________________
(५६४)
सादर्श:
[ आख्यातप्रकरणेपगमें क्षतिविहरात, निवृत्त्यादेः पाकानुकूलताविरहेण तत्काले 'पचति । इति प्रयोगापत्तिविरहात् । इष्टसाधनताज्ञानजन्यतावच्छेदकप्रवृत्तित्वजातेरेव वाख्यातपदप्रवृत्तिनिमित्तत्वमुपगम्यते, अत एवेश्वरकृतेर्जन्यमानजनकत्वेपि, 'ईश्वरः पचति' 'ईश्वरो भुङ्क्ते ' इत्यादयो न प्रयोगाः।।
न चैवम् — ईश्वरो वेदं वक्ति ' 'मथुरायां कृष्णो विहरति' इत्यादिप्रयोगानुपपत्तिः, अत्राख्यातस्य लक्ष्यार्थव्यापारबोधकतोपगमात् । ईश्वरकृतिसाधारणधर्मस्याऽऽख्यातप्रवृत्तिनिमित्तत्वेपि तत्र व्यापारलक्षणाया आवश्यकत्वाद, तथा हि-- ' आत्मा पचति ' 'शरीरं पचति ' इत्यादिस्वारसिकप्रयोगविरहादाऽऽख्यातार्थकृतेरुद्देश्यतावच्छेदकशरीरविशेषावच्छेदेन समवायेनाऽन्वयनियमः स्वीकरणीयः-- चैत्रादिपदस्य शरीरविशेषविशिष्टात्मपरतया ' चैत्रः पचति' इत्यादौ शरीरविशेषात्मकोद्देश्यतावच्छेदकावच्छेदेनात्मनि समवायेनान्वयसं. क्याह- न चेति । उत्तरमाह- निवृत्त्यादीति । ' न पचति । इत्यादौ निवृत्त्यनुकूल: 'जीवति ' इत्यादौ जीवनानुकूलोपि यत्नः प्रतीयते एवाख्यातेनेत्यर्थः । ननु यदि निवृत्त्यनुकूलोपि यत्न आख्यातार्थस्तदा पाकनिवृत्तिकाले 'पचति ' इति प्रयोगः कथं न स्यादित्याशब्याह- निवृत्त्यादेरिति । तत्काले-पाकनिवृत्तिकाले । पक्षान्तरमाह- इष्टति, इष्टसाधनताज्ञानेन प्रवृत्तिर्भवतीति प्रवृत्तरिष्टसाधनताज्ञानजन्यत्वादिष्टसाधनताज्ञानजन्यतावच्छेदकं जातिरूपं प्रवृत्तित्वमेव तदेवाख्यातपदप्रवृत्तिनिमित्तम्, प्रवृत्तावाख्यातस्य शक्तिरित्यर्थः । अत एव इष्टसाधनताज्ञानजन्यतावच्छेदकप्रवृत्तित्वस्यैवाख्यातपदप्रवृत्तिनिमित्तत्वादेव. यद्यपीश्वरकृतेः कार्यमानं प्रति कारणत्वं तथापि “ईश्वरः पचति' इत्यादयो न प्रयोगा:- ईश्वरकृतेनित्यत्वेनेष्टसाधनताज्ञानजन्यत्वाभावाद् आख्यातार्थत्वाऽसंभवात, इष्टसाधनताज्ञानजन्याया एव प्रवृत्तिरूपकृतेराख्यातार्थत्वस्वीकारादित्यर्थः ।
नन्येवम् “ईश्वरो वेदं वक्ति ' इत्यादिप्रयोगोपि न स्यात्तत्रापीश्वरकृतेनित्यत्वेनेष्टसाधनताज्ञानजन्यत्वामावेनाख्यातार्थत्वासंभवादित्याशक्याह- न चेति । उत्तरमाह- अत्रेति, ईश्वरव्यापारस्येष्टसाधनताज्ञानजन्यत्वादत्र चाख्यातस्य लक्षणया व्यापारमात्रबोधकत्वान्न प्रयोगानुपपत्तिरित्यर्थः । ननु ' ईश्वरो वेदं वक्ति' इत्यादावाख्यातस्य व्यापारे लक्षणास्वीकारापेक्षया परमेश्वरकृतिसाधारणस्य यत्नत्वधर्मस्येवाख्यातपदप्रवृत्तिनिमित्तत्वमुपगम्यतां तथा चोक्तस्थले आख्यातेन तादृशयत्नत्वाद्यवच्छिन्नस्य प्रतीतिसंभवाल्लक्षणापत्तिापारे न स्यादित्याशङ्कयाह-- ईश्वरेति । तत्र: ईश्वरो वेदं वक्ति' इत्यादौ । उक्तस्य व्यापारे लक्षणावश्यकत्वमुपपादयतितथा हीत्यादिना । —ात्मा पचति' इत्यादिमुख्यार्थतात्पर्येण प्रयोगो न भवतीत्याख्यातार्थकृतेरुद्देश्यतावच्छेदकीभूतशरीरविशेषावच्छेदेनात्मनि समवायसंबन्धेनान्वयो भवतीति स्वीकार्यम्, ' चैत्रः पचति । इत्यादौ चैत्रमुद्दिश्य पाकानुकूलकृतेर्विधानाच्छरीरविशेषावच्छिन्न एव चैत्रात्मोद्देश्य उद्देश्यतावच्छेदकं च शरीरमेवेत्यर्थः । उक्तस्वीकारे हेतुमाह- चैत्रादिपदस्येति,
"Aho Shrutgyanam"