________________
(५६२)
सादर्श:
[ भाख्यातप्रकरणेजन्यविशेष्योपस्थिते. कारणताया आवश्यकत्वात, अन्यथा निराकाङ्क्षयत्नादिपदमात्रादू यत्नामुपस्थितावपि तत्र वर्तमानत्वादेर्लडादितो बोधप्रसङ्गात् ।।
न चार्थाध्याहारवादिनाम् ' द्वारं पिधानं कृतिः' इत्यादितो द्वारकर्मककृतेरिव ' पवति यत्नः :' इत्यादितः 'पाकयत्लो वर्तमानः ' इत्याद्याकारको वर्तमानत्वादेर्वोध इष्ट एवेति वाच्यम्, परस्परसाकाङ्क्षपदार्थव्यान्वयबोध एवाऽध्याहृतस्येव निराकाङ्क्षपदादुपस्थितस्याऽर्थस्य विषयतायास्तैरुपगमात्, तत्रा. न्वयानुभावकसाकाङ्क्षपदसखात्, प्रकृते चान्वयबोधस्याऽकाङ्क्षानुपयोगिपदार्थदयविषयकत्वेन तेषामप्यसंमतत्वात् । तत्स्वीकारे निराकाङ्क्षस्याप्यनुभावकत्वस्वीकारापत्ते, शाब्दबोधे आकाक्षानुपयोगप्रसङ्गाच्चेति । तन्त्र-तत्र तात्पर्यलिङ्गेन यत्नत्वावच्छिन्ने वर्तमानत्वानुमितेरेवोपगमाद. ताशवर्तमानत्व. प्रतीतौ शाब्दत्वप्रतीतेः सविवादत्वादित्याहुः । इत्यत्र च लडुपस्थितवर्तमानत्वस्य धातूपस्थितयत्नेऽन्वयः संमवति न त्वऽध्याहृतयनेपि- " शाब्दी ह्याकाङ्क्षा शब्देनैव प्रपूर्यते " इतिनियमादित्यर्थः । विपक्षे बाधकमाह- अन्यथेति । ___ नन्वर्थाध्याहारवादिनाम् ‘पचति यत्नः ' इत्यादौ निराकाङ्क्षयत्नादिपदोपस्थितयत्नादावल्याख्यातार्थवर्तमानत्वस्य 'पाकयत्नो वर्तमानः ' इत्येवमन्वय इष्ट एवेत्याशझ्याह- न चेति । परिहारहेतुमाह- परस्परेति, अध्याहृतार्थस्य परस्परसाकाङ्क्षपदार्थद्वयान्वयबोधे एव यथा शाब्दबोधविषयता तैः मीमांसकैः स्वीक्रियते सथा तैनिराकाङ्क्षपदादुपस्थितस्यार्थस्यापि या विषयता स्वीक्रियते सा परस्परसाकाङ्क्षपदार्थद्वयान्वयबोधे एव स्वीक्रियते यथा ' द्वारम् । इत्युक्तेऽध्याहृतपिधानपदार्थस्य, न तु परस्परनिराकाङ्क्षपदार्थान्वयबोधेपि तथा च ' पचति । इत्यादावुक्तरीत्याऽध्याहृतयत्ने नाख्यातार्थवर्तमानत्वान्वयः संभवतीत्यर्थः । तत्रेति- तत्र= द्वार पिधानं कृतिः । इत्यत्राऽन्वयानुभावकसाकाङ्क्षपदस्य-शाब्दबोधजनकसाकाङ्क्षपदस्य सत्त्वात् द्वारकर्मककृतेर्बोध इष्टः प्रकृते= पचति यत्नः । इत्यत्र चान्वयबोध आकाङ्क्षानुपयोगिभूतं यत् 'पचति यत्नः' इतिपदद्वयं तदर्थविषयक एव वक्तव्यो न चाकाङ्क्षानुपयुक्तपदजन्यस्तदर्थ विषयकः शाब्दबोधस्तेषाम्=-मीमांसकानामपि संमत इति ‘पचति यत्नः' इत्यत्र जायमानान्वयबोधस्याकाङ्क्षानुपयोगिपदार्थद्वयविषयकत्वेन ( हेतुना ) असंमतत्वादित्यर्थः । विपक्षे बाधकमाह- तत्स्वीकारे इति, तत्स्वीकारे आकाङ्क्षानुपयोगिपदार्थद्वयविषयकशाब्दबोधस्वीकारे साकाङ्क्षस्यैव शाब्दबोधजनकत्वं भवतीति नियमभङ्गापत्त्या निराकाक्षपदस्याप्यनुभावकत्वं शाब्दबोधजनकत्वमापद्येत तेन च शाब्दबोधे आकाङ्क्षाया अनुपयोगः प्रसज्येत न चैतदिष्टं तस्मात् ' पचति । इत्यत्राध्याहृतयत्ने आख्यातार्थवर्तमानत्वान्वयासंभवादाख्यातस्य यत्नवाचकत्वमावश्यकमित्यर्थः । अथेत्यादिना शङ्कितं पारहरति- तन्नेति । यत्नकार्यभूतव्यापारस्य वर्तमानत्वेन तत्कारणीभूतयत्नस्यापि वर्तमानत्वमनुमीयते एव न तु शब्दाद्विज्ञायते इत्येव
"Aho Shrutgyanam"