________________
आख्यातार्थविचारः] व्युत्पत्तिवादः।
(५६७) क्रियाप्रकारकनामार्थविषयकबोधस्याऽव्युत्पन्नत्वादितिचेत् ?, न- उक्तातिप्रसङ्गवारणाय धातोः कर्मतादिसंबन्धेन क्रियान्वयाऽबोधकत्वव्युत्पत्तेरुपगमाद् न त्वाश्रयतासंबन्धेन कृत्यादिरूपक्रियान्वयाऽबोधकत्वव्युत्पत्तेरित्यदोषात् ।।
न च तादृशातिप्रसङ्गवारणाय धातुजन्यकृत्यादिप्रकारकान्वयबोधे प्रत्यय जन्यविशेष्योपस्थितेहेतुता वाच्या ताशकारणाभावात् प्रातिपदिकार्थविशेष्यकबोधोपि न संभवतीति वाच्यम्, कर्मवादिसंबन्धेन कृत्यादिप्रकारकबोधस्याप्रसिद्ध्या सामय्यडकल्पनेनाऽऽपादकाभावात् तादृशकारणताया अकल्पनात् । .. न च ' क्रियते चैत्रः' इत्यादौ कृत्यादिप्रकारकान्वयबोधवारणायैवोक्ता कारणताकल्पनमावश्यकमिति वाच्यम्, सति तात्पर्ये इष्टत्वात् । कर्तृविशेष्यपत्त्यात्र घटकर्मककृतेर्बोधः आपद्येत न चैवमस्ति तस्मात् क्रियाया अपि प्रातिपदिकार्थे साक्षाद् भेदान्वयो नैव भवति तथा च ' करोति चैत्र: ' इत्यत्रापि कृतेश्चैत्रे साक्षादन्वयवारगायाख्यातस्य सार्थकत्वं स्वीकर्तव्यं येनाख्यातार्थे एव कृतेः साक्षादन्वयः स्यादित्यर्थः । परिहरति- नेति । उक्तातिप्रसङ्गवारणाय='घटः करोति ' इत्यादौ धात्वर्थकृतेः कर्मतासंब. न्वेन घटेऽन्वयापत्तिवारणाय धातुः कर्मतादिसंबन्धेन प्रातिपदिकार्थे स्वार्थक्रियान्वयं न बोधयति. आश्रयतासंबन्धेन तु बोधयति इति व्युत्पत्तिः स्वीक्रियते तथा च' घटः करोति' इत्यत्र धात्वर्थक्रियायाः कर्मतासंबन्धेन घटेऽन्वयापत्तिर्नास्ति, 'करोति चैत्रः । इत्यत्र त्वाश्रयतासंबन्धेनैव धात्वर्थकृतेश्चत्रेन्वय इष्टस्तत्र च बाधकाभावात् नानुपपत्तिरित्यर्थः । न वितिआश्रयतासंबन्धेन कृत्यादिरूपक्रियान्वयाऽबोधकत्वव्युत्पत्तेस्त्वनुपगमात् ' इत्यन्वयः ।
ननु धात्वर्थकृत्यादिप्रकारकान्वयबोधं प्रति प्रत्ययजन्याया विशेष्योपस्थितेः कारणत्वं वक्ष्या. मस्तथा च 'धदः करोति ' इत्यत्र घटस्य प्रत्ययेनोपस्थितेरभावान्न घटे कृत्यन्वयापत्तिः 'घर्ट करोति चेत्रः' इत्यत्र च द्वितीयोपस्थितकर्मतायां कृत्यन्वयः स्यादेवेत्याशझ्याह-न चेति । प्रातिपदिकार्थेति- धात्वर्थप्रकारकप्रातिपदिकार्थविशेष्यकेत्यर्थः । उत्तरमाह-- कर्मत्वादीति, यदि कृतेः कर्मतासंबन्धेन साक्षात् प्रातिपदिकार्थेऽन्वयबोधः प्रसिद्धः स्यात्तदा तदापादकसामन्या तदापत्तौ प्राप्तायां त्वदुक्तरीत्या कार्यकारणभावकल्पनेन तनिरोधः क्रियेतापि न च कर्मत्वादिसंबन्धेन कृत्यादिप्रकारकबोधः प्रसिद्ध इत्यर्थः । सामग्रीति- प्रसिद्धस्यैव सामग्री प्रकल्प्यते न त्वप्रसिद्धस्येत्यर्थः । तादृशकारणताया:-धातुजन्येत्यादिनियमस्य ।
ननु कृत्यादिप्रकारकान्वयबोधं प्रति प्रत्ययजन्यविशेष्योपस्थितेः कारणत्वकल्पने तु ' क्रियते चैत्रः ' इत्यत्र चैत्रस्य प्रत्ययजन्योपस्थितेरभावात् कृतिप्रकारकचैत्रविशेष्यकबोधस्यापत्तिर्नास्ति, उक्तकारणाऽकल्पने च स्यादेवेत्युक्तकारणकल्पनावश्यकतेत्याशक्याह- न चेति । अभ्युपगम्याह- सतीति, ' क्रियते चैत्र: ' इत्यत्रापि कृतिप्रकारकचैत्रविशेष्यकबोधतात्पर्ये सति ताहशबोध इष्ट एवेत्यर्थः । नन्वेवम् ' क्रियते चैत्रः' इतिप्रयोगः कथं न क्रियते ? इत्याशङ्या
"Aho Shrutgyanam"