________________
आख्यातार्थे नैयायिकमतम् ] व्युत्पत्तिवादः ।
अत्र नैयायिकाः- ' रथो गच्छति' इत्यादावाऽऽश्रयत्वमेवाख्याताओं न तु व्यापारः- अन्यदायगमनानुकूलनोदनादिलक्षणव्यापारवति 'गच्छति' इत्यप्रयोगाद । एवं च 'काष्ठं पचति' इत्यादिप्रयोग एव व्यापारशक्तिमाख्यातस्य साधयेद् यदि स्वारसिकः स्यात् तदेव न, न हि — चैत्रः पचति' इत्यादिप्रयोगेण 'काष्ठं पचति' इत्यादिप्रयोगस्याविशेषः । एवमचेतने स्वरसतः कर्तृपदाप्रयोगात् कृनापि यत्नत्वविशिष्टोर्थः । एवम् 'चैत्र एवं पचति पाककर्ता न त्वचेतन काष्ठादि' इत्यादिप्रयोगात् लकारस्य कृञश्च यत्नत्वविशिष्टार्थकताया आवश्यकत्वाल्लाघवात् तत्रैव शक्ति'. व्यापारे लक्षणेति ।
न च यत्नत्वस्याख्यातावाच्यनिवृत्तिजीवनयोनियत्नसाधारणतया लकारशक्यतावच्छेदकत्वाऽसंभव इति वाच्यम्, निवृत्त्यादियत्नस्याख्यातवाच्यतोस्वीक्रियते तादृश उक्तवर्तमानत्वप्रतीतिः शब्दादेव जायते इत्यस्य विवादग्रस्तत्वेन स्वीकर्तुमशक्यत्वात्. तथा च नाख्यातस्य कृमो वा यत्नवाचकत्वापत्तिः किं तु व्यापारसामान्यवाचकत्वमेव सिद्धमित्यर्थः । "शान्दत्वप्रतीतेः" इत्यत्र "शाब्दप्रतीतित्वस्या, इत्येवं पाठो युक्तः ।
नैयायिकमतमाह- अत्रेत्यादिना । ' रथो गच्छति । इत्यत्र व्यापारस्तु धात्वर्थ एवाश्रयत्वं चाख्यातार्थ इति 'गमनरूपन्यापाराश्रयो रथः । इति बोधो जायते । व्यापारस्याख्यातार्थस्वाभावे हेतुमाह- अन्येति, यदि व्यापार आख्यातार्थः स्यात् तदा 'गच्छति । इत्यनेन 'गमनानुकूलव्यापारवान् । इतिबोधोदयाद् अन्यदीयगमनानुकूलस्य नोदनस्यापि व्यापारत्वात् तद्वत्यपि 'गच्छति । इतिप्रयोगः स्थाद् न चैतदिष्टम्, आश्रयत्वस्याख्यातार्थत्वे तु गमनाश्रयस्ववत्येव ' गच्छति ' इतिप्रयोगः संभवति स चेष्ट एव न लूक्तनोदनादिव्यापारवत्यपीत्यर्थः । मीमांसकमतमाक्षिपति- एवं चेति । व्यापारशक्तिम् व्यापार शक्तिमित्यर्थः । स्वारसिका मुख्यः । उक्तस्वारसिकत्वाभावमेवाह- न हीति । अविशेष इति-' चैत्रः पचति । इति मुख्यः प्रयोगः-चैत्रे तिबर्थकृतेः सत्वात् ' काष्ठं पचति ' इति च गौणः प्रयोगः- काष्ठे कृतेरसंभवेनात्र तिपो व्यापारे लक्षणास्वीकारादित्यर्थः । उक्तमन्यत्रातिदिशति- एवमिति, अचेतने बीजादौ 'बीजेनाङ्करः कृतः । इत्येवम् । स्वरसतः मुख्यार्थतात्पर्येण । यत्नत्वविशिष्टःयत्नः । उपसंहरति- एवमिति । 'पचति ' इत्यनेन लकारस्य ' पाककर्ता' इत्यनेन च कृत्रो यत्नार्थकत्वं सिद्धम् । तत्र यत्ने ( कृतौ )। ननु यत्नो हि त्रिविधस्तदुक्तम्
" प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम् ।
एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिदर्शितम् ॥” इति । तथा च यत्नत्वमाख्याताऽवाच्यनिवृत्तिजीवनकारणयत्नयोरपि सत्त्वादतिप्रसक्तमेव, अतिप्रसक्तधर्मस्य चावच्छेदकत्वं न भवतीति कथं यत्नत्वस्य लकारशक्यतावच्छेदकत्वं स्यादित्याशद
"Aho Shrutgyanam"