________________
आख्यातार्थे मीमांसकादिमतम् ] व्युत्पत्तिवादः।
(५६१) शक्त्युपगमे तत्राऽमुख्यार्थेऽनादितात्पर्यकल्पनायां गौरवात् । एवम् ‘बीजादिनाऽङ्कुरः कृतः' इत्यादौ विनापि यत्नं कृत्रः प्रयोगात् तस्यापि व्यापारसामान्यार्थकता, अतः करोतिविवरणीयार्थकत्वोपे नाख्यातस्य यत्नत्वावच्छिन्नवाचकता न वा' किं करोति ? ' 'पचति' इतिप्रश्नोत्तरयोः समानप्रकारकबोधजनकत्वानुरोधेन तथात्वम् ।
अत्र केचित — पचति । इतिवाक्यजन्यबोधे सति यत्नत्वावच्छिन्ने वर्तमानत्वसंशयानुदयात् तत्र यत्नत्वावच्छिन्ने वर्तमानत्वबोधकत्वसिद्धौ तदवच्छिन्ने शक्तिलाघवात् सिद्ध्यति. न हि यत्नाविनाभूतक्रियाविशेषलिङ्गकानुमानलभ्येन यत्त्वावच्छिन्नेन समं वर्तमानत्वान्वयबोधकत्वमाऽऽख्यातस्यार्थाध्याहारमतेपि संभवति- लडादिजन्यवर्तमानत्वान्वयबोधे लडादितत्समभिव्याहृतधात्वन्यतरकृतित्वेन बोधस्य सविवादत्वान्न कृतित्वावच्छिन्ने शक्तिस्वीकार उचित इत्यर्थः । विपक्षे बाधकमाह- तथापीति, कृतित्वेन बोधस्य सविवादलेपि तदवच्छिन्ने कृतित्वावच्छिन्ने शक्तिस्वीकारे रथो गच्छति' इत्यादावऽमुख्यार्थे व्यापारे निरूढलक्षणापत्त्या गौरवमित्यर्थः । यथाऽऽख्यातस्य व्यापारवाचकता तथा कृधातोरपि व्यापारवाचकत्वमेव न तु यत्नवाचकत्वमित्याह-एवमिति । तस्य कृतः । नैयायिकैः ‘पचति ' इत्यस्य 'पाकं करोति । इत्येवं विवरणात् करोतेश्च यत्नवाचकवात् करोतिना वित्रियमाणाख्यातस्यापि यत्नवाचकत्वं प्राप्तं यत्न एव च कृतिरित्युक्तं तत् परिहरनाह-अत इति, करोतेरेव यत्नवाचकत्वं नास्ति येन तेन वित्रियमाणाख्यातस्य यत्नवाचकत्वं स्थात्. किं तु करोतेरप्युक्तरीत्या व्यापारवाचकत्वात् तेन वित्रियमाणाख्यातस्यापि व्यापारवाचकत्वमेव प्राप्तमित्यर्थः । एवम् ‘किं करोति' इति प्रश्ने ' पचति । इत्युत्तरं दीयते प्रश्नोत्तरवाक्ययोश्च समानविषयकत्वनियमात् समानप्रकारकबोधजनकत्वमस्ति तथा च ' किं करोति । इत्यस्य कृतित्वप्रकारकबोधजनकत्वेन ' पचति ' इत्यत्राख्यातस्यापि कृतित्वप्रकारकबोधजनकत्वं प्राप्तमिति कृतावेव शक्तिरिति यदुक्तं नैयायिकैस्तत्परिहरन्नाह- न वेति । 'किं करोति ' इत्यस्य कृतित्वप्रकारकबोधजनकत्वमेव नास्ति किं तु व्यापारत्वप्रकारकबोधजनकत्वमेव तथा च तदुत्तरवाक्यस्य 'पचति' इत्यादेरपि व्यापारत्वप्रकारकबोधजनकत्वं न कृतित्वप्रकारकबोधजनकत्वमित्यर्थः । तथात्वम् यत्नार्थकत्वम् ।।
मीमांसकपराकर्तृमतविशेषमनुवदति-अत्रेति । सति जाते । तत्र= पचति ' इतिवाक्यजन्यबोधकाले । यत्नत्वावच्छिन्ने यत्ने-कृतौ । ननु यत्नं विना क्रिया न संभवतीति क्रियया यत्नानुमानं भवति तथा चानुमानेनाध्याहृते एव यत्ने लडर्थवर्तमानत्वस्वान्थयो भवतीत्याशङ्कयाह-न हीति । परिहारहेतुमाह- लडादीति, आख्यातार्थवर्तमानत्वान्वयं प्रति लडादिजन्या लडादिसमभिव्याहृतधातुजन्या वा या विशेष्यस्य यत्नस्योपस्थितिस्तस्याः कारणत्वमावश्यक तथा च ' पचति । इत्यत्र लडुपस्थितवर्तमानत्वस्य लडुपस्थितयत्नेऽन्वयः — करोति ।
"Aho Shrutgyanam"