिपदोत्तरं तृतीया भवति । इत्यन्वयः सूत्रार्थश्च ज्ञेयः । ' चैत्रेण पच्यते ' इत्यत्र ' चैत्रवृत्तिकृतिजन्यः पाकव्यापारः । इतिबोधोदयात् आश्रयातिरिक्ते व्यापारादावऽविशेषणतापन्ने कर्तृत्वे विशेषणतानापनत्वं पाकक्रियायामस्त्येव तत्रैव च तृतीयार्थ. कर्तृत्वस्यान्वयः कर्तव्योस्तीति न तृतीयानुपपत्तिः ।
कर्तृत्वस्वरूपमाह- कर्तृत्वमिति, · चैत्रः पचति । इत्यादौ क्रियानुकूला कृतिरेव कर्तृत्वं ज्ञेयं तस्याः क्रियानुकूलकृतेश्चानुकूलकृतित्वेन केवल कृतित्वेन वा रूपेणाख्यातवाच्यता, तत्र केवलकृतित्वस्याख्यातवाच्यतेऽनुकूलतासंबन्धेन तत्र कृतौ पाकाद्यन्वयः, अनुकूलकृतित्वेनाख्यातवाच्यतापक्षे च जनकतासंबन्धेन विशेष्यतासंबन्धेन वा कृतौ पाकाद्यन्वयः, 'पाकानुकूलकृतिमांश्चैत्रः । इति बोधः । रथाद्यचेतनपदार्थेषु यत्नरूपकर्तृत्वस्यासंभवात् ' रथो गच्छति' इत्यादौ गमनाद्यनुकूलव्यापाररूपे कर्तृत्वे आख्यातस्य निरूढलक्षणा रथादौ व्यापाररूपकर्त. त्वसत्त्वे बाधकामावात् , कृतावाख्यातस्य शक्तेर्लक्षणायाश्च स्वीकारे कृतित्वजातेरेकायाः प्रवृत्तिनिमित्तत्वसंभवाल्लाघवमस्ति, कृतिविशिष्ट शक्तिस्वीकारे नाना कृतिव्यक्तीनां प्रवृत्तिनिमित्तत्वापत्त्या गौरवं स्यादित्यन्वयः ।
मीमांसकमतमाह- मीमांसकास्त्वित्यादिना । व्यापारत्वेनेति- आख्यातस्य लकारस्य वा व्यापारत्वेन रूपेण व्यापारे शक्तिरित्यर्थः । 'पति' इत्यादावप्याख्यातात् तेनैव व्यापारत्वेनैव रूपेण बोधस्वीकारात् । अपि शब्दात् ‘पच्यते । इत्यादौ तु व्यापारत्वेन रूपेणाख्याताद्बोधस्योभयसंमतत्वमेवेति व्यज्यते । व्यापारे शक्तिस्वीकारे विशेषान्तरमाह- एवं चेति, — रथो गच्छति ' इत्यादिप्रयोगोपि मुख्य एव- अचेतनेपि रथादौ व्यापारस्य बाधाभावादित्यर्थः । नैयायिकेन कृतौ शक्तिस्वीकारे यल्लाधवमुक्तं तत्राह-- कृतित्वस्येति । ननु लघुरूपावच्छिन्ने एव शक्तिस्वीकार उचितः कृतित्वं च व्यापारत्वापेक्षया लघुरूपमित्याशङ्कयाह- यत्रेति। कम्युग्रीवादिमत्त्वापेक्षया घटत्वं लघुरूपमिति घटत्वावच्छिन्ने शक्तिः । प्रकृते=' पचति । इत्यादौ
"Aho Shrutgyanam"