________________
( ५६६ )
सादर्श:
[ आख्यातप्रकरणे -
C
L
?
अय कृतेराख्यातस्य कृञश्च वाच्यत्वे ' करोति ' इत्यादौ कृतेर्द्विधा भान स्यात् - धातुप्रत्यययोर्द्वयोः कृतिबोधकत्वादितिचेत् ?, नद्वौ एक: इत्यादावेकत्व द्वित्वादिबोधक प्रकृतिप्रत्ययोभयसत्त्वे प्येकवैवैकत्वादिधीवत् प्रकृतेपि बाधकाभावात्, तत्र विभक्तेः साधुत्वार्थकत्वे प्रकृतेपि तथात्वात् । - अथ तर्हि ' करोति चैत्रः ' इत्यादौ प्रातिपदिकार्थे साक्षादेव कृत्यन्वयः स्थात्. स च ' नामार्थधात्वर्थयोर्भेदेन साक्षादन्वयस्याऽव्युत्पन्नत्वात्' न संभवति, नामार्थधात्वर्थयोः साक्षादन्वयोपगमे कर्मतादिबोधकविभक्तेरसत्त्वेपि ' तण्डुलः पचति' इत्यादौ कर्मतादिसंबन्धेन तण्डुलादेः पाकादावन्वयसंभवेन तादृशवाक्यात् तण्डुलकर्म कपाकादिबोधापत्तेः । न च प्रातिपदिकार्थप्रकारकक्रियान्वयबोधः एवाऽव्युत्पन्नो न तु क्रियाप्रकारकप्रातिपदिकार्थविशेष्यकवोघोपीति वाच्यम्, घटः करोति इत्यादितः कर्मतादिसंबन्धेन कृत्यादेर्घदादावन्वयाभावात्,
"
,
वक्ति इत्यादिप्रयोगस्तूपपद्यते-- वेदवचनादावीश्वरकृतेरेवाऽसाधारणानुकूलत्वादित्याह - वेदचचनादाविति ।
शङ्कते - अथेति । कृतेरिति - आख्यातकृञोः कृतिवाचकत्वे इत्यर्थः । परिहरति- नेति, यथा " एकः इत्यत्र प्रकृतिप्रत्यययोरुभयोरप्येकत्वबोधकस्येप्येकत्वस्यैकधैव भानं यथा च ' द्वौ ' इत्यत्र प्रकृतिप्रत्यययोरुभयोरपि द्वित्वबोधकत्वेपि द्वित्वस्यैकधैव भानं तथा ' करोति इत्यत्र प्रकृतिप्रत्यययोरुभयोरपि कृतिबोधकत्वेप्येकधैव कृतिभानं भवति बाधकाभावादित्यर्थः । तत्र= * एकः द्वौ इत्यादी यदि विभक्तेः साधुत्वार्थकत्वमेव न स्वकत्वादिबोधकवं तदा प्रकृते=
£
$
" करोति ' इत्यत्राख्यातस्यापि साधुत्वार्थकत्वमेव न कृत्यर्थकत्वमित्याह - तत्रेति ।
"
ननु यदि ' करोति चैत्र: ' इत्यादावाख्यातस्य साधुत्वार्थकत्वं तदाऽऽख्यातोपस्थितार्थाभावेना . तत्र कृधात्वर्थकृतेरन्वयासंमवादाश्रयतासंबन्धेन साक्षाच्चैत्रे नामार्थे एवान्वयो वक्तव्यः स तु न संभवतीत्याशङ्कते - अथेति । नामार्थधात्वर्थयोः साक्षादन्वयोपगमे बाधकमाह - नामा - र्थेति । कर्मता दिसंबन्धेनेत्यस्य स्वकर्मकत्व संबन्धेनेत्यर्थः । किं वा तण्डुलवृत्तिकर्मतापि निरूपकत्वसंबन्धेन पाकादावस्त्येव तेन संबन्धेन पाके साक्षादेव तण्डुलान्वयः स्याद् न चैतदिष्टमि - त्यर्थः । नामार्थधात्वर्थयोर्भेदेन साक्षादन्वयस्यान्युत्पन्नत्वे तु ' तण्डुलं पचति ' इत्यादौ तण्डुलस्य कर्मतायां कर्मतायाश्च पाकेन्वयः स्वीक्रियते इत्यादिकं पूर्वप्रतिपादितमेव स्मर्तव्यम् । ननु प्रातिपदिकार्थस्य प्रकारतया साक्षात् क्रियायामन्वयो न भवति क्रियायास्तु प्रकारतया प्रातिपदिकार्थे साक्षादप्यन्वयो भवत्येव तथा च तण्डुलः पचति ' इत्यत्र तण्डुलस्य साक्षात्पाकेSasirat' करोति चैत्रः ' इत्यत्र धात्वर्थकृतेः साक्षादपि चैत्रेऽन्वयः संभवत्येव बाधकाभावादित्याशङ्क्याह- न चेति । उत्तरमाह - घट इति, यदि क्रियायाः प्रातिपदिकार्थे साक्षादपि भेदान्वयः स्यात्तदा 'घटः करोति । इत्यत्र धात्वर्थकृतेः कर्मतासंबन्धेन घटेऽन्वया
"
"Aho Shrutgyanam"