________________
आख्यातार्थविचारः 1
व्युत्पत्तिवादः ।
( ५६५ )
भवात् । ' गौरः पचति ' इत्यादावपि गौरादिपदस्य गौरशरीराद्यवच्छिन्नात्मनि आख्यातस्यैव वा व्यापारे लक्षणोपगमात् । एवं चेश्वरकृतेः शरीरानवच्छिन्नत्वादुक्तस्थले कृतेस्तथान्वयासंभव इति व्यापारलक्षणाऽऽवश्यकी ।
ईश्वरकृतिसाधारणयत्नत्वावच्छिन्न एव वाख्यातार्थः, असाधारणानुकूलत्वं हि यत्ने क्रियायाः संबन्धतया भासते न त्वऽनुकूलतामात्रम् - असाधारणानुकूलताया एवाकाङ्क्षानिरूपकत्वोपगमात् । अतोऽस्मदादिकर्तृकपाकादिक्रियानुकूलकृतिमादाय न ' ईश्वरः पचतेि ' इतिप्रयोगः । वेदवचनादौ चेश्वरकृतेरेवासाधारणकारणत्वात् 'ईश्वरो वेदं वक्ति' इत्यादयः प्रयोगा इत्यपि केचित् ।
-
शरीर विशेषात्मकः = शरीरविशेषरूपो य उद्देश्यतावच्छेदकस्तदवच्छेदेनात्मनि समवायेन कृतेरन्वय संभवादित्यन्वयः । अत्र ' कृतेः ' इति शेषः । ' गौरः पचति इत्यादौ गौरादिपदस्य गौरशरीरावच्छिन्नात्मनि लक्षणा तत्र च कृतेरन्वयः संभवत्येव किं वात्राख्यातस्यैव व्यापारे लक्षगा व्यापारस्तु जडे शरीरेपि संभवत्येवेत्याह- गौर इति । चैत्रादिपदं तु शरीरावच्छिन्नात्मवाचकमेवेति न चैत्रादिपदस्य शरीरावच्छिन्नात्मनि लक्षगापत्तिराख्यातस्य वा व्यापारे
क्षमापत्तिः, गौरादिपदं तु गौरत्वादिगुणपुरस्कारेण प्रवृत्तं गौरत्वादिधर्मत्रतः शरीरस्यैव वाच - कमिति गौरशरीरावच्छिन्नात्मनि लाक्षणिकमेवेति विवेकः । उपसंहरति - एवं चेति, उक्तप्रकारेण शरीरावच्छिन्नकृतेरेवाख्यातार्थत्वाद् ईश्वरकृतेश्व शरीरानवच्छिन्नत्वेनाख्यातार्थत्वाभावादुक्तस्थले = ' ईश्वरो वेदं वक्ति ' इत्यादावीश्वरकृतेः शरीरावच्छेदेनेश्वरेऽन्वयाऽसंभवादाख्यातस्य व्यापारे लक्षणाsssयं स्त्रीकार्येत्यर्थः । किं वेश्वरस्य शरीरावच्छिन्नत्वाभावादऽत्राख्यातस्य व्यापारे लक्षणैवेत्यर्थः ।
८
पक्षान्तरमाह - ईश्वरकृतीति । असाधारणानुकूलत्वम्=असाधारणकारणत्वम् । चैत्रः पचति' इत्यादौ यत्ने क्रियाया असाधारणानुकूलत्व संबन्धेनान्वयः स्वीकार्य : चैत्रकर्तृकपाकं प्रत्यसाधारणानुकूलत्वं हि चैत्रवृत्तियत्नस्यैव भवति नेश्वरवृत्तियत्नस्यापि तस्य कार्यमात्रसाधार'णत्वादिति देवदचे पचति सति ' ईश्वरः पचति । इतिप्रयोगापत्तिर्नास्तीत्यर्थः । यदि क्रियाया यत्नेऽनुकूलतामात्रसंबन्धेनान्त्रयः स्वीकृतः स्यात्तदेश्वरयत्नस्यापि देवदत्तकर्तृकपाकं प्रत्यनुकू-त्वात् ( कारगत्वात् ) तादृशपाकस्यानुकूलता संबन्धेनेश्वरयत्नेव्यन्त्र यसंभवाद् देवदत्ते पचति सति ' ईश्वरः पचति ' इतिप्रयोगापत्तिः स्यादपि न चाऽनुकूलतामात्रं संबन्ध इत्याह- न "त्विति । असाधारणानुकूलतायाः संबन्धत्वे हेतुमाह- असाधारणेति, आकाङ्क्षा निरूपकस्यैव संबन्धत्वसंभवादसाधारणानुकूलताया एवाकाङ्क्षानिरूपकत्वात्संबन्धत्वमित्यर्थः । फलमाह - अत इति, ईश्वरकृतावस्मदादिकर्तृकपाकक्रियानुकूलत्वे सत्यप्यऽसाधारणानुकूलत्वाभावान्न तादृशेश्वर - कृतिमादाय ' ईश्वरः पचति ' इति प्रयोगो भवति - ईश्वरकृतेः सर्वकार्यसाधारणानुकूलत्वात्. असाधारणानुकूलकृतिमादायेव च पचति ' इत्यादिप्रयोगस्येष्टत्वादित्यर्थः । ईश्वरो वेदं
C
6
" Aho Shrutgyanam"